Book Title: Dvadasharnaychakram Part 1
Author(s): Mallavadi Kshamashraman, Labdhisuri
Publisher: Chandulal Jamnadas Shah

View full book text
Previous | Next

Page 304
________________ २५४ द्वादशारनयचक्रम् [विधिविध्यरे साश्रियणीया एव, नियत्यादिमात्रेण पूर्वाद्यनपेक्षेण व्यवहारासिद्धेः, नियतेरेवासिद्धेर्व्यवहारासिद्धिरन्यथेति, पूर्वादिभिर्विना बीजादीनामनियतत्वात् स्वभाववन्नियत्यभावो नियत्यभावाव्यवहारासिद्धिरिति । मम पुनः कालवादिनः पूर्वादिषु तु समाश्रितेषु नियत्या किं क्रियते ? सिद्ध्यत्येव नियत्या विनापि क्रमव्यवहारः पूर्वादिभिरेव कृतत्वादित्यर्थः । B किश्चान्यन्नियतिवादे त्वन्यायेन तु हिताहितप्राप्तिप्रतिषेधार्थाचारोपदेशावनर्थको, चशूरूपग्रहणनियतिवत्, नियत्या सिद्ध्यत्स्वसिद्ध्यत्सु वा किं यत्नोपदेशाभ्याम् ? अयत्नत एव तथा सिद्धेः। (त्वदिति) त्वन्यायेन तु-त्वदीयेनैव न्यायेन विदुषां हिताहितेत्यादि, हितप्राप्त्यर्थ आचारो लौकिक:-कृषिवाणिज्यसेवादिरोदनपचनभोजनादिश्च दृष्टार्थः, तदुपदेशश्च-एतत्कुरु, इदं ते श्रेय 10 इति, लोकोत्तरश्चादृष्टार्थो यमनियमादिः, अहितप्रतिषेधार्थश्च लौकिकः क्षारविषकण्टकाग्निशस्त्रादिपरिहारार्थः, तदुपदेशश्च बालादीनां मा कार्षीरिति । लोकोत्तरश्चादृष्टार्थो हिंसानृतस्तेयाब्रह्मादिभ्यो विरतिः श्रेयसीति, तावतावाचारोपदेशावनर्थको स्याताम् , नियत्यैव ह्यवश्यम्भाव्यर्थोऽनों वेति किमाचारोपदेशाभ्याम् । किमिव ? चक्षुरूपग्रहणनियतिवत् , यथा चक्षुषा रूपं पश्यन्तं पुरुषं नियत्या स्वभावतोऽन्येन वा केनचित्कारणेन त्वदभिमतेन सिद्धत्वात् , पुरुषकाराइते यो ब्रूयात् 'चक्षुषा रूपं 15 पश्य मा द्राक्षीर्जिह्वयेति किं तेन कृतं स्यात् ? तथा नियत्या सिद्ध्यत्स्वसिद्ध्यत्सु वा किं यत्नोपदेशाभ्याम् ? किं कारणं ? अयत्नत एव तथा सिद्धेः, ओदनकवलाद्यास्यप्रवेशोऽपि प्रक्षेपयत्नादृते त्वन्मतेन सिद्धयेत् , अप्रक्षिप्ते कवले क्षुत्प्रतीकारः स्यादित्यादि योज्यम् । यत्नोऽपि नियतित एव चेत् सर्वलोकशास्त्रारम्भप्रयोजनाभिधानानर्थक्याल्लोकागमविरोधौ, भावस्यान्यथाभावाभावात् । 20 (यत्नोऽपीति) स्यान्मतं योऽप्यसौ यत्नो नियतित एव, एषोऽप्याचारोपदेशरूपस्तृप्तिप्रयोजनौदनपचनास्यप्रक्षेपादिरूपश्च, तथा तथा नियतित्वादित्येवं चेन्मन्यसे ततः सर्वलोकशास्त्रारम्भप्रयोजनाभिधानानर्थक्याल्लोकागमविरोधौ-यथासंख्यं लोकविरोध आगमविरोधश्च, सर्वलोकस्य सर्वशास्त्राणाञ्चारम्भप्रयोजनयोस्तदभिधानस्य चानर्थक्यम् । बुभुक्षाप्रतीकारप्रयोजन ओदनपाकारम्भः सह प्रयोजनेन तृप्त्यादिना, तदुपदेशवचनारम्भप्रयोजनानि चानर्थकानि लोके, शास्त्रेषु च धर्मार्थ 25 मनासामर्थ्यात् , अतो न व्यवहारसिद्धिरित्याह-मम पुनरिति । नियतिवादेऽनुपपत्त्यन्तरमभिधत्ते-त्वन्यायेन विति, तुशब्द एवार्थे, हितप्राप्तिफलको योऽयमाचारो लौकिकोऽलौकिको वा, तथाऽहितप्रतिषेधफलको लौकिकोऽलौकिको वा य आचारस्तदुपदेशो व्यर्थः, तथाविधनियत्यैव हिताहितयोः प्राप्तिपरिहारयोः सिद्धः स्पष्ट मन्यत् । अनर्थकत्वे हेतुमाह-नियत्यैव हीति, दृष्टान्तं सङ्गमयति-यथेति । सर्वे आचारोपदेशा अपि न नियतिमन्तरेण सम्भवन्तीत्याशङ्कते यत्नोऽपीति, तथा सति लोकविरोध आगमविरोधश्च प्रसज्यते भवतो निरोधासम्भवात् , अभवतः कारकासम्भवाल्लौकिकप्रवृत्तिनिवृ30 स्थुपदेशानां निरर्थकत्वादित्याह-सर्वलोकेति । असौशब्दस्यैवार्थमाह-एषोऽपीति । ओदनपाकादौ तृप्तिबुभुक्षाप्रशा न्त्यर्थ लौकिकी प्रवृत्तिरोदनादिकं कुर्वित्याद्यभिधानञ्च यल्लोके दृश्यते तस्य विरोधः, अलौकिकी च धर्माद्यर्थी प्रवृत्तिस्तज्ज्ञापकशाबारम्भः तदनुसारेण विदुषामुपदेशश्च दृश्यमानो यस्तस्य विरोध इति दर्शयति-यथासंख्य मिति । हेतुमाह-भाव Jain Education International 2010_04 For Private & Personal Use Only www.jainelibrary.org


Page Navigation
1 ... 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354