Book Title: Dvadasharnaychakram Part 1
Author(s): Mallavadi Kshamashraman, Labdhisuri
Publisher: Chandulal Jamnadas Shah
View full book text
________________
द्वादशारनयचक्रम्
[ विधिविध्यरे
स्यान्मतमतीतानागताकारता वर्त्तमानाकारतावन्नियता विद्यमानैव तिरोभूतत्वान्नोपलभ्यते, वर्त्तमानाकारता त्वाविर्भूतत्वादुपलभ्यत इत्युक्तत्वादनुत्तरमित्यत्रोच्यते---
अपि च तथापि नैव कालातिक्रम इति स्वीक्षितमपि कालादृते नान्यत् कारणमवस्थानां क्रमेण रूपादीनां वा युगपदवस्थापकमालक्ष्यते, अस्मात् कललार्बुदपेशीघनादिक्रमेण 5 नियतानन्तराभिव्यक्त्यैवाऽभ्युपगतमपि कालं नियतिमात्रग्राहदोषेण स्वपक्षरागाच्चानिच्छता त्वयाऽऽत्मा तेभ्यो गुणेभ्योऽपनीयते ।
२५२
अपि च तथापि नैव कालातिक्रम इति, एवमपि व्याकारताया युगपद्वृत्तायाः क्रमेणाविर्भाव तिरोभावावतीतमनागतमिति चैतत्सर्वं कालवाचिशब्दार्थसामर्थ्यप्रतिपादितं कलनं वर्त्तनं भवनमन्तरेण न स्यादतः कालस्यानतिक्रमणीयतेति, स्वीक्षितमपीत्यादि, एतेन प्रकारेण सुष्ठु परीक्षितमपि 10 कालाते नान्यत् कारणमवस्थानां बाल्यादीनामङ्करादीनाञ्च क्रमेणावस्थापकं रूपादीनां वा युगपदवस्थापकमालक्ष्यते, अस्मात् त्वया नियतानन्तरव्यक्त्यैवाभ्युपगमतः काल :- सप्ताहं कललं भवति, ततः सप्ताहमर्बुद, एवं पेशी घनमित्येवमादिक्रमेण गर्भादिषु पूर्वोक्तावस्थानां पूर्वस्यानन्तरावस्थाऽऽभि - यज्यत इत्यनयै नियतानन्तराभिव्यक्तत्या कालमभ्युपगतमपि नियतिमात्रग्रहदोषेण स्वपक्षरागाश्चानिच्छता त्वयाऽऽत्मा तेभ्यो गुणवत्कालपक्षपातकृतगुणेभ्योऽपनीयते । मा भूद्राह इत्युक्तेऽतिनिष्ठुरत्वा15 चित्तपीडेति ग्राहवद्राह इति प्राग्व्याख्यातगौणशब्देनोच्यते, अथवा ग्राहोऽभिप्रायः, ग्राहयतीति ग्राहस्तस्याभिप्रायस्य दोषेण स्ववचनाभ्युपगतमपि कालमपश्यन् कालतत्त्ववादित्वावाप्ययशोधर्मादिगुणगणादात्मानमपनयसि ।
20
यदि नियतिकृतैवार्थप्रवृत्तिस्तथापीदं पूर्वमिदं पश्चादिदमिदानीमिदं युगपदिति न युज्यते, सर्वेषां तेषां बीजादौ नियतेः सन्निहितत्वात् ।
यदि नियतिकृतेत्यादि यावन्न युज्यते, नैवमभ्युपगन्तुं शक्यं नियतिकृतैवार्थानां प्रवृत्ति - रिति, अनन्तराभिहितदोष सम्बन्धात् कालत्वस्योक्तत्वाच्च, अभ्युपेत्यापि नियतिकृतत्वं दोषं ब्रूमः, इदं
र्भूततेति न काले नास्ति किञ्चित् प्रयोजनमित्याशङ्कते - स्यान्मतमिति । युगपदाकारत्रयसद्भावेऽपि । पर्यायेणाविर्भावतिरोभावी तथातीतानागतादिव्यवहारश्च न कालेन विना सम्भवतीत्युत्तरयति अपि चेति । अभिव्यञ्जक कारणान्यपि कालेन प्रयुक्ता - न्येवाभिव्यञ्जयन्ति नान्यथा क्रमयौगपद्यनिर्वाह इति भावः । नियमतोऽनन्तरमवस्थानामभिव्यक्ति ब्रुवता त्वयाऽपि कालोऽभ्यु25 पगत एवेत्याह-अस्मात्त्वयेति, पूर्वोक्तावस्थानां कललार्बुदपेशी घनाववस्थानाम्, पूर्वं तथा नियत्या विद्यमानाया एवावस्थायास्तथा नियत्योत्तरमभिव्यक्तिरिति पूर्वोत्तरकालावभ्युपगच्छन्नपि कालकारणं त्वं नं ब्रूषे तत्र केवलं स्वपक्षराग एव कारणं तत्रानुरको गुणवत्कालकारणत्वं नाभ्युपैषीति भावः । अत्र ग्राहशब्दो न जलचरवाचकः, जलचरत्वेन नियतिवादिनोऽभिधानेऽतिनिष्ठुरत्वेन तस्य चित्तपीडा भवेदिति तन्मा भूदिति करुणया ग्राह इव ग्राह इति गौणशब्द एव प्रयुक्तो मूलकृतेत्याह- मा भूदिति गौणशब्द एवात्र प्रयुक्त इत्यत्र नियामकाभाव इति चेत्तदाप्याह- अथ वेति । कालेति कालतत्त्ववादित्वादवाप्यो यो यशो - 30 धर्मादिगुणगणस्तस्मादित्यर्थः । ननु बाल्यादिरूपादीनां नियतिकृतत्वं मयोक्तमेव किं कालकारणेन, क्लृप्तकारणेनैव निर्वाहेऽतिरिक्त कालकल्पना वैयर्थ्यादित्याशङ्कायामाह - यदीति, अतीतानागतवर्त्तमानयौगपद्याद्यवगाहि सकलजन प्रसिद्धाबाधितव्यवहाराणां नियत्या निर्वाहयितुमशक्यत्वादतिरिक्तस्य सवाधारस्य सर्वकारणस्य कालतत्त्वस्य सिद्धिरित्युत्तरयति - तथापीद्मिति, यदि कालो न स्यात्तर्हि बीजादावेव मूलाङ्कुरादीनां तत्तन्नियतीनाश्च सत्त्वेन सदैव मूलादीनामुपलम्भः प्रसज्येत, क्रमयौगपद्य व्यवस्थापका
Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354