Book Title: Dvadasharnaychakram Part 1
Author(s): Mallavadi Kshamashraman, Labdhisuri
Publisher: Chandulal Jamnadas Shah

View full book text
Previous | Next

Page 309
________________ झानादिनैक्यता कालस्य ] न्यायागमानुसारिणीव्याख्यासमेतम् २५९ खपुष्पं न भवति घटो वा पटतया, तदेव तद्भवति तदेव चान्यथाऽपि भवति, कारणभेदेनापि स एव तथा कलयन् वर्त्तनेन कल्पते तेन च तस्मै चेत्यादि । ... स तथेत्यादि, स एव-कालस्तथाभूतेन-वर्तमानरूपेण कलनार्थेन सामानाधिकरण्येन तां वर्त्तनामेव सामान्यामभिन्नामत्यजन भूतो भवति भविष्यश्चेति विशेषव्यपदेशं लभते, नान्यः कश्चिदकलनात्मकपदार्थो नियत्यादिः, असत्त्वात् । स एव कलनालक्षणो भावस्त्रिधा भिद्यते, तत्समानाधिकरण-5 त्वात् सत्त्वात्मकत्वात् , घटवत्, न व्यधिकरणो भूतो भवति भविष्यंश्चाकाल एव व्यधिकरणोऽसद्रूप एव, किं कारणं ? अन्यथाऽन्यस्याभावात् , अन्यो ह्यन्यथा न भवति, यथा कुसुमं खपुष्पं न भवति, खपुष्पं वा कुसुमं न भवति, घटो वा पटतया न भवति पटो वा घटतया न भवति, किं तर्हि ? तदेव तद्भवति, कुसुमेव कुसुमम् । तदेव चान्यथापि भवति, यथा कुसुममेव मुकुलितार्धविकसितसमस्तविकसितजरन्म्लानत्वादिना । एवं तावत् काल एव भाव इत्यभेदेन भवनं व्याख्यातम् । कार-10 णभेदेनापि स एव तथा कलयन् वर्त्तनेन कल्पत इति, कल्पनस्य कर्तृत्वमनुभवतीति कलनं भवतीत्यर्थः, स एव कल्पते-क्रियते कर्म भवतीत्यर्थः, पूर्वापरतया कार्यकारणभावात् , तेन च तस्मै चेत्यादि, तस्यैव कलनस्य शक्तिभेदात् तेन क्रियते इति करणता, तस्मै क्रियत इति सम्प्रदानता, आदिग्रहणात् तस्मात्तस्मिन्नित्यपादानाधिकरणभावोऽपि तस्यैव । इदानीं कालस्य त्रिधा भिन्नस्याप्यभेदोपदर्शनार्थं ज्ञानेन क्रियया चैक्यमुच्यते- 15 एवमेव च स वर्तमानातीतयोः कारणावस्थयोरेव कार्यस्याभिमुख्येन गृह्यते, यथासंख्यमेकत्र पटादिरेकत्र मेघादिः, एवमेव चेत्यादि, यावदेकत्र मेघादिरिति, ज्ञानेन तावदेकत्वं दृश्यते, एवमेवेति, यथैव कर्तृकर्मकरणादिशक्तिभेदेऽप्यभिन्नः कालस्तथा स वर्तमानातीतयोः कारणावस्थयोरेव-सप्तम्यन्तनिर्देशोs. धर्मधर्मिणोर्भेदमालक्ष्य धर्मपरिणामः लक्षणपरिणामोऽवस्थापरिणामश्चेति, तत्र भूतानां पृथिव्यादीनाञ्च धर्मिणां गवादिर्घटा- 20 मः, धर्माणाञ्चातीतानागतवर्तमानरूपता लक्षणपरिणामः, वर्तमानलक्षणापन्नस्य गवादेबाल्यकौमारयौवनवाधक्यमवस्थापरिणामः, घटादीनामपि नवपुरातनताऽवस्थापरिणामः, एवञ्च वर्तनालक्षणो धर्मः स खलु प्रादुर्भावकालेऽनाग. तलक्षणमध्वानं हित्वा वर्तमानं लक्षणं प्रतिपद्यते तथा वर्तमानलक्षणं हित्वाऽतीतं लक्षणं प्रतिपद्यते, हानमपि न विनाशो नवा उत्पत्तिः, किन्त्वाविर्भावतिरोभावावेव, अतो योऽनागतो धर्म आसीत् स एव वर्तमानभूतोऽतीतो भविष्यतीति त्रिलक्षणावियुक्त इति बोध्यम् । ननु सत एवाविर्भावतिरोभावदर्शनादर्थक्रियाकारिण एव च सत्त्वानियत्यादेश्चैकान्तनित्यस्यार्थक्रिया- 25 कारित्वाभावेनासत्त्वान्न कारणत्वमित्याह-नान्य इति । हेतुमाह-अन्यथेति,। यथेति, सन्नासद्भवतीत्यर्थः । खपुष्पं वेति. असद्वा न सद्भवतीत्यर्थः। तदेवेति. धर्मिणि वर्तमानस्यैव धर्मस्य वर्त्तमालक्षणस्यातीतानागतवर्तमानावस्थासु भावान्यत्वं भवति, भावः-संस्थानभेदः, यथा सुवर्णभाजनस्य भित्त्वाऽन्यथा क्रियमाणस्य भावान्यथात्वं भवति नतु सुवर्णान्यथात्वमिति भावः। तत्र दृष्टान्तमाह-यथा कुसुममेवेति । काल एव कर्तृत्वकर्मत्वकरणत्वसम्प्रदानत्वापादानत्वाधिकरणत्वान्यनुभवति शक्तिमेदादित्याह-कलन भवतीत्यर्थ इति । पूर्वोपरीभावेन कारणकार्यभावादिति भावः । कत्तकर्मत्वादि-30 शक्तिमेदादेव भेदव्यवहारोपपत्तेर्जगत्कारणस्य कालाख्यस्य न मुख्ये भेदोऽस्ति, वर्तमानशक्तिसम्बन्धेन भावानां सतामेवाभिव्यक्तिर्जन्म, अतीतानागतकालशक्तिसम्बन्धेन सतामेव तिरोभावोऽदर्शनमनभिव्यक्तिर्विनाशः प्राक्प्रध्वंसाभाव इति शक्तिभेदात् कार्यभेदोपपत्तौ कालभेदकल्पना निर्निमित्तेत्याह-यथैवेति । अतीतावस्थायामुत्तरावस्थाभिमुख्येन-अर्थक्रियाया -निवृत्ततया वर्तमानावस्थायाञ्च कार्यस्याभिमुख्येन-अर्थक्रियां कुर्वता स एव कालो गृह्यते न तु वर्तमानकालोऽतीतकालो वा भिन्नतया गृह्यत इति भावः । वर्तमानावस्थायामिति, पटादेः कार्यस्य वर्तमानावस्थायामेव तेन सह पूर्वाह्नापरा- 35 Jain Education International 2010_04 For Private & Personal Use Only www.jainelibrary.org


Page Navigation
1 ... 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354