Book Title: Dvadasharnaychakram Part 1
Author(s): Mallavadi Kshamashraman, Labdhisuri
Publisher: Chandulal Jamnadas Shah

View full book text
Previous | Next

Page 308
________________ २५८ - द्वादशारनयचक्रम् -- [विधिविध्यरे व्यप्राणातिपातादिभावः, कालक्रमागतपरिणतिवशादुपशमक्षयक्षयोपशमोदयपरिणामभावैश्वे जीवपुद्गलयोरनाद्यनन्तशो वर्तनात् । न केवलं चेतनाचेतनयोः परस्पररूपापत्तिर्वृत्तिर्वर्त्तनम् , किं तर्हि ? अचेतनस्यापि पृथिव्यादित्वेनापि तथा, तद्यथा-एकजातित्वात् पुद्गलानां पृथिव्युदकज्वलनपवनवनस्पत्यादित्वेन विपरिवर्त्तमानपरिणतीनामनाद्यनन्तश एवंवृत्तिर्वर्त्तनं तस्याऽऽत्मा स्खं तत्त्वं येषां पर• माणूनां ते परमाणवः, तेषामनाद्यनन्तवर्त्तनात्मस्वतत्त्वानां वृत्तेः कलनात्मकं रूपं भूयो भूयो विपरिवर्त्ततेऽभ्यावर्त्तते च, रूपरसादिभेदेन विपरिवर्त्तते, तद्गुणभेदेनापि एकद्वित्रिसंख्येयानन्तगुणभागहीनवृद्ध्या कृष्णशुक्लत्वादिना वाऽभ्यावृत्तिः, एकांशस्यापि परमसूक्ष्मरूपादिभावपरमाणोरप्यनाद्यनन्तशोऽभ्यावृत्तिः, अतस्तदतीतानागतवर्तमानात्मकमेकं कूटस्थमविचाल्यनपायोपजनविकार्यनुत्पत्त्यवृद्ध्यव्यययोगीत्यादि (महा०-१-१-१) आदिग्रहणाद् ध्रुवादिसर्वनियलक्षणम् , एतदेव कलनात्मकं सत् 10 कारणमुपपद्यते, न तु पुरुषनियत्यादि, नित्यत्वं पूर्वापरीभूतभावात्मकविपरिवर्तकलनस्यादिमध्यावसानादर्शनादेवं लक्षणस्य नित्यत्वस्य तस्माद्विश्वविवर्त्तवर्तनायाः कलनं, काल इत्यभिसम्भत्स्यते । । तच्च द्विविधमस्मदाद्यसर्वज्ञं प्रत्यनुमानमात्रगम्यमविविक्तमुद्देशतोऽतीतानागतवर्तमानवर्त्तनाकलनम् , अमितपूर्णकोष्ठागारधान्यकलनवत् , सर्वज्ञं प्रति परमनिरुद्धे काले समये समये वृत्तविविक्तवर्तनासंख्यानं कालः । 18 (तचेति) तच्च कलनं द्विविधम् , अस्मदाद्यसर्वज्ञ प्रत्यनुमानमात्रगम्यमविविक्तम्-सर्ववस्तुसामान्यमात्रग्रहणम् , अमितपूर्णकोष्ठागारधान्यकलनवत् , यथा धान्यममित कोष्ठागारे पूरितं कुम्भशतसहस्रा-. धन्यतमपरिमाणमित्युद्देशतो गृह्यते तथोद्देशतोऽतीतानागतवर्तमानवर्त्तनाकलनमस्मदादिमिः । सर्वज्ञ प्रति परमनिरुद्धे काले समये समये वृत्ताया विविक्तया वर्तनायाः संख्यानं कलनं तत् कालः, कल संख्यान. इति प्रतीतेः। यथोक्तं 'जं जं जे जे भावे परिणमति पयोगवीससादवं । तं तह जाणाति जिणो 20 अपज्जवे जाणणा नत्थि ॥' ( आव०नि० गा० २६६७) इत्येतद्वर्त्तनात्मस्वतत्त्वकालनिरूपणम् । . स तथाभूतेन कलनार्थेन तां वर्तनामेव सामान्यामत्यजन् भूतो भवति भविष्यंश्चेति विशेषव्यपदेशं लभते नान्यः कश्चिन्नियत्यादिः, असत्त्वात् , अन्यथाऽन्यस्याभावात् , यथा कुसुमं परिणामैवर्तनमित्याह-कालक्रमागतेति । विजातीयपरिणामवत् सजातीयपरिणाममप्याह-न केवल मिति वैशेषिकमतवन्न परमाणवो विभिन्नजातीया नियताः किं त्वेकजातीयाः पुद्गला एव कालिकविचित्रपरिणामवशात् पृथिवीजलादित्वं भजन्त 26 इत्याह-एकजातित्वादिति तथा तथा वर्तनलक्षणपरिणामा जीवपुद्गलानामात्मान एव न व्यतिरिच्यन्त इत्याह-एवं वृत्तिरिति । वस्तुतो नित्यात्मनैकेन कालेन प्राण्यप्राणिरूपान् भावान् तेन तेन परिणामेन प्रकाशयन् कलयति भूतानीति काल उच्यत इति भावः । रूपरसादिभेदेन विजातीयेन परिणमनं विपरिणामः, सजातीयेनैव वृद्धिहानि विशेषाभ्यां परिवर्तनमभ्यावृत्तिरित्याह-रूपरसादीति । स च कालः संसर्गिवस्तुक्रियाविशेषोपहितनानात्वोऽप्येको नित्य इत्याह-अतस्तदतीतेति । ननु पूर्वोपरीभूतभावपरिणामकलनात्मकस्य कालस्य कथं नित्यत्वमुत्पादविनाशशालित्वादित्याशंक्य प्रवाहतस्तस्य नित्यत्वम् , 30 आदिमध्यावसानादर्शनादित्युत्तरयति-नित्यत्वमिति । कालस्य सर्वज्ञासर्वज्ञापेक्षया द्वैविध्येन संख्यानं भवतीत्याह-तच्चेति। अस्मदादिभिरसर्वज्ञैः कालः सामान्यरूपतयाऽनुमानेन गृह्यते महति धान्यागारे परिपूर्णधान्यराशेः कुम्भशतसहस्रादिपरिमितत्वेन सामान्यतो ग्रहणवदित्याह-अविविक्तमिति, साकल्येनेयत्तया ग्रहीतुमशक्यमित्यर्थः । सर्वज्ञस्तु प्रतिसमयभाविनं सूक्ष्मतममपि वर्तनापर्यायं सम्यक् पश्यतीत्याह-सर्वशं प्रतीति । सर्वज्ञः सर्वं यथावजानातीति प्रतिपादिकां गाथामाह-जं. जं इति । वर्तनात्मा काल एव भूतभविष्यद्वर्त्तमानरूपो भवतीत्यादर्शयति-स तथाभूतेनेति, त्रिविधः परिणामो भवति Jain Education International 2010_04 For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354