Book Title: Dvadasharnaychakram Part 1
Author(s): Mallavadi Kshamashraman, Labdhisuri
Publisher: Chandulal Jamnadas Shah

View full book text
Previous | Next

Page 307
________________ सर्वस्व कासात्मता] न्यायागमानुसारिणीब्याख्यासमेतम् न्धार्थाः सर्वशास्त्रारम्भाः कालसामादेव सफला नान्यथेति प्रतिपद्यस्व, कथं ? उक्तभावनावत् , उक्ता भावना रूपादिघटादियुगपद्वृत्त्यात्मककालरूपं बीजाङ्कुरादिपूर्वोत्तरक्रमवृत्त्यात्मककालरूपञ्च जगदनियतपरिणतश्चेति, तस्मादुक्तभावनावदनियतेधर्माद्यर्थानामाचाराणां पूर्वापरीभूतक्रियात्वात् क्रियार्थत्वाञ्चोपदेशानां कालस्य च पूर्वापरीभूतस्य क्रियात्वात् सार्थकाः शास्त्रारम्भाः । यथा ब्राह्मणस्य वसन्तेऽन्याधानं, वणिजां मद्यस्य, ईश्वराणां क्रीडादीनाम् , निष्कम.. णमित्यादि यावद्विमोक्षं यतीनाम्। यथा ब्राह्मणस्येत्यादि, एवञ्च कृत्वा कालकृतत्वात् क्रियाक्रियाफलानां धर्मार्थकाममोक्षार्थैः शाखैरेव विहिताः क्रियाः, तद्यथा यथाक्रमं धर्मादिषु-ब्राह्मणस्य वसन्तेऽम्याधानम् , वसन्ते ब्राह्मणो यजेत प्रीष्मे राजन्यः, शरदि वा यजेत वैश्यः' इत्यादिवचनात् । तथा वणिजां मद्यस्य, आधानमिति वर्त्तते । ईश्वराणां क्रीडादीनाम् , उद्यानगमनवासन्तिकवस्त्रालङ्कारमाल्यगन्धभोजनादिसेवनं 10 रमणमिति, आदीनामित्यादिग्रहणात् सन्धिविग्रहासनयानादिगुणानुष्ठान मियादि । निष्क्रमणमित्यादि यावयतीनाम् , निष्क्रमणकालादारभ्य यावद्विमोक्षं, विमोक्षणसात्मकर्मवियोगफलस्य मोक्षस्य कालो यतीनां निष्कमणादेः कालः, यथोक्तं 'अप्पणो निक्खमणकालं आमोएता चइत्ता रजं (कल्पसूत्रे) इत्यादि । तथा दण्डकपाटमन्थानलोकपूरणक्रियामिः तत्काले कर्मत्रिकस्वाऽऽयुषा समीकरणमित्यादि । अनियतचेतनाचेतनत्वपरिणतिक्शाजीवपुद्गलानामनाद्यनन्तवर्तनात्मस्वतत्त्वानां वृत्तेः 18 कलनात्मक रूपं भूयो भूयो विपरिवर्ततेऽतोऽतीतानागतवर्तमानवतैनात्मकमेकं कूटस्थमविपाल्यनपायोपजनविकार्यनुत्पत्त्यवृख्यव्यययोगीत्यादिनित्यलक्षणं कलनं कालस्वरूपतदात्मकत्वभावेनैव वर्तते । अनियतचेतनाचेतनत्वेत्यादि यावत् कलनं कालस्वरूपतदात्मकत्वभावेनैव वर्त्तते, अनियतं चैतन्येनोपयोगरूपादित्वेन रूपे चेतनाया उपयुक्तत्वात् , अचेतनत्वेनाप्यनियतं, चैतन्योपयो- 20 गापस्योपयुक्तत्वात् , अयवा तृणादेर्गवाद्यभ्यवहृतस्य सुखदुःखादिचैतन्यापत्तेर्द्रव्यस्य प्राणाद्यापत्तेकथं तद्वि:यमित्याह-उक्तभावनावदिति। धर्माद्यर्थानामिति, धर्मादिलक्षणफलस्य तद्विषयप्रवृत्तेश्च पूर्वापरीभूतकियास्मतया शास्त्रोपदेशानाच तत्र पुरुषप्रवृत्त्यर्थत्वात् कालस्य पूर्वापरीभूतक्रियात्मकतया सार्थकत्वं शास्त्रारम्भाणां सर्वेषामिति भावः। धर्माधर्ष शास्त्रविहिताः क्रियाः क्रमेणाह-यथेति, ब्राह्मणराजन्यवैश्यानां वसन्तग्रीष्मशरत्सु अन्याधानं धर्माय, वेश्यस्य मद्याधानमर्थाय, राज्ञां क्रीडायाधान कामाय, यतीनां निष्क्रमणादिक्रियाः मोक्षायेति भावः । क्रीडापदग्राह्यमाह-उस नगमनेति। आदिपदमाघमाह-सन्धिविग्रहेति, सन्धिविग्रहयानासनद्वैधसमाश्रयाः षड्गुणाः प्रभावोत्साहमंत्रजाः शकयस्तिम इति नीतिशास्त्रम् । अपणो इति, आत्मनो निष्क्रमणकालं ज्ञानेनावलोक्य त्यक्त्वा राज्यमिति छाया, शैलीशीकरणं सातावेदनीयनायगोत्राख्यकर्मत्रिकस्वाऽऽयुषा समीकरणं भगवतः समुत्पन्न केवलस्य सप्तसामयिकमाह-तथा दण्डेति, तत्र प्रथमक्षणे आत्मनो दण्डकरणं द्वितीये कपाटकरणं तृतीये मन्थानकरणं चतुर्थे लोकपूरणं पुनरुपसंहारप्रक्रियया पञ्चमे मन्धानकरण षष्ठे काटकरणं सप्तमे दण्डकरणमिति । कालात्मत्वं सर्वस्याह-अनियतेति, जीवो हि चेतनत्वेनैव किन्तु परस्पररूपापत्याउनाद्यनन्तशः परिणममानो वर्तते, तथावर्तनाखरूपाणां जीवपरमाणूनां भूयो भूयो विपरिवृत्त्यभ्या. वृत्तिभ्यां वृत्तिवर्तनाकलनात्मकोऽतीतानागतवर्तमानात्मक एकः काल एवेति भावः । अनियतमिति, जीवो न चेतनत्वेनैव नियतः, नवा पुद्गलोऽचेतनत्वेनैव, रूपाद्यचेतनेधूपयुक्तस्य चेतनस्याचेतनत्वात् , अचेतनस्य च ज्ञानोपयोगात्मना परिणतस्म बेतनखरूपत्वादिति भावःप्रकारान्तरेणाचेतनस्य चेतनरूपतां दर्शयति-अथति एवं जीवाजीक्योरनायमन्तशोऽन्योऽन्य बा• न० ३३ Jain Education International 2010_04 For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354