Book Title: Dvadasharnaychakram Part 1
Author(s): Mallavadi Kshamashraman, Labdhisuri
Publisher: Chandulal Jamnadas Shah

View full book text
Previous | Next

Page 301
________________ नियतिवादे दोषाः] न्यायागमानुसारिणीव्याख्यासमेतम् २५१ द्रव्यम् । द्रव्यादयो भावः, द्रव्यगुणकर्मणां सप्रभेदानां भाव इत्याख्या, युगपद्भवनात्, एवं तावद्युगपद्वृत्तिः काल एव भवतीति भावितम् । क्रमवृत्तिनियतिरपि काल एव भवतीति भाव्यते तत आह अयुगपद्भाविनोऽपि भवितुकामस्य वस्तुनो वृत्त्यात्मककालाभावेऽनुपपत्त्यापत्तेः वर्तनाभावाद्वन्ध्यासुतवत् सति च तदुपपत्तेः कालात्मकता । अयुगपद्धाविनोऽपीत्यादि यावदापत्तेः । अयुगपद्भवितुं शीलमस्येत्ययुगपद्भावी, तस्य अयुगपद्भाविनो भवितुकामस्य-भवनाभिमुखस्य बीजाङ्कुरादेर्वस्तुनो यदि वृत्त्यात्मककालभावो नाभ्यु पगम्यते ततो वर्त्तनादतिरिक्तस्य कस्यचिदप्यनुपपत्तिरापद्यते वर्तनाभावाद्वन्ध्यासुतवत्, ततश्चानुपपत्त्यापत्तेः, सति वर्तनात्मके काले तदुपपत्तेः कालात्मकता । एवं तावनियताभ्युपगमः काल. मन्तरेण न भवतीति युगपदयुगपद्वृत्त्यात्मकः, काल एव भवतीत्युक्तम् । इदानीं नियतिवादिनो दोषोऽभिधीयते नियतेस्तु सर्वात्मकत्वात्स्वभावोपालम्भवन्नियत्युपालम्भोऽपि त्वामपि प्रति समानः, सदा सर्वस्यातीतानागतानाकारतावद्वर्त्तमानानाकारता स्यात् वर्तमानाकारतावदतीतानागताकारताऽपि स्यात् । नियतेस्त्वित्यादि यावत्सदा सर्वस्य, यत उक्तस्त्वया स्वभाववादिना प्रति बाल्यकौमार-15 यौवनमध्यमाद्यवस्था युगपत् स्युः, सर्वाकारस्वभावत्वाद्देवदत्तादेः, अङ्कुरपत्रकाण्डाद्यवस्थाश्च युगपत् स्युज़्यादेरित्युपालम्भः, स एव नियतेः सर्वात्मकत्वात् कस्मात्सर्वाकारनियतमेव न भवतीति स्वभावोपालम्भवन्नियत्युपालम्भोऽपि त्वामपि प्रति नियतिवादिनं प्रति समानः सदा-सर्वकालं सर्वस्य वस्तुनस्तस्य तस्येति कालाभावेऽतीतानागतवर्तमानाविशेषात् , दृष्टा चातीतानागतानाकारता वर्तमानाकारता च, वृत्त्यात्मककालाभावानियतेश्चाविशेषादतीतानागतानाकारतावद्वर्त्तमानानाकारता स्यात् , 20 वर्तमानाकारतावदतीतानागताकारतापि स्यात् , न च दृष्टाऽतीतानागताकारता वर्तमानानाकारता वा। अयुगपदिति सहैव भवितुं शीलं येषां नास्ति ते बीजाङ्कुरनालकाण्डादयः स्वस्ख कारणे सन्तोऽपि निखिलेतरकारणसमवधानेऽपि न सह भवन्ति, किन्तु क्रमेणैवेत्यवं वर्तननियमो यतः स काल एव, नियामककालाभावे हि वर्त्तनाया असम्भवेन वृत्तिरहितवस्त्वभावाद्वन्ध्यापुत्रवद्वीजादय आपद्यन्त इति तथाविधः काल एषितव्य इति भावः । नियतार्थेति, योगपद्येनायौगपयेन वा नियता ये रूपादयो बीजादयश्चार्थाः तेषामभ्युपगम इत्यर्थः । ननु 'नच खाभावात् बालादिकाल एव युवतादियुगप-25 दभावे भेदक्रमनियतावस्थोत्पत्तिस्थितिच्यतिदर्शनात् , तत्तथानियतिवस्तु, तदनभ्युपगमे सर्वाविवेकेऽवस्थाखभावाद्यभावादभ्यपगमविरोधस्ते जायत' इति खभाववादिनं प्रति नियतिवादिनोक्तदोषस्तवापि प्रसज्यत इत्याह-नियतेस्त्विति, नियतिरपि हि सर्वात्मिका तथा च खभाववादे य उपालम्भः स एव नियतिवादेऽपि, नियतेः सर्वात्मकत्वे हि कस्मात् सर्वकालनियतं वस्तु न भवति,भवत्येवेत्याह-स एवेति, समानतामाचष्टे-सर्वकालमिति । भूतभविष्यद्वर्तमानाख्यास्त्रयः कालविभागातदभावे तु सर्वं सर्वदा भवेत् , न वा भवेत् , न चैवम् , वर्तमानाकारताया वस्तूनां दर्शनात् वर्तमानाकारतया हि प्रकाशनं दर्शनम् , अती- 30 तानागताकारताभ्याश्च तिरोधानम्, कालाभावे त्वेवं न स्यादिति भावः । ननु नासतामुत्पादो न सतां विनाश इति सत्येव वर्तमानाकारताबदतीताकारताऽनागताकारता च, एताश्च वस्तुधमाः, यस्य धर्मस्य समर्थहेतुसम्पातस्तस्योदयोऽपरयोरनावि. Jain Education International 2010_04 For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354