Book Title: Dvadasharnaychakram Part 1
Author(s): Mallavadi Kshamashraman, Labdhisuri
Publisher: Chandulal Jamnadas Shah

View full book text
Previous | Next

Page 299
________________ कालवादारम्भः] न्यायागमानुसारिणीव्याख्यासमेतम् सम्बद्धयोः कार्यकारणभूतैर्मिथ्यादर्शनादिभिर्नियतिवशात सन्तत्यानाद्यो बन्धः। भव्येषु बन्धोद्वर्तनसमर्थसम्यग्दर्शनादिभावनियतिविवर्त्तान्मोक्षहेतोरमूर्तस्वभावस्य ज्ञानदर्शनवीर्यसुखादिस्वात्मनः स्वात्मन्यवस्थानं मोक्ष इत्येतां बन्धबन्धकबन्धनीयबन्धविधानाद्यने कभेदप्रभेदबन्धप्रक्रियां व्रतसमितिगुप्ति[यति]धर्मानुप्रेक्षापरीषहजयचारित्रसंवरां द्वादशविधतपोऽनुष्ठान निर्जरां क्षेत्रकालगतिलिङ्गतीर्थप्रत्येकबुद्धबुद्धबोधितज्ञानावगाहनान्तरसंख्याऽल्पबहुत्वाद्युपायव्याख्येयां कृत्स्नकर्मक्षयाच्याबाधात्यन्तैकान्तसुखात्मिकाश्च । मोक्षप्रक्रियां परमसूक्ष्मां पश्यन्ननन्तकालमव्याबाधसुखं तिष्ठति, एषा च बन्धमोक्षप्रक्रिया दिङ्मात्रमुपदर्शिता, अतिसूक्ष्मत्वाद्बहुवक्तव्यत्वाच्च नात्र परीक्षाकाले शक्या वक्तुम् । यथोक्तं-'लोगम्मि जीवचिंता सबागमकोसिया दुरोगाहा । तत्तो वि कोसियतरी चिंता बंधे य मुक्खे य ॥' इतिः परिसमाप्त्यर्थः, इत्थं नियतिवादः परिसमाप्तः ॥ अथ काल वादः 10 अपरो द्रव्यार्थो विधिविधिनयविकल्प आह नायमपि नियतिवादः परितोषकरः, एवं तर्हि भावनयाऽनयैव त्वदुक्तया युगपदयुगपन्नियतार्थवृत्तेर्न नियतिरेव, किन्तर्हि ? काल एव भवतीति भावितं भवति । (नायमपीति) एवं तहीत्यादि, येयमुक्ता ज्ञाज्ञस्वतंत्रास्वतंत्रत्वान्न ज्ञ एव भवितुमर्हति, किं तर्हि ? नियत्यैव युगपदयुगपञ्चानेकधा क्रियादिकार्यकारणभावनियतमेतदिति भावनयाऽनयैव 15 त्वयोक्तया युगपदयुगपन्नियतरूपादिबीजाङ्कराद्यर्थवृत्तेर्न नियतिरेव भवति, किं तर्हि ? काल एव भवतीति भावितं भवति 'अपरस्मिन्नपरं युगपच्चिरं क्षिप्रमिति काललिङ्गानि' (वै. द. २।२।६) इति वचनात् , युगपदयुगपन्नियतार्थानां वृत्तेर्भवनार्थत्वात् , वर्तनस्य काललक्षणत्वादिति । न्तरायरूपमष्टविधम् , तैः जीवस्य प्रतिप्रदेशं प्रकृतिस्थित्यनुभागप्रदेशात्मकतया संश्लेषणं बन्धः, तत्र मिध्यादर्शनस्य प्राधान्यात प्राथम्येनोपादानम् , आदिनाऽविरल्यादेर्ग्रहणम् । मोक्षस्वरूपमाख्याति-भव्येष्विति, भव्यजीवेष्वेव कर्मसन्ततेरनादे- 20 रात्यन्तिकक्षयसम्भवात्तदुपादानम्, कर्मबन्धस्योद्वर्त्तनेऽन्यथाकरणे समर्था या सम्यग्दर्शनज्ञानचारित्रलक्षणभावनियतिः तस्याः परिणामविशेषादित्यर्थः। तथाविधनियतिवशात् प्रध्वस्तकर्मणोऽमूर्तज्ञानदर्शनवीर्यसुखादिवरूपस्यात्मनः खस्वरूपेणावस्थानं मोक्ष इति भावः । एवं बन्धमोक्षखरूपमुक्त्वा बन्धप्रक्रियामादर्शयति-बन्धबन्धकेति,जीवकर्म संश्लेषो बन्धः, सकषाय आत्मा बन्धकः, ज्ञानावरणीयादीनि बन्धनीयानि, प्रतिप्रदेशं प्रकृतिस्थित्यनुभागप्रदेशरूपतया बन्धनं बन्धप्रकारः । मोक्षोपयोगिनं सप्रभेदं संवरमादर्शयति-वतेति. निर्जरामाचष्टे-द्वादशेति, इत्थमुक्तान् जीवाजीवानवसंवरनिर्जराबन्धमोक्षानभिधाय 25 तन्निरूपणोपायभूतं द्वारमाचष्टे-क्षेत्रेति, क्षेत्रादयो वस्तुनो व्याख्याप्रकाराः । कृत्नेति, सम्यग्दर्शनज्ञानचारित्रेभ्योऽष्टप्रकारस्यापि कर्मणः सामस्त्येन प्रलयात् बाधारहितं दुःखलेशेनाप्यसंसृष्टं निरवधि सुखलक्षणं मोक्षमित्यर्थः, तदेवं सर्वज्ञः पूर्वोदितं निखिलं वस्तु पश्यन् निरवधिकालं परमसुखस्वरूपतयाऽवतिष्ठते इति भावार्थः । लोगम्मि इति 'लोके जीवचिन्ता सर्वागमोत्कृष्टा दुरवगाहा । ततोऽप्युत्कृष्टतरी चिन्ता बन्धे च मोक्षे च ॥ इति छाया । अथ कालवादमुत्थापयितुकाम आह-अपर इति । पूर्व नियतिवादिना 'अधिकज्ञाज्ञस्वतंत्रास्वतंत्रस्वविषयनियतकर्तकरणाधिकरणकर्मादिनियतशक्तिदर्शनात् देवदत्तकाष्ठ-30 स्थालीतन्दुलोदकादीनां तन्नियमकारिणा कारणेनावश्यं भवितव्यं तेषां तथाभावान्यथाभावाभावादिति नियतिरेवैका कति भावना प्रोक्ता तयैव कालस्य सिद्धिर्न नियतेरित्याह-येयमुक्तेति। कालसाधक्वैशेषिकसूत्रमुपन्यस्यति-अपरस्मिन्निति अपरस्मिन् वस्तुन्यपरमिति परस्मिन् परमिति युगपदिति चिरमिति क्षिप्रमिति प्रत्ययो यतो भवति तत् सर्वस्य कारणमाधारश्च द्रव्य काल उच्यत इति भावः । पदार्था यौगपद्यनायौगपद्येन वा नियताः तेषां तथा वर्तनमेव भवनं वर्तनञ्च काल एव, तल्लक्षणत्वा द्वा० न० ३२ Jain Education International 2010_04 For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354