Book Title: Dvadasharnaychakram Part 1
Author(s): Mallavadi Kshamashraman, Labdhisuri
Publisher: Chandulal Jamnadas Shah

View full book text
Previous | Next

Page 298
________________ २४८ [ विधिविध्यरे यतो भवति, साप्यापेक्षिकी तादृशी नियतिरेव, आदिग्रहणात्कुशलोऽकुशलः पुरुष इत्याद्यपि नियतेरेवेति । एवमप्रयुक्तेषु - स्वातंत्र्यादेव परनियोगानपेक्ष प्रवृत्तिषु नियतिः प्रयुक्तेष्वपि नियतिरेव । करणादीनां - करणाधिकरणकर्त्तृकर्म सम्प्रदानापादानानां क्षमत्वं तत्तत्क्रियासाधनसमर्थत्वमक्षम त्वमसमर्थ - त्वम्, यथोक्तं- 'एतत् परशोः सामर्थ्यं पत्रतृणे न' इत्यादि । तेषामेव कर्त्तृसान्निध्यं प्राप्तिः, असान्निध्य5 मप्राप्तिः, आदिग्रहणात् प्राप्तानामपि करणादीनामन्तरे विना इत्येवमादेः कारणादङ्कुरायुत्पत्त्यनुत्पत्त्योनियतिरेव कारणम्, तथानियतत्वादिति, एतेन पाकादिदोषाः प्रत्युक्ताः - प्रतिषिद्धाः, यदुक्तं त्वया काले न पाकोsकाले पाक इत्यादयो दोषा इति तदपि तथानियतत्वादित्येतेनैव न दोषाय, कालाकालयोरपाकेन पाकेन च तेषां तेषां भावानां नियतत्वात् सैत्र नियतिस्तथातथा नियता भवतीति । द्वादशारनयचक्रम् किञ्चान्यत्- 10 सर्वज्ञोऽपि च न नियतिमन्तरेण, तामेवासौ नियतिमखिलां पश्यन् सर्वज्ञो भवति स हि भव्याभव्यसिद्धादिभेदेषु पुरुषेषु गतिस्थित्यवगाहवर्त्तनारूपरसादिशरीरवाङ्मनःप्राणादिपरिणतिरूपामसङ्कीर्णामनादिमध्यान्तां वस्तुनियतिमेकामनेकरूपां बन्धमोक्षप्रक्रियानियतिसूक्ष्मां पश्यन्ननन्तकालमव्याबाधसुखं तिष्ठतीति । सर्वज्ञोऽपि चेत्यादि, यदपि च सम्यग्दर्शनज्ञानचारित्रतपोभिर्ज्ञानावरणाद्य शेषकर्मक्षयात् केव - 15 लज्ञानप्राप्तिः सार्वज्ञ्यं पौरुषेणेति मन्यसे तदपि मा संस्था नियतिमन्तरेणेति, कथं तर्हि मन्तव्यम् ? सार्व नियतेरेव भवतीति, तामेवासौ नियतिमखिलां पश्यन् सर्वज्ञो भवतीति, तथैव च नियत्या नान्यथेति । स हि भव्यभव्य सिद्धादिभेदेषु पुरुषेषु गतिस्थित्यवगाहवर्त्तनारूपरसादिशरीरवाङ्मनः प्राणादिपरिणतिरूपामसङ्कीर्णामनादिमध्यान्तां - कालत्रयेऽपि अनुत्पत्तिमविनाशां स्वेन रूपेणाविपरिणामां लोकस्थित्यनतिक्रमेणाप्रच्युतस्वरूपां वस्तु नियतिं - बीजादिनियताङ्कुरादिवस्त्वात्मिकामेकां - सर्वभेदेष्वभिन्नामनेक20 रूपां - तेषु भेदेषु तद्रूपनियतित्वादनेकां बन्धमोक्षप्रक्रिया नियतिसूक्ष्मां - जीवकर्मणोरनाद्येन सम्बन्धेन नियतेरेव महिम्ना नान्यस्या इत्याह- एवमिति । नियतिरेव प्रयोजिकेति भावः । करणादीन्यपि तथैवेत्याह- करणेति । एतदिति यदेतत् समाने उद्यमननिपतने परशुना छिद्यते न तृणेन न वा पत्रेण तत्परशोः छेदने सामर्थ्यलक्षणनियतिसद्भावादेवेति भावः । तेषामेवेति करणादीनामित्यर्थः, करणादीनां कार्यानुकूलनिखिलकारणसमवधानासमवधाने नियतिकृते एवेति भावः । कालाकालाभ्यामपाकपाकलक्षणव्यभिचारनिराकरणायाह-यदुक्तमिति । सार्वश्यमपि पुरुषस्य नियति कृत25 मेवेत्याह- सर्वज्ञोऽपीति । सर्वं समस्तं द्रव्य प्रदेशपर्याय नियतिरूपं वस्तु जानाति नियतिबलसमुपलब्धसमस्तावरणक्षयाविर्भूत केवलसंवेदनेनावबुध्यते विशेषत इति सर्वज्ञः, न तु पुरुषकारादिनिर्वर्त्यं सार्वयमित्याह - यदपि चेति । स हि भव्येति, ' सः - सर्वज्ञः, पुरुषास्त्रिविधाः भव्याः अभव्याः सिद्धाश्चेति, सिद्धिगमनयोग्यनियतिमन्तो भव्याः, तद्विपरीतनियतिमन्तोऽभव्याः सिद्धास्तु न भव्या नाप्यभव्याः, सिद्धत्वादेव योग्यत्वायोग्यत्वविरहात्, एवं त्रिविधेषु पुरुषेष्वित्यर्थः । गतीत्यादि, गतिलक्षणो धर्मः, स्थितिलक्षणोऽधर्मः, अवगाहनालक्षणमाकाशम्, वर्त्तनालक्षणः कालः, रूपरसादिमान् 30 षुद्गलः, तथा शरीरवाङ्मनः प्राणादिरूपेण असङ्कीर्णतया परिणता नियतिरेवेत्यर्थः, सा चादिमध्यान्तर हितेत्याह- अनादीति, एवंविधा केत्यत्राह - वस्तुनियतिमिति, तस्या एकानेकरूपतामाचष्टे - एकामिति, सामान्यात्मनैकामित्यर्थः । सामान्यतः स्थूलभूतां नियतिमुक्त्वा सूक्ष्मरूपां तामाह-बन्धमोक्षेति, बन्धखरूपमाचष्टे - जीवकर्मणोरिति, जीवस्य कर्मणश्च योऽयं परस्परो योगः सोऽनादिः परस्परं शरीरकर्मणोः सन्तानस्य बीजाङ्कुरबत् हेतुहेतुमद्भावेनानादित्वात् तस्मात् किं पूर्वं जीवः, पश्चात् कर्म ? किं वा पूर्वं कर्म पश्चाज्जीव इत्याशङ्का नास्ति । तच कर्म ज्ञानदर्शनावरणवेदनीयमोहनीयायुर्नामगोत्रा Jain Education International 2010_04 For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354