Book Title: Dvadasharnaychakram Part 1
Author(s): Mallavadi Kshamashraman, Labdhisuri
Publisher: Chandulal Jamnadas Shah

View full book text
Previous | Next

Page 297
________________ भावाभावकत्वे ] न्यायागमानुसारिणीव्याख्यासमेतम् २४७ स्तस्मात्तेषां सर्वेष / मितरेतरनियत्या नित्यप्रवृत्तिरन्योऽन्याविनाभावात्, तथैव प्रवर्त्तत इत्यर्थः । तथा ह्याहेति लोकसिद्धं ज्ञापकं दर्शयति - सहभावेन वर्त्तत इति सभावकम्, निर्गतो भावोऽस्मादिति निर्भावकम्, किं तत् ? उदकं पतितमिति, तद्भावना यदा हि बीजनियतिरिति, अङ्कुराद्यभिव्यक्तेर्यदाऽभिमुखीभूता बीजनियतिर्भवति तदा तस्या नियतेर्देशः - अंशो भागोऽवयवः स उदकस्थ एव सन्न रोद्भावने प्रवर्त्तमानः सभावक इत्युच्यते, तद्भावांशापेक्षयोदकमपि सभावकमित्युच्यते भेदविव- 5 क्षायां बहुव्रीहिसमासाश्रयणात्, मतुब्लोपाद्वा अभेदोपचाराच्च भाव एवोदकमिति, स च भावोऽङ्कुरादिर्वनस्पत्यौषध्यादेः, मतुप्प्रत्यय निर्देशोऽपि भेदेनोपपद्यते तद्यथा - अस्त्यस्मिन्नस्य वा भावोऽङ्करस्त - स्मिन्नुदके तस्मात् सभावकमिति । अन्यदा तु विपर्ययः-क्षाराम्लाद्युदकेऽङ्कुरादयो न सन्तीति नियतत्वाद्विपर्ययः, तस्मादभावकमुच्यते तज्जलमिति । एवं भूमिवायुकालप्रभृतिष्वपि सभावकाभावकत्वे । यदुक्तं पुरुषस्य ज्ञातुरिच्छानुविधा - 10 नेन वस्तुनियतिवैपरीत्यमिति तन्न, तत्रापि नियतेरेव कारणत्वात् पुरुषो व्यग्रोऽव्यग्र इत्यादि हि नियतेरेव, सापि तादृशी, एवमप्रयुक्तेषु स्वातंत्र्यादेव नियतिः प्रयुक्तेष्वपि करणादीनां क्षमत्वाक्षमत्वप्रात्यप्राप्त्यादौ तथा नियतत्वात्, एतेन पाकादिदोषाः प्रत्युक्ताः । ( एवमिति ) ऊपर भूमावभावः सस्यादेः, पादसौकुमार्यादेर्भावः सुकृष्टे केदारादौ वा सर्वबीजानामङ्कुरादिभावः । पूर्ववायावभावोऽङ्कुरादेः भावस्तु महिषीकार्पासप्रसूत्यादेरन्यस्य पुष्पादेरन्यस्य 15 फलादेः । मनुष्याणाञ्च पूर्ववायावभावः, तद्यथोक्तं 'दिवास्वप्रमवश्यायं प्राग्वातं वा तु वर्जयेत्।' सस्यानामुत्तरे वायौ न भावः । प्रावृष्युप्तानां भावः, वैशाखादिष्वभावः । प्रभृतिग्रहणेनाऽऽतपेऽतिमृदावतितीक्ष्णे चाभावः, समे भावः, आतपाभावेऽप्यभाव एवेति । एवं तावदबुद्धिपूर्वप्रवृत्तेषु कालाङ्कुरादिष्व चेतनेषु नियतिरुक्ता, बुद्धिमत्स्वपि नियतिरेव यदुक्तं प्राक् त्वया पुरुषस्य ज्ञातुरिच्छानुविधानेन वस्तुनियतिवैपरीत्यमिति, तन्नोपपद्यते, तत्रापि नियतेरेव कारणत्वात्, कुतः ? पुरुषो व्यप्रोऽव्यत्र इत्यादि नियतेरेव 20 क्षमन्त इत्याह- परस्परेति इदं नियतेरनेकत्वमभ्युपेत्य, इतरेतरनियत्या नित्यप्रवृत्त्युक्तेः । यद्वा नियतिरेकैव, यैव बीज - नियतिः सैवोदकनियतिः, यैवोदकनियतिः सैव बीजनियतिः । एकनियत्याश्रयाणां सर्वेषां बीजोदकादीनामन्योन्याविनाभावेन प्रवृयाऽङ्कराद्यभिव्यक्तिर्नान्यथेति भावः । सभावकमिति, कार्यनिर्वर्त्तनोन्मुखापर नियतेः स्खसाङ्गत्येनोपोद्बलकत्वं सभावकत्वं तद्विपरीतत्वं निर्भावकत्वमित्यर्थः । एतत्सङ्गमयति-अङ्कुराद्यभिव्यक्तेरिति । इदश्च नियतिरेकैव बीजभूमिजलवातातपकालादिषु वर्तत इत्यभिप्रायेणोक्तमिति प्रतिभाति, बीजनियतेरेव भागेनोदकादौ वृत्तेरुक्तत्वात् यादृशजलादिसंयोगेनाङ्कुरोद्भू- 25 तिस्तादृश एव जलादौ बीजनियतेरवयवतो वृत्तित्वं नान्यस्मिन् जलादौ, अवयवशो यत्र जलादौ ब्रीहिनियतेः सत्त्वं तदपेक्षया तज्जलादिरपि सभावक उच्यते भावो विद्यते यस्मिन्निति भेदविषयबहुव्रीह्याश्रयणादिति भावः । मतुबलोपा ति, भाव एवोदकमित्यत्र भावशब्दस्य गुणवाचित्वेन 'गुणवचनेभ्यो मतुबो लुबिष्ट' इति लोपो बोध्यः, मतुप्प्रत्ययं विधाय तल्लोपविधाने गौरवादाह - अभेदोपचाराच्चेति । भावपदविवक्षणीयमाह स चेति । बहुव्रीहिवन्मतुप्प्रत्ययेन निर्देशोऽपि भेदे सत्येव सम्भवतीत्याह - मतुबिति । भूमिवाय्वादेः सभावकत्वाभावकत्वे दर्शयति-उपरेति । 30 ऊषरादेः सस्याय भावकत्वं पादसौकुमार्यादि सभावकत्वम् । सुकृष्टकेदारादेः सर्वबीजानामङ्कुरादिसभावकत्वमिति भूमेस्ते विज्ञेये । अङ्कुराद्यभावकत्वं पूर्ववायोः महिषीप्रसूत्यादि सभावकत्वं मनुष्यप्रसूत्यभावकत्वञ्च दिवाखापाद्यभावकत्वं प्राग्वातस्याहतद्यथोक्तमिति । अवश्यायस्तु नीहारः । उत्तरवायोः सस्याद्यभावकत्वम् प्रावृट्काल स्योप्तबीजादिसभावकत्वं वैशाखादेस्तदभावकत्वमिति । इत्थमचेतनस्य सभावकत्वाभावकत्वे प्रतिपाद्य चेतनस्य प्रतिपादयितुमाह- बुद्धिमत्स्वपीति । पुरुषस्य व्यग्रत्वाव्यग्रत्वाद्यपि नियतेरेवेत्याह- तत्रापीति । पुरुषप्रेरितानामप्रेरितानां वा चेतनाचेतनानां तत्तद्विषयेषु प्रवृत्तिरपि 35 Jain Education International 2010_04 For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354