Book Title: Dvadasharnaychakram Part 1
Author(s): Mallavadi Kshamashraman, Labdhisuri
Publisher: Chandulal Jamnadas Shah

View full book text
Previous | Next

Page 295
________________ नियत्या सर्वसिद्धिः] न्यायागमानुसारिणीव्याख्यासमेतम् રક (दाहेति) दाहनियत्युदयेऽपि ताः प्रतिनियता एवान्यथा च, दृश्यन्त इति वर्त्तते, कास्ताः ? तथा तथा प्रादुर्भावतिरोभाववृत्तयः; केषां ? यवतिलभस्मादीनां, अन्यादृग्यवतिलभस्मेत्यत्रापि प्रादुर्भावतिरोभाववृत्तयो नियता एव । ताश्च पुरुषकारमप्युल्लंघ्य तमन्तरेण सिद्धाः-पुरुषकारश्चान्तरेण सिद्धाः । किं कारणं ? पाककालस्यापि नियतिदर्शनात् , षष्टिकाः षष्टिरात्रेण पच्यन्त इत्याद्युदाहरणानि गतार्थानि, देशकालकर्तृकरणादिनियत्यैव पाकादिदर्शनात् । एवञ्चेत्युन्नयति--अनेनोक्तविधिना । व्यवस्थित एवार्थ-अव्यक्तस्यैवार्थस्य तत्र व्यक्तेः, सर्वं नियतमेव तत्तथा, तस्याश्च व्यक्तेर्व्यतिरिक्तमतिः पुरुषस्य,-सर्वकालं व्यवस्थितनियतादर्थादन्यो मृगव्याटो मया कृत इति मिथ्याभिमान एव, षष्टिकादयो वा केदारादिसंस्कारविधिना पाचिता इति, यस्मान्न तु नियतौ किञ्चिन्नास्ति, सर्वं विद्यमानमेव तिरोभूतं क्रिययाऽभिव्यज्यते कालादिनियत्यनुगृहीतम् । ___ अत्राह__कथमस्ति सर्व नियतौ ? यथा भूम्यम्ब्वादेविना न भवति केवलाया एव वीजनियतेराम्रफलपाकादि, कालातपवातादिभ्यो हि पाकः, तथाऽकालेऽपि भूमिखननादिभ्यः काले वापि न भवति पाको द्रव्यान्तरसंयोगादिना स्तम्भितायां शाखायाम् , द्रावणाद्वा। अन्यच्च तथातथा तस्य ज्ञातुरिच्छानुविधानेन वस्तुनियतिवैपरीत्यमिति नियमाभावात् कृतकत्वाच्चानित्यत्वं ताभ्याञ्च नियत्यभाव इति। 16 कथमस्तीत्यादि यावन्नियत्यभाव इति, यदुक्तं त्वया नियतौ सर्वमस्तीति तत्कथमस्ति ? यथा भूम्यम्ब्वादेविना न भवति केवलाया एव बीजनियतेराम्रफलपाकादि, रूपरसगन्धस्पर्शसंख्यासंस्थानान्यादिग्रहणात् । भूमिरम्बु वायुरातपः काल इत्येतानि भूम्यम्ब्वादीनि, तद्व्याचष्टे-कालातपवातादिभ्यः पाकस्तस्माद्भूभ्यम्बुकालवातातपाद्यपेक्षत्वान्न बीजनियतावस्त्यङ्करादि । तत्फलपाकादिवत्तथाऽकालेऽपि कालनियतेर्व्यभिचारो दृश्यते भूमिखननादिभ्यः फलादीनामप्राप्तेऽपि काले पाकदर्शनात् , आदि- 20 ग्रहणात् कोद्रवपलालवेष्टनवणकरणादिभिः। काले वापीति, प्राप्तेऽपि पाककाले न भवति पाको द्रव्या दाहोऽपि नियत्यैव भवति, तथा च बीजानां दाहे पूर्वमिवाविर्भावतिरोभाववृत्तीनामभावेऽप्यन्यादृक्षा एव ता नियतिबलेनैव तथाप्रतिनियता इति नाविर्भावतिरोभावव्यभिचारो न वा तत्र पुरुषकार एव कारणम् , तमन्तरेणापि नियतिबलेनैव तत्र तासां सिद्धेरिति भावः । कथं पुरुषकारमन्तरेण व्रीह्यादिफलाविर्भावः पुरुषप्रयत्नात्तद्दर्शनादित्याशक्य समाधत्ते-किं कारणमिति, पाककालनियतेरप्यावश्यकत्वात्, न हि तामन्तरेण पुरुषकारमात्रात् कार्यसिद्धिदृश्यते इति भावः । उदाहरति-25 षष्टिका इति, षष्टिदिनसाध्या व्रीहि विशेषा इत्यर्थः, उदाहरणान्तराण्यपि मूलकृता दर्शितानीति सम्भाव्यते, तान्यत्रानुपलम्भानोद्धृतानि । एवं च कार्यसिद्धौ देशकालकर्तृकरणादिनियत्यवश्यंभावितया मृदादितो घटादिद्रव्यं मया कृतमिदमिति केदारादिसंस्कारेण मया षष्टिकादयः पाचित इति वा पुरुषस्याभिमानो मिथ्याभूत एवेति निगमयति-अनेनोक्तविधिनेति। अव्यक्तस्यैवेति, विद्यमानस्यैवानभिव्यक्तस्यार्थस्य तत्तन्नियत्याऽभिव्यक्तेरित्यर्थः । न विति, न हि नियतिः किञ्चित् प्रत्यसमर्था, येनान्यापेक्षा पुरुषादेरिव तस्याः स्यादिति भावः । अथ नियतेः सर्वसमर्थतायां व्यभिचारमुद्भावयति-कथमिति, 30 नियतिसद्भावेऽपि बीजादितो भूम्यादिव्यतिरेके आम्रादेः पाकाद्यसंभवात् भूम्यादेरप्यपेक्षा तस्या अस्ति, पाको हि कालातपवातादिभ्यो भवत्यतो न नियतिः सर्वसमर्थेति भावः । ननु कालनियत्यनुगृहीता सा करोतीत्याशंक्याह-तथाऽकालेऽपीति. वृक्षादित आम्रफलाद्युपचित्य खनित्वा भूमिं तत्र निक्षिप्य घासादिनाऽऽच्छाद्याकालेऽपि पाकादेनिवर्तनात् कालनियतेरपि व्यतिरेकव्यभिचारः। अन्वयव्यभिचारोऽप्यस्तीत्याह-काले वापीति, प्राप्तेऽपि पाककाले पाको न दृश्यते, वृक्षायुर्वेद ___Jain Education International 2010_04 For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354