Book Title: Dvadasharnaychakram Part 1
Author(s): Mallavadi Kshamashraman, Labdhisuri
Publisher: Chandulal Jamnadas Shah

View full book text
Previous | Next

Page 303
________________ नियतिवैयर्थ्यम् ] न्यायागमानुसारिणीव्याख्यासमेतम् २५३ पूर्वमिदं पश्चादिदमिदानी मिदं युगपदिति न युज्यते-पूर्वादयः कालत्रयवाचिनः, युगपदित्यभिन्नकालवाची शब्दः, तत्तु कालमन्तरेण लोकप्रसिद्धं व्यवहारजातं न युज्यते । कारणान्तरमप्याह-सर्वेषां तेषां बीजादौ नियतेः सन्निहितत्वात् ,-बीजे मूलाङ्कुरपत्रनालादीनां नियतेः सन्निहितत्वात् , शुक्रशोणितावस्थायामेव कललार्दुदगर्भार्भकादीनां नियतेः सन्निहितत्वात् पूर्वादिक्रमवृत्तिता युगपद्वृत्तिता वेति न युज्यते । नियतेरेवेति चेन्न, आनर्थक्यात्, इह तु नियत्यानर्थक्यमेव, पूर्वादिभिरेव कृतप्रयोजनत्वात् किं नियत्या? यत्पूर्व तद्बीजादि यत्पश्चात्तदङ्करादीत्येवमादिविकल्पव्यवहारेषु काल एव भवतीति भावितम्। (नियतेरिति) स्यान्मतमेतदपि नियतेरेव युगपद्वर्त्तनं पूर्वादिक्रमवर्तनश्चेत्यादि, एवकारात् कालादिनिराकरणमित्येतच्चायुक्त आनर्थक्यात्-नियतेः पूर्वादीनां वा नैरर्थक्यात् । यदि नियतिरेव 10 कारण पूर्व पश्चादिदानी युगपदिति कालवाचिशब्दोपादानं तदर्थाश्रयणश्चानर्थकम् , तदभावे सति नियत्यैव कृतप्रयोजनत्वात् । तदुपादाने वा नियत्यानर्थक्यम् । इह तु नियत्यानर्थक्यमेवेति मन्यस्व कालप्रत्येकार्थव्यापारार्थानां पूर्वादीनामवश्याभ्युपगम्यत्वात्तैरेव कृतप्रयोजनत्वात् किं नियत्या प्रयो. जनम् ? इह पूर्वादिभिरित्याद्यक्षरै वितार्थत्वात् , यदर्थं नियतिरुपादीयेत एतन्नास्तीत्यभिप्रायः, तत्तु पूर्वादिभिः कृतमेव, यत्पूर्व तद्बीजादि यत्पश्चात्तदकुरादीत्येतयोः पूर्वापरशब्दयोः क्रमात्मककालवाचि-16 त्वादिति तन्निदर्शयति-एवमादिविकल्पव्यवहारेषु काल एव भवतीति भावितम् । किश्चान्यत् सर्वसङ्ग्रहेणैव वा पूर्वापरयोः कारणकार्यत्वात् कालत्वाच्च नियतेरेवासिद्धेर्व्यवहारासिद्धिरन्यथा, पूर्वादिषु तु समाश्रितेषु नियत्या किं क्रियते । (सर्वेति) सर्वसनन्हेणैव वा यत्कारणं तत्पूर्वं यत्कार्य तत्पश्चादिति क्रमवर्तिनां भावानां 20 कारणकार्यत्वेन सङ्ग्रहात् पूर्वापरयोः कारणकार्यत्वात् कालत्वाञ्च काल एव भवतीति, एतस्म क्रमव्यवहारस्य सिद्ध्यर्थ त्वयाऽनुक्रमाथं पुरुषं स्वभावमन्यद्वा कारणं तत्कार्यश्वाश्रित्याप्यवश्य पूर्वादय भावादित्याह-सर्वेषामिति । पूर्वादिक्रमवृत्तिता युगपदृत्तिता च तथाविधनियतेरेव भवतीत्याशङ्कते-नियतेरेवेति, तथासति कालनियत्यन्यतरवैयर्थ्यमित्युत्तरयति-आनर्थक्यादिति एवकारव्यावर्त्यमाह-एवकारादिति । अन्यतरानर्थक्यमेव स्पष्टयति-यदिति । तदभावे सति-कालवाचिशब्दाभावे सतीत्यर्थः । तदुपादाने वा कालवाचिपूर्वादिशब्दोपादाने वेत्यर्थः। 25 तर्हि कालवैयर्थ्यमस्मदिष्टमेव सिद्धमित्यत्राह-इह विति, प्रकृते विचारे त्वित्यर्थः । हेतुमाह-कालेति, क्रमसहभावे. नाभिव्यक्तिनियामकतया नियतिखीकारो व्यर्थः सकलजनप्रसिद्धाबाधितपूर्वापरादिव्यवहारनियामकतया कालस्यावश्यकत्वेन तेनैव तथाविधाभिव्यक्तिसम्भवेन नियतेस्तन्नियामकतया स्वीकारो व्यर्थ एवान्यथासिद्धत्वादिति भावः । विकल्पः-इदं पूर्वमिदं पश्चादित्याद्यनुभवः तत्पूर्वकः शब्दप्रयोगलक्षणव्यवहारश्चासाधारणकालकृत इति भावः। सर्वसङ्ग्रहेणैव वेति, क्रमवर्तिनां हि भावानां कार्यकारणत्वेन सङ्ग्रहो भवता कृतः, तत्र यत्कारणं तत्पूर्व भवति कार्य च पश्चाद्भवति, ते च पूर्वत्वापरत्वे 30 कालव्यतिरेकेण न सम्भवतः, अभ्युपगतश्च कार्यकारणयोः क्रमः, नच स तावन्नियत्या सम्भवति, कालव्यतिरेकेण तस्या , अप्यनियतत्वात् , एवञ्च पूर्वत्वापरत्वे कालविशेषे एव, तदभ्युपगमे च किं नियत्या, पूर्वादिव्यवहारस्य कालेनैव सिद्धेरिति भावः । अनुक्रमार्थ-क्रमव्यवहारनिर्वाहाय, पूर्वादिकालाभ्युपगममन्तरेण नियतिरेव न सिद्ध्यति पूर्वादिव्यवहारनिय Jain Education International 2010_04 For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354