Book Title: Dvadasharnaychakram Part 1
Author(s): Mallavadi Kshamashraman, Labdhisuri
Publisher: Chandulal Jamnadas Shah

View full book text
Previous | Next

Page 249
________________ सदसत्त्वापादनम् ] न्यायागमानुसारिणीव्याख्यासमेतम् १९९ अथ सामान्यविशेषोपादानबुद्धिसिद्धत्वसद्भावौ कार्यखपुष्पयोरिष्येते त्वया विशेषौ खपुष्पवदभवदपि अन्यथा भवदपि तदसदेवेति, निवृत्तमपि त_सत् , सामान्यविशेषवत्त्वात् कारणकालकार्यवत् , कार्यवच्चाभवदपि खपुष्पमसन्न स्यात्, निःसामान्यनिर्विशेषत्वात् , सामान्यविशेषवत् । (अथेति) अथ सामान्य विशेषोपादानबुद्धिसिद्धत्वसद्भावी कार्यखपुष्पयोरिष्येते त्वया । विशेषौ, खपुष्पवदभवदपि-तदसदेव खपुष्पवदिति येन प्रकारेण खपुष्पं न भवति नोत्पद्यते तेन प्रकारेणाभवदपि, अन्यथा भवदपि-उत्पद्यमानं कदाचिद् दृश्यमानमपीत्यर्थः, उपादानबुद्धिसिद्धत्वसामान्यविशेषवत्त्वप्रकारेण भवदपि तत्-कार्यमसदेवेष्यते ततश्चैवं सत्ययमपरो दोषः-निवृत्तमपि तीसत्, कार्यमिति वर्तते, सोपादानबुद्धिसिद्धत्वसद्भावेऽपि, कस्मात् ? सामान्यविशेषवत्त्वात् कारणकालकार्यवत् , यथा कारणकाले कार्यमसत् त्वन्मतेन सामान्यविशेषवदपि सोपादानं बुद्धिसिद्धमपि तथो- 10 त्तरकाले निर्वृत्तमपि तदसदेव स्यात् , कारणकालकार्यवदिति । कार्यवच्चाभवदपि खपुष्पमसन्न स्यात्-कार्यप्रादुर्भावप्रकारेणाभवदपि तस्मिन्नभवनप्रकारविशेषे सत्यपि सत् प्राप्नोति खपुष्पं निःसामान्यनिर्विशेषत्वात् , तद्धि खपुष्पं निःसामान्यं निर्विशेषश्चेति सिद्धम् , अतस्तस्य निःसामान्यनिर्विशेषत्वात् सत्त्वं स्यात् , को दृष्टान्तः ? सामान्यविशेषवत् , कार्यवदिति सिद्धे वैशेषिकमतालम्बनसामान्यविशेषदृष्टान्तो निःसामान्यनिर्विशेषाणां सामान्यविशेषाणां वस्तुत्वं खपुष्पतुल्यमेवेति काका 15 दर्शितं भवति । प्रकृतार्थोपनयस्तु यथा सामान्यविशेषो घटत्वादिनिःसामान्यो निर्विशेषश्च संश्चेति सिद्धः तथा खपुष्पमपि सत् स्यात् । किश्चान्यत् कार्यासत्त्ववैलक्षण्याद्वा कारणवदसन्न स्यात् , कारणं वा खपुष्पवत् कार्यासत्त्ववैलक्षण्यादसत् स्यात् । (कार्यासत्त्वेति) कार्यासत्त्ववैलक्षण्याद्वा कारणवदसन्न स्यात् , खपुष्पमिति वर्त्तते, कार्यस्य घटादेर सत्त्वेन खपुष्पस्याप्रादुर्भावानुपादानाबुद्धिसिद्धत्वनिःसामान्यविशेषवैलक्षण्यात् खपुरूपमपि सत् स्यात् कारणवत्, एतैश्च प्रकारैः सिद्धमेव कार्यासत्त्ववैलक्षण्यमिति सिद्धो हेतुः निर्वृत्त 30 ननु कार्यखपुष्पयोः सामान्यविशेषादिधर्मवत्त्वेऽपि खपुष्पवत् पूर्वमभवदपि कदाचिदायत्यां भवदप्यसदेवेत्याशङ्कते-अथेति । एवं तर्युत्पत्त्यनन्तरमप्यसद्भवेत् कार्यम् , सामान्यविशेषवत्त्वादिभ्यः, कारणकाले कार्यवदिति समाधत्ते-निवृत्तमपीति । 25 यदि प्रत्यक्षबाधितत्वमनुमानस्येत्युच्यते तर्हि दोषान्तरमाह-कार्यवञ्चेति । यथा कार्यमायत्या प्रादुर्भवति न तथा खपुष्पमित्येवं विशिष्टमपि खपुष्पं सत् प्राप्नुयादिति भावः। तत्र हेतुमाह-निःसामान्येति । कार्यवदिति दृष्टान्तं परित्यज्य सामान्य विशेषवदिति दृष्टान्तविशेषोपादाने निदानमाह-कार्यवदितीति, वैशेषिकमते हि जातिलक्षणसामान्यस्यान्त्यलक्षण. विशेषस्य च न सामान्यविशेषवत्त्वं स्वीक्रियतेऽनवस्थाप्रसङ्गात् , अतस्तत्र निःसामान्य मिविशेषत्वमस्ति सत्त्वमपि तरिष्यत इति दृष्टान्तता, किन्तु तावप्यसन्तौ खपुष्पवदिति विशेषोऽपि काका दर्शित इति भावः । अनुवृत्तिव्यावृत्तिलक्षणो तु सामान्य विशेषी 30 तैरपि सामान्ये विशेषे चाङ्गीक्रियेते, तल्लक्षणयोरनुवृत्तिव्यावृत्तिरूपत्वादिति बोध्यम् । दृष्टान्ते हेतुं साध्यं च प्रदर्शयति-प्रकतार्थेति । अथ खपुष्पमसन्न स्यात् कार्यासत्त्ववेलक्षण्यात् कारणवत् , कार्यासत्ववलक्षण्यश्चाप्रादुर्भावानुपादानाबुद्धिसिद्धत्वनिःसामान्यविशेषत्वधमैरित्याशयेनाह-कार्यासस्वेति । खपुष्पे तथाविधवैलक्षण्यसद्भावेऽप्यसत्त्वमेव. यदीष्यते तर्हि Jain Education International 2010_04 For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354