Book Title: Dvadasharnaychakram Part 1
Author(s): Mallavadi Kshamashraman, Labdhisuri
Publisher: Chandulal Jamnadas Shah

View full book text
Previous | Next

Page 260
________________ २१० - द्वादशारनयचक्रम् [विधिविध्यरे व्यतिरिक्ता ? सर्वस्य ज्ञशेषत्वात् , दृष्टान्तः चक्रभ्रान्तिः, यथा कुलालप्रयत्नभ्रमितस्य चक्रस्य भ्रान्तौ कुलालप्रवृत्तिशेषत्वं ज्ञशेषत्वमेवं दध्यादेरपि ज्ञशेषत्वं गोर्जस्य शेषत्वं दध्नः, गोभुक्ततृणाद्याहारस्य रसरुधिरादिपरिणतस्य ज्ञमन्तरेण क्षीरदध्यादिभावो नास्ति । ननु चक्रभ्रान्तावपि को भवितेति प्रत्यपेक्षायां घटभवनव्यवहारे मृद्वदिहापि मूलभवितृ द्रव्यमपेक्ष्यम् , परतः परतोऽपि येन भूयते यद्भवति तदेव मौलम् , तस्माद्धटभवनमृद्धत् कुलालशेषभ्रान्तिवच्च ज्ञशेषं सर्वम् , इतरथाऽसौ नैव स्याद्भवितुरभावाद्वन्ध्यापुत्रवत् । (नन्विति) नन्वित्यनुज्ञापने, प्रत्यपेक्षायां-जिज्ञासायां मूलभवित्रवश्यापेक्ष्ये घटभवनव्यवहारे मृद्वत् , यथा पिण्डशिवकाद्यवस्थाक्रमेण धटभवनव्यवहारे मृदेवाद्या भवित्री तथेहापि-चक्रभ्रान्तौ भवनव्यवहारत्वान्मूलभवित द्रव्यमपेक्ष्यम् , परतःपरतोऽपि येन भूयते यद्भवति तदेव मौलं-कारणं 10 तदेवेत्यर्थस्तस्माद्बटभवनमृद्वद् भ्रान्तिभवने कुलालाद्यपेक्ष्य कुलालशेषभ्रान्तिवञ्च ज्ञशेषं सर्वम् , इतरथाऽसौ नैव स्याद्भवितुरभावाद्वन्ध्यापुत्रवदमूलत्वादित्यर्थः । स्यान्मतम् अचेतनानामप्यभ्रादीनां चेष्टादर्शनाज्ज्ञप्रयोगमन्तरेण प्रवृत्तिर्दण्डादीनामित्येतच्चायु। कम्, ज्ञस्यैव सुप्तावस्थत्वात् , न च चक्रदण्डादि सुप्तावस्था करणनिरीहत्वात्स्वत एव 16 भवति, दधीव पयसः । एतेन दध्याद्यपि ज्ञभवनमाख्यातमेव, ज्ञशेषसुप्तावस्थात्वात् । (अचेतनानामपीति ) करणनिरीहत्वादिति न च चक्रदण्डादि स्वत एव भवति करणनिरीहत्वात्-करणत्वान्निरीहत्वं निरीहत्वान्न खत एव-ज्ञातुर्यनमन्तरेण तद्यत्नशेषं वाऽन्तरेण तस्यैव सुप्तावस्था दण्डचक्रनिस्यन्दभूता निश्चेतनीभूता भवितुमर्हति, तस्मात् सापि सुप्तावस्था ज्ञस्य चैतनस्यैव .. वृत्तिर्भवितुमर्हति, दधीव पयसः, यथा दधि पयसोऽवस्था तथा दण्डचक्रादि ज्ञस्यैव कुलालस्य । 20 तस्यापि दध्यादेः कुलालयत्नशेषचक्रदण्डादिवत् ज्ञयत्नं ज्ञयत्नशेषं वाऽन्तरेण प्रवृत्त्यभावात् ज्ञवृत्तिमात्रत्वमेवेत्यर्थः। एतस्यार्थस्य भावनार्थं दृष्टान्तमाहयथैव हि रूपरसगन्धस्पर्शशब्दा अमूर्त्तत्वेन सूक्ष्मां वृत्तिमत्यजन्त एव स्वप्रवृत्तिप्र का वा सेति । यथा भ्रमेः परम्परया ज्ञ एव कारणं यथा वा घटादिभवनस्य परम्परया कारणं मृदेव भवित्री तथा सर्वस्य 25 जगतो मूलकारणं ज्ञ एव, तत्रैव येन भूयते यद्भवतीत्यस्य सङ्गतेरित्याह-नन्वित्यादिना । अथ चेतनानधिष्ठितस्याप्यचेतनस्थाभ्रादेश्चेष्टादर्शनात् ज्ञप्रवृत्तिमन्तरेणैव दण्डादीनां भ्रम्यादी प्रवृत्तिरित्याशङ्कते-अचेतनानामपीति । समाधत्ते-ज्ञस्यै वेति अचेतनभूतानि पुरुषस्य स्वप्नावस्थारूपाणि, तत्र जाग्रदवस्थावत् प्रवृत्त्यभावेऽपि स्तोकं प्रवृत्तिरस्त्येवेति सा ज्ञप्रवृत्तिरेव स्य दण्डादेः प्रवृत्तिः स्वतो भवितमर्हति दण्डादीनां करणत्वेन प्रवृत्तिविरहात. प्रवृत्तः कर्तधर्मत्वादिति भावः । अचेतनानां पुरुषस्यावस्थाखरूपत्वे दृष्टान्तमाह-दधीव पयस इति. तस्यैव सुप्तावस्थति, दण्डादयोऽचेतना ज्ञस्य 30 सुप्तावस्था उच्यन्ते न तु दण्डादयो ज्ञप्रयत्नं ज्ञप्रयत्नशेष वाऽन्तरेण निश्चेतनीभूता भवितुमर्हन्ति, तस्मात् सा सुप्तावस्था चैतनस्यैव वृत्तिरिति भावः प्रतिभाति । भवितुमर्हतीति, न चेति पूर्वं पदमत्र सम्बङ्ख्यते, शशेषत्वमेव सर्वमिति भावनायाह-यथैव हीति, रूपादयोऽमूर्ताः सूक्ष्मा एव मूर्ताः स्थूला भवन्तीत्यभिप्रायः, नहि तेषां मूर्तत्वं Jain Education International 2010_04 For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354