Book Title: Dvadasharnaychakram Part 1
Author(s): Mallavadi Kshamashraman, Labdhisuri
Publisher: Chandulal Jamnadas Shah

View full book text
Previous | Next

Page 288
________________ २३८. द्वादशारनयचक्रम् [विधिविध्यरे नानावस्था येषां ते तदतदासन्नानासन्ननानावस्थद्रव्यदेशादयः, तैः प्रतिबद्धाया एव नियतेर्भेदात्, द्रव्यदेशादित्वेनेत्यादिग्रहणात कालभावाभ्याञ्च । सैव नियतिव्यतो घटरूपेण सा भवति, पटरूपेणासा, घटान्तरस्यासन्नाऽऽकारप्रत्यासत्या, पटाकारेणाप्रत्यासन्ना । क्षेत्रतो यास्मंश्चक्रमूर्धनि क्रियते तस्मिन्नेव, यत्र वा भूप्रदेशे तिष्ठति ग्रीवादिदेशे वा तत्रैव नान्यत्रेति, कालतो यावत्कालेन निर्वर्त्तते 5 यावन्तं कालं वा तिष्ठति सा कालनियतिः, भावतो यैर्वर्णैः कृष्णादिभिर्यथा भवति तथैवेति नियतिरेवं द्रव्यदेशादिप्रतिबद्धभेदाद्वस्तुविरचना नियत्येकत्वेऽपि, किमिव ? मेघगर्भवत् , यथा मेघा गर्भ गृहन्तो याहक् यावञ्च जलं गृह्णन्ति यथा च तादृक् तावत्तथैव विसृजन्ति द्रव्यतः, क्षेत्रतो यत्र गृहन्ति देशे तत्रैव विसृजन्ति, कालतो मार्गशिरो मासे गृहीतं वैशाखे विसृजन्तीत्यादि, भावतो यथा गृहीतं क्षार मधुरादि तथैव विसृजन्ति सत्त्वौषधिवनस्पतिशोषपोषकरादीति । तदुपसंहरति-'नाभाविभावो न च 10 भाविभावः' इति, प्राक्तनेन वृत्तेन गतार्थम् । . स्यान्मतमयं नियमः कालात् कालस्य क्रमाख्यत्वाच्च पूर्वोत्तरादिकालक्रमनियतपरिणामत्वा. दावानामिति एतन्न_ न कालादयं विचित्रो नियमः, वर्षारावादिष्वपि क्वचिदनियतप्रवृत्तेः, दृश्यते यदुरकिसलयपत्रपुष्पफलगर्भप्रसवादिव्यभिचारो वनस्पतिसत्त्वादिनां स्वतः प्रयोगतश्च । नच 18 स्वभावात् , बालादिकाल एव युवतादियुगपदभावे भेदक्रमनियतावस्थोत्पत्तिस्थितिच्युतिदर्शनात् , तत्तथा नियतिवस्तु, तदनभ्युपगमे सर्वाविवेके अवस्थास्वभावाद्यभावादभ्युपगमविरोधस्ते जायते, तद्धि नियमो न नियतेरन्यतोऽवतिष्ठते । (नेति) न कालादयं विचित्रो नियमः, कस्मात् ? वर्षारावादिष्वपि कचिदनियतप्रवृत्तेः, दृश्यते ह्यङ्करकिसलयपत्रपुष्पफलगर्भप्रसवादिव्यभिचारो वनस्पत्यादीनां सत्त्वानाश्च स्वतःप्रयोगतश्च20 वर्षाशरद्धेमन्तशिशिरवसन्तनिदाघेषु स्वपरिणामकालेष्वप्रवृत्तिदर्शनादस्वकालेषु च कचित् प्रवृत्तिदर्श नात् । यद्यपि मन्येत स्वभावादिति तन्न च स्वभावादित्यादि यावदभ्युपगमविरोधः, वनस्पतिसत्त्वादे. बाल्यकौमारयौवनस्थविरावस्थाः, सर्वोऽसावस्य खो भावः स्वभाव इति, अतो बालादिकाल एव अतस्तत्प्रतिबद्धाया अपि नियते नारूपत्वमिति भावः । द्रव्यदेशकालभावैर्नियतेः प्रतिबन्धं घटमागृह्य निदर्शयति-सैव नियतिरिति, यथा घटः खव्यक्षेत्रकालभावैः सन् , परद्रव्यक्षेत्रकालभावैरसन् , तथा तत्प्रतिबद्धा नियतिरपि, एवं 25 खद्रव्यादिभिर्घटो यथाऽऽसन्नः परद्रव्यादिभिरनासन्नस्तथा तत्प्रतिबद्धनियतिरपीति भावः । मेघगर्भलक्षणदृष्टान्तं सङ्गमयति यथा मेघा इति।प्रागुपवर्णितश्लोकसमानार्थकारिका दर्शयति-नाभावीति ननु भावानां ये विशिष्टपरिणामनियमाः पृथक पृथक् प्रविभक्तास्ते विशिष्टकालसम्बन्धवशेन भवन्ति, कालेन हि कारणशकयोऽनुज्ञाताः सत्यो जनयन्ति कार्यमभिव्यञ्जयन्ति वा तथा जातानामभिव्यक्तानां वा नियतकालमवस्थानं, कालकृतशक्तिप्रयोगाणां विनाशकानां सामर्थ्याद्भावानां विनाशोऽपीति सर्वे भावनियमाः कालकृता एवेत्याशङ्कते-स्यान्मतमिति । कालकतत्वाभ्यपगमे व्यभिचारप्रदर्शनेनापाकरोति-न काला१० दयमिति । खभावनिमित्तकत्वमाशय निराकरोति-न चेति । तत्तथेति, तत्-तस्मात्कारणात् , तथा दृष्टानां सृष्टिस्थितिप्रलयावस्थानां बाल्यकौमारादीनां वा भेदक्रमनियमेन नियतिरेव तत्र नियामिका, न खभाव इति भावः। तदनभ्युपगमे-नियतिनियतत्वानभ्युपगमे, सर्वाविवेके-सर्वासामवस्थानां साङ्कये. खभावस्य नियामकत्वे हि वस्तुत्पत्ती तत्खभाकानां सर्वेषामपि सद्भावेन सर्वा अवस्थास्तत्वभावभूता युगपजायेरन् , न च जायन्त इति खाभाव एव न स्यादिति मूल एव कुठाराघातः प्रसज्यत इति भावः । वो भाव इति, स्वकीयो भाव इत्यर्थः, तथा च स्वस्य सद्भावे खभावस्यापि Jain Education International 2010_04 For Private & Personal Use Only www.jainelibrary.org


Page Navigation
1 ... 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354