Book Title: Dvadasharnaychakram Part 1
Author(s): Mallavadi Kshamashraman, Labdhisuri
Publisher: Chandulal Jamnadas Shah

View full book text
Previous | Next

Page 292
________________ ૨૨ द्वादशारनयचक्रम् [विधिविध्यरे मूर्खादित्वक्रमापाद्यघटत्वेन । पूर्वस्मिन्नुदाहरणे मनागाकृत्यन्तरभेदेन, इह त्वत्यन्तभिन्नाकारभेदेनेति विशेषः, तद्दर्शयन्नाह-ऊर्द्धादित्वं घटत्वञ्च भेदेनैव वा सत्साध्यमिति । अथवा भेदेनैव सत्साध्यमिदश्चान्यदिति वर्तते, यगुद्ध्यैव साध्यते न क्रियया परिस्पन्दात्मिकया, किन्तु विद्यमानं पुरुषादि अवस्थापरिग्रहापनयनेन-तद्विषयसंशयविपर्ययपरिग्रहापनयनेन । नात्र किञ्चिन्निवर्त्तते पुरुषादि, किन्तु। विद्यमानमेवानुपलब्धमुपलब्ध्या साध्यते, एषा नियतिनिरूपेति पूर्वविलक्षणा । एतासां क्रियाणां तत्साध्यानाञ्च नियतिकृतत्वप्रतिपादनार्थमाह एतच्च साध्यमानमप्यन्यविषयक्रियाविलक्षणयानयैव क्रियया साध्यते, एतस्याश्चैतान्येव कारकाणीति साध्यसाधनार्थनियतिः । एवञ्चार्थगतप्रतिविशिष्टसाध्यसाधननियमाभिव्य जयनियतिस्थितेरेव कारणगुणपूर्वकतां कार्यस्य प्रतिपद्य कारकान्तरसमवस्थितितुल्यतायामपि 10 क्रियासमवस्थित्या सह नियतिप्रसिद्धरेव पुरुषस्तथा प्रतिपद्य प्रत्यर्थ कारकाणि प्रयुङ्क्ते, तानि च यथाप्रयोगनियमं स्वे स्वे विषये नियतानि नैकविमर्दप्रवृत्तानि परस्परनियतानुग्रहोद्भावनवृत्तानि स्वविषयक्रियाप्रसाध्यमर्थमभिनिर्वतयन्ति, तेषां वृत्तिस्तानि तत्फलश्च सर्व नियतमेव, ततो नियतिरेव सर्वस्य कारणम् , न तु तदुपायसिद्धेरन्यथा तत्सिद्धिरस्ति । एतच साध्यमानमित्यादि, ओदनविषयेयं पचिक्रिया घटादिविषयक्रियाविलक्षणा, 1 एतच्चौदनादि साध्यमानमप्यन्यविषयगमनादिक्रियाविलक्षणयाऽनयैव पचिक्रियया साध्यते नान्ययेति क्रियानियत्या साध्यते, एतस्याश्च पचिक्रियाया एतान्येव काष्ठादीनि कारकाणि, न मृत्पिण्डदण्डादीनीति साध्यसाधनार्थनियतिः। एवमित्यादि, एवञ्च कृत्वा यथा अर्थगतप्रतिविशिष्टसाध्यसाधननियमाभिव्यङ्ग्याया नियतेः स्थिति:-व्यवस्था, तस्याः-स्थितेहेतोः कारणगुणपूर्वकतामनुमानप्रसिद्धां कार्यस्य प्रतिपद्य-बुद्धा कारकान्तरसमवस्थितितुल्यतायामपि-दण्डादिकारकान्तराणां साध्यनिर्वत्त20 नसमवस्थितेस्तुल्यतायामपि सत्यां पचिक्रियासमवस्थित्या सह नियतिप्रसिद्धरेव बलात् पुरुषस्तथा प्रतिपद्य प्रत्यर्थं कारकाणि प्रयुङ्क्ते, यथा स्वसाध्यार्थोऽयमित्यर्थः । तानि च कारकाणि नियतानि सस्या एव नियतायाः क्रियाया यथाप्रयोगनियम-पौर्वः प्रयोगनियम इति, स्खे खे विषये-देशकाल साध्यते, मृत्पिण्ड एवोटद्याकारादिक्रमेण घटीभवति, उदाहरणद्वयप्रदर्शने हेतुमाह-पूर्वस्मिन्निति । ऋजुत्वादयो न रज्वादितोऽत्यन्तभिन्नाः स्थासकोशकुशलघटादयस्तु मृदोऽत्यन्तं भिन्नाकारा इति मेदः । प्रकारान्तरेणामुं भङ्गमादर्शयति वं विद्यमान एव पुरुषादिः चेतसो विषयान्तरव्यासङ्गेन ज्ञानाविषयः सन् सम्प्रति ज्ञानविषयता नीत इति सत् साध्यमुच्यते न तु क्रियया पुरुषोऽवस्थासु तदीयासु काश्चित् परिगृह्य काश्चिञ्च विनिवृत्त्य साध्यते, अत एषा नियतिनिरूपस्वात् पूर्वतो विलक्षणेति भावः । अथोदिताना कार्यकारणानां नियतिप्रयोज्यत्वं समर्थयति-एतच्चेति, ओदनादि पचिक्रिययेव साध्यम्, नान्यया, सा च पचिक्रिया घटादिसाधनक्रियाविलक्षणा, पचिक्रियायाश्चोपकारकाणि कारकाणि काष्ठादीन्येव म मृत्पिण्डदण्डादीनीत्येवं यः साध्यसाधनभावनियमः स नियतिनियम्य एव, अत एव पुरुषः कारणपूर्वकत्वं कार्यस्यानुमान30 तोऽवबुध्य दण्डादेः साध्यसाधनसमर्थस्य सद्भावेऽपि ओदनसाधनसमर्था पचिक्रियां तथाविधनियत्या विज्ञाय प्रयुक्ते इत्याह ओदनविषयेति । कारकाण्यपि नियतिबलेनैव खे खे विषये यथाप्रयोगनियमं परस्परानुग्रहविधायीनि परानुपमर्दनेन प्रवतन्त इत्याह-तानि च कारकाणीति । तथाविधनियतिमन्तरेण नौदनादीनां सिद्धिरित्याह-न विति। सिद्धिखरूपमाह Jain Education International 2010_04 For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354