Book Title: Dvadasharnaychakram Part 1
Author(s): Mallavadi Kshamashraman, Labdhisuri
Publisher: Chandulal Jamnadas Shah
View full book text
________________
द्वादशारनयचक्रम्
| विधिविध्यर
न च मूर्त्तामूर्त्तेत्यादि यावद्यत्नप्रतिपाद्यमस्तीति, तत्रोपपत्तिः उभयथा तथातथाप्रविभक्तेत्यादि यावन्नियते, तेन तेन प्रकारेण - तथातथा मूर्त्तत्वेनामूर्त्तत्वेन चेतनत्वेनाचेतनत्वेन सौक्ष्म्येण स्थौल्येन च ऐश्वर्येण दारिद्र्येण चेत्यादिना प्रविभक्तानामर्थानां सर्वं वस्तु ज्ञेयं सदर्थ इत्यादिना चाप्रविभक्तानां सर्वेषामर्थानां यथातथाभावो याथातथ्यं तेन याथातथ्येन तस्य तस्यार्थस्य सर्वस्य नियतस्य 5 नियमेन तिष्ठतः प्रयोजकत्वं हेतुकर्तृकं स्थापनं तचैकरूपमेव सर्वत्र तस्या नियतेः तस्माद्धेतोस्तथातथाप्रविभक्ताप्रविभक्तसर्वार्थयाथातथ्यस्थापनैकरूपत्वात् नियतेर्तेदानीं नियमनमात्रै कव्यापाराया नियतेहैतुत्वप्रतिपादनाय यत्नः कश्चिदास्थेयः ।
प्रयत्नसाध्येष्वर्थेषु कृतकेष्वपि च तद्विषयक्रियाफलस्य तथानियतेर्व्यापिता नियतिका -
२३६
10
रणत्वस्य ।
( प्रयत्नेति ) स्यान्मतं नियतिनिबद्धत्वात् सर्वभावानां क्रियाक्रियाफलयोर नियम इति, तन्न भवति, तद्विषयस्य - घटादिविषयस्य मृत्पिण्डदण्डचक्रादिसाधनस्य प्रयत्नसाध्यस्य घटात्मनिर्वृत्तिरूपस्य क्रियाफलस्य तेन प्रकारेण नियतेः नियतिरेवात्र कारणमिति ।
इदानीं तस्याः नियतेः स्वरूपं चिन्त्यते -
किन्तावत्तेषामेव भावानां प्रतिस्वं भिन्ना नियतिरुताभेदा सा ? परमार्थतोऽभेदाऽसौ 10 कारणं जगतः, भेदबुद्ध्युत्पत्तावपि परमार्थतोऽभेदात्, बालादिभेदपुरुषत्ववत् ।
( किमिति ) किं तावत्तेषामेव भावानां स्वं स्वं रूपं प्रति प्रतिभावं भिन्ना नियतिरुच्यते ? उताभेदा सेत्यत्र परमार्थतोऽभेदाऽसौ कारणं जगतः, नास्याः भेद इत्यभेदा । कस्मात् ? भेदबुद्ध्युत्पतावपि परमार्थतोऽभेदात् । अथवा कोऽसौ भेदो नाम नियतेरपि क्रियाक्रियासाध्यार्थस्वरूपत्वाद्भावानां नियमस्येति । चेतनाचेतनत्वादिबुद्ध्युत्पत्तौ सत्यां परमार्थतो नियतिरित्येवाभिन्नत्वादभेदा, 20 भेदबुद्धिस्तु तद्विकल्पमात्रभावापेक्षा । किमिव ? बालादिभेदपुरुषत्ववत्, यथा बाल्यकौमारयौवनम - ध्यमावस्थाभेदबुद्ध्युत्पत्तावपि पुरुषत्वमभिन्नमेवं नियतिरपि क्रियाविषयफलभेदबुद्ध्या दिभेदेष्वभिन्नेति ।
न महता प्रयत्नेन प्रतिपाद्यं भवतीति भावः । तत्रोपपत्तिमाह-तत्रोपपत्तिरिति । उभयथेति मूर्त्तत्वामूर्त्तत्वादि तेन तेन प्रकारेणेत्यर्थः । सर्वमिति, सर्वं वस्तु ज्ञेयं सत् अर्थ इत्येवमप्रविभक्तानां पदार्थानामित्यर्थः । तथा तथेति प्रविभक्तानामप्रविभक्तानाश्च सर्वेषां वस्तूनां स्वस्वरूपेण स्थितानां तेन तेन प्रकारेण व्यवस्थापने समर्था एकरूपापि नियतिरिति भावः । 25 सर्वेषामेकनियतिनिबद्धत्वे क्रियाक्रियाफलादिव्यवस्था कथं भवेत्, क्रियापि क्रियाफलं क्रियाफलञ्च क्रिया कुतो न भवेत्, नियतेरविशिष्टत्वादित्याशङ्कते - स्यान्मतमिति । मृत्पिण्डचक्रादय एव क्रियाविषयाः घटादय एव क्रियाफलमिति तेनैव प्रकारेण नियतेः सत्त्वान्नाव्यवस्था तस्यास्तेन तेनैव प्रकारेण व्याप्तत्वादित्युत्तरयति - तद्विषयस्येति । इदानीमिति, नियतिरेवैका कर्त्रीत्यत्रैकपदं केवलार्थं, अपरानपेक्षा नियतिरेव कर्त्रीति भावः, तस्मादत्र तत्खरूपं विविच्यते सा एका प्रतिवस्तु अनेक वेति बोध्यम् । नियतिः परमार्थतोऽभिन्ना भेदबुद्ध्युत्पत्तावपि परमार्थतोऽभेदात्, बालादिभेदपुरुषत्ववत्, 30 बालाद्यवस्थाभेदेऽपि पुरुषत्वस्यैकत्वात्स पुरुषो यथा वस्तुतोऽभिन्नः, तथैव क्रियेयं तद्विषयोऽयं, तत्फलमिदमिति भेदबुद्ध्युत्पतावपि नियतेर्भेदाभावादित्याह - भेदबुद्ध्युत्पत्तावपीति । क्रियाक्रियासाध्यवस्तुस्वरूपाया नियतेः कोऽसौ भेदः, चेतना - चेतनत्वादिभेदबुद्धौ सत्यामनुवृत्तिस्वरूपाया नियतेरभेदात्, भेदबुद्धिरपि विकल्प बुद्धिविषयभेदाश्रितत्वादेवेत्याह-अथ वेति ।
Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org
![](https://s3.us-east-2.wasabisys.com/jainqq-hq/fd662b285a85a43a1834d70080c437a061d84a596cbf1c405e83638852e6a4aa.jpg)
Page Navigation
1 ... 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354