Book Title: Dvadasharnaychakram Part 1
Author(s): Mallavadi Kshamashraman, Labdhisuri
Publisher: Chandulal Jamnadas Shah

View full book text
Previous | Next

Page 285
________________ 10 नियतिसमर्थनम् ] न्यायागमानुसारिणीव्याख्यासमेतम् २३५ व्यापारस्वातंत्र्ये, एवं तेषामपि काष्ठादीनां करणादिस्वव्यापारविषयस्वातंत्र्यनियमः तथाभावः, तेषामेव कारणानां स्वव्यापारविपरीतशक्तिः परस्परतोऽन्यथाभावः, तयोस्तथाभावान्यथाभावयोरभावात् , अभावप्रसङ्गादिति यावत्, दृष्टौ चेमौ तथाभावान्यथाभावौ, तस्मानियतत्वानियमकारिकारणापेक्षनियमावेव भावाभावी, तञ्च कारणं नान्यदतो भवितुमर्हति नियतेरित्यत आह-इति नियतिरेवैका की। इतिशब्दो हेत्वर्थे, अस्माद्धेतोर्नियमकारिकारणाविनाभावाद्भावनियमस्य नियतिरेवैका कीत्यस्तु । निर्दोषा कल्पना। कथं ? यस्मात्.... न हि तस्यां कदाचित्कथञ्चित्तदर्थानुरूपमेकत्वं व्याघाति, ज्ञानात्मैककारणवादे पृथिव्याद्यचेतनं न कारणानुरूपम् । आह च-' प्राप्तव्यो नियतिबले'त्यादि, (सू० श्रु० १ अ० १ उ०२)। (न हीति) अस्ति च व्याघातावस्थासु चतसृष्वपि कल्पितासु, कारणपूर्वत्वाभ्युपगमात् कार्याणाम् , न हि नियतेनियममात्रस्य का भावानां सारूप्यवैरूप्यभेदेऽपि व्याघातोऽस्ति, कदाचिदिति, अवस्थान्तरेऽपि, कथञ्चिदिति प्रकारान्तरेणापि, तस्मात् कारणैकत्वेऽपि वैरूप्यदोषपरिहारसमर्थत्वान्नियतिकारणकल्पना श्रेयसीति, आह चेति, जिनवचनोपजीविनमेतदपि ज्ञापकं पूर्ववत्, प्राप्तव्यो नियतिबलेत्यादि, कृतेऽपि यत्ने कार्यविपत्तिदर्शनादकृतेऽपि नियमात्सम्पत्चिदर्शनात् कार्यस्य कारणानुरू- 15 पगुणस्तहरूप्यविरोधपरिहारसमर्थोऽस्ति । .. किमयमेव गुणोऽन्योऽप्यस्ति वा ? अस्तीत्युच्यते, कतमोऽसौ ? अयत्नप्रतिपाद्यतागुणः, स च । मूर्तीमूर्त्ताद्ययुक्तविरुद्धधर्मापत्तिपरिहारेणेति तदर्शयति___ न च मूर्तीमूर्सचेतनाचेतनत्वादिवस्तुनो यनप्रतिपाद्यमस्ति, उभयथा तथा तथा प्रविभक्ताप्रविभक्तसवार्थयाथातथ्यस्थापनैकरूपत्वान्नियतेः। 20 नियमस्तस्य नियामकमन्तरेणासम्भवात्तन्नियमकारी यः सैव नियतिः कत्रीत्युच्यत इति भावः । तस्या एकत्वकल्पनायां दोषा. भावमाह-न हीति । ज्ञानात्मकपुरुषस्यैकस्यैव कर्तृत्वे कथञ्चिच्चेतनसृष्टेानात्मकतया सारूप्येऽपि पृथिव्याद्यचेतनसृष्टरसम्भव एव स्यात्, सारूप्याभावात् कार्यानुरूपं हि कारणं भवति कार्यस्याचेतनत्वे कारणमप्यचेतनं स्यात् , कारणस्य चैतन्ये वा कार्यमपि चैतन्यमेव भवेत्, एतस्य व्याघातोऽस्ति पुरुषवादे । नियतिकर्तृपक्षे तु तस्या नियममात्रकर्तृत्वान्न भावसारूप्यवैरूप्ये अपेक्षिते, अतो नियतेरेकत्वे दोषाभाव एवेति न नानात्वं तस्या इति भावः। व्याघातावस्थाखिति, परस्परविरोधिनीषु 25 जाग्रत्खनसुषुप्तितुरीयाख्यासु चतसृष्ववस्थाखित्यर्थः । अत्र वादे प्रमाणमादर्शयतीत्याह-आह चेतीति । इदमपि ज्ञापकं जिनवचनानुसार्येव, सर्ववादानां तस्यैव मूलभूतत्वादित्याह-जिनवचनेति । प्राप्तव्यो नियतिबलाश्रयेण योऽर्थः सोऽवश्य भवति नृणां शुभोऽशुभो वा । भूतानां महति कृतेऽपि हि प्रयत्ने नाभाव्यं भवति न भाविनोऽस्ति नाशः॥' पूर्णा कारिका, अस्याः संक्षेपेणार्थमाह-कृतेऽपीति, महति प्रयत्ने कृतेऽपि फलानुत्पत्तिदर्शनादित्यर्थः । अकृतेऽपीति प्रयत्नव्यतिरेके. णापि नियतिबलात् कार्यसम्पत्तिदर्शनादित्यर्थः । तथा च नियत्यङ्गीकारे कार्य कारणानुरूपमित्येष गुणः सम्पद्यते कारणवैरूप्या-30 पत्तिलक्षणविरोधोऽपि परिहृतो भवतीत्याह-कार्यस्येति । गुणान्तरमप्यत्र सम्भवतीत्याह-किमयमिति । पुरुषस्यैव कारणत्वे तस्यामूर्त्तत्वेन पृथिव्यादिमूर्तलक्षणं कार्य ततो न भवेत् , मूर्तस्यामूर्तोपादानताविरोधात् , नियतिकारणत्वे सोऽपि विरोधः परिहृतो भवति, तथा च यत्नमन्तरेणैव मूर्त्तत्वस्य प्रतिपाद्यता सम्पन्नेत्सयत्नप्रतिपाद्यत्वं गुणोऽप्यस्तीत्याह-अयनेति। तमेव गुणं प्रदर्शयति-न चेति । वस्तूनां मूर्तत्वममूतत्वं चेतनत्वमचेतनत्वं सूक्ष्मत्वं स्थूलत्वं च पुरुषवादिन इवास्माकं Jain Education International 2010_04 For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354