Book Title: Dvadasharnaychakram Part 1
Author(s): Mallavadi Kshamashraman, Labdhisuri
Publisher: Chandulal Jamnadas Shah

View full book text
Previous | Next

Page 284
________________ २३४ द्वादशारनयचक्रम् [विधिविध्यरे ... एतच्च न, निद्रावदवस्थावृत्तेरस्वातंत्र्यात् , आहितवेगवितटपातवत् । ननु तज्ज्ञत्वाधयुक्ततैव, अज्ञातत्वात् , युक्तत्वाभिमतत्वेऽपि चायमेव नियमः कर्नेतरत्वापादनाय । एतच्च न, निद्रावदवस्थावृत्तरित्यादि, नैतदुपपद्यतेऽनानिष्टापादनानुपपत्तिस्यात्मन इति, कस्मात् ? निद्रावदवस्थावृत्तेः, निद्रावत्यवस्था निद्रावदवस्था तया वृत्तिर्निद्रावदवस्थावृत्तिस्तस्या 8 वृत्तेः पुरुषस्यैवास्वातंत्र्यात् , ज्ञस्यापि स्वकृतनिद्रावस्थावृत्तिवशादस्वातंत्र्यम्, आहितवेगवितटपातवत् , यथा कश्चित् पुरुषः स्वयमेव पूरितवेगस्तं वेगं निवर्तयितुमशक्तो वितटे पतति तथा स्वतंत्रमपि ज्ञमपि तत्परं कारणमात्मनोऽनिष्टमनर्थमापादयेत् को दोषः ? इति, अत्र कुतूहलबेहोषं ब्रूमःननु तज्ज्ञत्वेत्यादि, नन्वेवं त्वया निद्रावदवस्थावृत्तिवशादाहितवेगवितटपातवदवस्थास्वातंत्र्यादनानिष्टापादनमिति ब्रुवता तज्ज्ञत्वाद्ययुक्ततैवैषा समर्थ्यते, तेनानया पूरितवेगया शीघ्रगमनक्रियया वितटपातो 10 भविष्यतीत्यज्ञातत्वात् , ज्ञातत्वे वितटपातः स्वतंत्रस्य नोपपद्यत इति स एव दोषस्तस्मात्तदवस्थम युक्तत्वम् । युक्तत्वाभिमतत्वेऽपि चेत्यादि, यद्यपि स्वातंत्र्यज्ञत्वाविनाभाविभवनबलोपबृंहितमात्ममयत्वमेवास्य सर्वस्य मन्यसे तथापि चायमेव नियमः कर्त्रतरत्वापादनाय, भवतीति वाक्यशेषः । कथं कृत्वा तद्भाव्यत इति चेदुच्यते- भवति कर्ता ज्ञ एवावस्थाविशेषादचेतनोऽपीति कारणान्तरास्तित्वं भवतैव समर्थितम् , 15 ज्ञाज्ञस्वतंत्रास्वतंत्रस्वविषयनियतकर्तृकरणाधिकरणकर्मादिनियतशक्तिदर्शनात् देवदत्तकाष्ठ स्थालीतन्दुलोदकादीनां तनियमकारिणा कारणेनावश्यं भवितव्यम् , तेषां तथाभावान्यथाभावाभावादिति नियतिरेवैका की। भवति कर्तेति प्रागभिहिताक्षरार्थन्यायं तदीयमेवोच्चारयति यावदचेतनोऽपि भवतीति, त्वयैव कारणान्तरास्तित्वमेवं ब्रुवता समर्थितं भवति किञ्चिदासामवस्थानां ज्ञाज्ञस्वतश्रास्वतत्रस्व20 विषयनियतकर्तृकरणाधिकरणकर्मादिनियतशक्तिदर्शनाद्देवदत्तकाष्ठस्थालीतन्दुलोदकादीनाम् , तन्नियमकारिणा कारणेनावश्यं भवितव्यम् , किं कारणम् ? तेषां तथाभावान्यथाभावाभावात् , देवदत्तोऽधिश्रय. णोदकसेचनतन्दुलाऽऽवपनधोपकर्षणादिव्यापारस्वातंत्र्य एव नियतो न ज्वलनसम्भवनवारणविक्लेद्यादितस्य दर्शयति-देशकालेति । पुरुषवादी समाधत्ते-एतञ्च नेति । आत्मनोऽनर्थमनिष्टं नापादयेदिति यदुक्तं तनेत्यर्थः । निद्रावस्थायामात्मनः सत्त्वादेव स्वातंत्र्यस्य तदानीमभावादनिष्टमप्यापादयतीत्याह-निद्रावदिति । तत्र दृष्टान्तं सङ्गमयति26 यथेति । नियतिवाद्याह-नन्विति, अनर्थप्रसवविज्ञानाभावात्तस्य ज्ञत्वं न युज्यते इति भावः । यदि तु भवनं खतंत्रत्वे सति ज्ञत्वेन सहाविनाभावि मन्यसेऽथ चात्ममयमेव जगत् . तथापि कर्तृत्वाकर्तत्वयोरपि ज्ञवाज्ञत्वयोरेव नियामकत्वमि. त्याह-यद्यपीति । ज्ञ एव चेतनोऽपि भवत्यचेतनोऽपीति चेतनाचेतनायवस्थासु कारणान्तरास्तित्वं समर्थितमेव, न हि कारणान्तरव्यतिरेकेण कदाचिच्चेतनतया कदाचिच्चाचेतनतया भवनं तस्योपपद्यन्त इत्याशयेनाह-त्वयैवेति । ज्ञोऽपि सन देवदत्तादिः केषुचियापारेषु नियमेन खतंत्रः केषुचिच्च नियमेनाखतंत्रस्तथाऽज्ञोऽपि करणादिः खव्यापारेषु खतंत्रोऽन्यत्र 30 चाखतंत्रो नियत इत्याह-झाझेति । तथा च त्वाज्ञत्वे न नियमकारिणी किन्तु तत्रान्येन केनचिनियमकारिणा भवितव्यमिति भावः । कर्चादीनां खविषये प्रवृत्तेरन्यविषयेभ्यो निवृत्तश्च नियामकमावश्यकमित्याशयेनाह-तेषां तथाभावेति । कारणानां खव्यापारेषु सामध्य तथाभावः. खव्यापारविपर्यये शक्तिरन्यथाभावः तयोरभावप्रसङ्गः कस्यचिनियामकस्याभाव इत्यर्थः । एतमर्थमाह-देवदत्त इति । अस्माखेतोरिति । तथाभावान्यथाभावाभावाद्धेतोर्देवदत्तादिभावानां प्रोक्तो यो Jain Education International 2010_04 For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354