Book Title: Dvadasharnaychakram Part 1
Author(s): Mallavadi Kshamashraman, Labdhisuri
Publisher: Chandulal Jamnadas Shah

View full book text
Previous | Next

Page 282
________________ द्वादशारनयचक्रम् [विधिविध्यरे एवं तावत् पुरुष एव सर्वमित्युक्तम् , स एवोच्यते कालोऽपि ज्ञत्वात् , कलनात् कालः, कल संख्याने, कलनं ज्ञानं संख्यानमित्यर्थः । यथा चाहुरेके 'कालः पचति भूतानी'ति श्लोकः । प्रकरणात् प्रकृतिः, स एवेति वर्तते, सत्त्वरजस्तमःस्वतत्त्वात् प्रकाशप्रवृत्तिनियमार्थाद्गुणानामात्मस्वतत्त्वविकल्पनेन च भोक्ता । प्रकुरुत इति प्रकृतिः । यदाहुः-'अजामेकां लोहितशुक्ल कृष्णां बह्वीः प्रजाः सृजमानां "सरूपाः । अजो ह्येको जुषमाणोऽनुशेते जहात्येनां भुक्तभोगामजोऽन्यः' (श्वेताश्व. ४।२५) इति । रूपणानियमनान्नियतिः, रूपणाच्चक्षुषो विषयो रूपमेव न रसादयः, रसनाद्रसो रसनविषयो न रूपादय इत्यादिनियमनान्नियतिः। वो भावः आत्मनैव खेन रूपेण भवनात् स्वभावः 'कः कण्टकाना'मित्यादि । - येन यत्र यथा यस्माद्यदा यदर्थं प्रवर्तितव्यं तेन तत्र तथा तस्मात्तदा तदर्थञ्च प्रवृत्ति रन्तरञ्चैतस्य, स एव हीदं सकलं जगत् वृत्तमविवृत्तञ्च बहुधानकं चेतनाचेतनसप्रभेदरूप१० मिति । आह च-'तदेजति तन्नजति तदरे तद्वन्तिके । तदन्तरस्य सर्वस्य तदु सर्वस्यात्य बाह्यतः' (ईशा०.१-५) इति । स एवार्हन बुद्धः ब्रह्मा विष्णुः ईश्वर इति । . (येनेति) येन-हेतुना यत्र-क्षेत्रे यथा-येन प्रकारेण यस्मादाश्रयाद्वस्तुनः यदा-यस्मिन् काले यदर्थश्च-यत्प्रयोजनमुद्दिश्य प्रवर्तितव्यं तेन तत्र तथा तस्मात्तदा तदर्थश्च प्रवृत्तिः, यथा. राज्ञाऽऽज्ञप्तः सूपकारः स्थाल्यां कुशूलात्तन्दुलानाकृष्य मृदु विशदमोदनं प्रयत्नपूर्वकं क्षुत्प्रशमनार्थश्च 15 पचतीति, तत्पुनः प्रवर्त्तनं तदन्तरश्चैतस्य, न ततो व्यतिरिक्त बहिर्भूतम् , स एव हीदं, स एव पुरुषो यस्मादिदं सकलं जगद्वृत्तं-ततः प्रसृतं नानाभेदेन विवर्त्तमानम्, अविवृत्तञ्च तत्स्वरूपापरित्यागात् , बहुधानकं-बहुधानाश्रयः, चेतनाचेतनसप्रभेदा रूपमस्येति चेतनाचेतनसप्रभेदरूपं-यञ्चेतनं नरतिर्यगमरनारकादि तत्प्रभेदाश्च रूपमस्य, काष्ठकुड्यघटपटाद्यचेतनश्च सप्रभेदमस्य रूपमिति, आह चेति, जैनमतानुसारेणैवेत्यर्थः, तदेजति-चलति स्पन्दते, नैजति-न चलति न स्पन्दते, तहरे-तिर्यग्लोकेऽधो 10 लोकेऽलोके च, तदुपान्तिके -तदेकस्मिन् प्रदेशे दृश्यस्पृश्यादि तदन्तरस्य-घटपटादेः सर्वस्य-वस्तुनः साकारानाकारोपयोगलक्षणस्यात्मनस्तत्परिणतेरप्रतिघातात् , तदु सर्वस्यास्य बाह्यतः-तस्यैवालोकेऽपि सद्भावात् , सर्वस्यास्येति लोकगतभावनिर्देशात्तस्य बाह्यमलोक इति । अहण् बोधने इत्यादेः विशुद्धि स्मैव सर्जनविसर्जने बन्धमोक्षौ चेति स एव जगद्रूपेण परिणमत इति सिद्धमित्याह-एवं तावदिति । स एव कालप्रकृति. - नियतिखभावादिशब्दवाच्य इत्याह-स एवोच्यत इति काल इति. कालः पचति भूतानि कालः संहरते प्रजाः । कालः 25 सुप्तेषु जागर्ति कालो हि दुरतिक्रमः॥ इति कारिका कालवा दिनो बोध्या. प्रधानवादिसम्मतं मंत्रमाह-अजामेकामिति, अत्राजाशब्दः परमेश्वरादुत्पन्नायां ज्योतिःप्रमुखायां तेजोबन्नलक्षणायां चतुर्विधस्य भूतग्रामस्य प्रकृतिभूतायां वत्तेते, न नयामकाभावादिति शाङ्करभाष्ये निरूपितम । रूपणं हि नियमनं तत्कथं नियम्यत इत्यत्राह-रूपणापक्षष इति । कः कण्टकानामिति, कः कण्टकानां प्रकरोति तैक्षण्यं विचित्रतां वा मृगपक्षिणाञ्च । स्वभावतः सर्वमिदं । प्रवृत्तं न कामचारोऽस्ति कुतः प्रयत्नाः ॥ इति खभाववादिनः कारिका विज्ञेया। द्रव्यक्षेत्रकालभावभेदेन सर्वविधा प्रवृत्ति30 स्तस्य पुरुषस्यान्तर्गतैव न काचन ततो व्यतिरिक्ता प्रवृत्तिरस्तीति पुरुषवादमुपसंहरति-येनेति । दृष्टान्तमाह-यथेति, राज्ञाऽऽशप्त इति हेतुप्रदर्शनम् , स्थाल्यामित्याधारभूतक्षेत्रप्रदर्शनम् , यस्मादित्यस्यार्थः कुशूलादित्यनेनोक्तः, मृद्वादिर्यथापदार्थः, रामनाथेमिति यदर्थस्य प्रदर्शनम्। बहिर्भूतत्वाभावे हेतुमाह-स एव हीदमिति । जैनमतानसारेणैवेति. तदेजती.सादिमंत्रस्य जैनमताभिप्रायेण व्याख्यायमानत्वादिति भावः। तथाविधः पुरुष एवार्हदादिशब्दैरुच्यत इत्याह-अर्हणिति। Jain Education International 2010_04 For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354