Book Title: Dvadasharnaychakram Part 1
Author(s): Mallavadi Kshamashraman, Labdhisuri
Publisher: Chandulal Jamnadas Shah

View full book text
Previous | Next

Page 258
________________ ૨૦૮ द्वादशारनयचक्रम् [विधिविध्यरे प्रतिज्ञायते, तेषु विकल्पेषु दोषाणामभिहितत्वात् , निर्दोषभवनोक्तेश्च विविच्यते विधिना । किमेवं विविच्यत एव ? नेत्युच्यते सेति प्रतिज्ञा, सा पुनरविविक्तैव कृता 'को ह वैतद्वेद ? किं वाऽनेन ज्ञातेन, इति वचनात् । स एष विधिन भवति, अविविच्यमानार्थविधानात्, स्ववचनविरोधात्, अंशेन विवे5 काच्च, विविच्यमानांशोऽपि च तद्वद्विविच्यते, न स विविच्यते तथा न भवत्येव विधित्वं विधेः, किं न एतेन यदि कारणमित्याद्यविचार्य लोकवद्विधानात् । (स एष इति) तथाविधे विधित्वं न भवति, अविविच्यमानार्थविधानात् स्ववचनविरोधात् अंशेन विवेकाच्च, यत्राप्यंशेन विवेकस्तत्र विविच्यमानांशेऽपि च यथा भावना विधिनयवादिनाऽभिहिता तद्वद्विविच्यते, न स विविच्यते, अत्रापि परमतदूषणात् स्वमतसाधनाश्च घटादिर्भावो विविच्यते, 10 न स विविच्यते, तथा न भवत्येव विधित्वं विधेः, न विधिर्विहित एवमित्यभिप्रायः, कथं पुनर्विधीयत इति चेत् ? लोकवत् , लोक इव लोकवत् , लोकवादिति विधानात , यदि लोकवदेव विधीयते विधिरुत्सर्ग एव न भवति, कथं न भवति ? किं न एतेन यदि कारणं यदि कार्य ततः को दोषः प्रतिज्ञापि तदर्थद्वारिका न कार्येत्याद्यविचार्य विधानान्न भवति । किं तर्हि ?15 यदुत्सृष्टतया विधिः सिद्ध्यति लोके यथा तत्तथाऽन्यथा च भवति तथा वक्तव्यमिति विधिर्विधिर्भवत्यविवक्षितव्यावृत्तिरनङ्गीकृतभेदः । (यदिति) यदुत्सृष्टतया सर्वात्मकत्वेन विधिरुत्सर्गः सिद्ध्यति, तद्यथा-लोके यथा तत्तथाऽन्यथेत्यादि, अथवा यथा लोके दृष्टस्तथा विधिर्विधिर्भवति, कथं पुनर्लोके विधिर्भवति ? उच्यते-इति विधिरित्यादि, इति-इत्थमनन्तरं वक्ष्यमाणो विधिर्विधिर्भवति लोके यथा तत्तथान्यथेत्यादि, मृत्पिण्ड20 शिबकादिप्रकारेण तथाऽन्यथा च भवति यथा तथा वक्तव्यं-तश्चातच ययोपपत्त्या भवति तथा वक्तव्यमेष विधिर्विधिः, एवं सोऽविवक्षितव्यावृत्तिरनङ्गीकृतभेदस्तिरस्कृतविशेषो निर्व्यावृत्तिरेव विधिर्विहितो भवति । उत्सृष्ट इति पर्यायशब्देनोत्सर्गो विधिरिति सर्वत्रास्य विधिलक्षणस्य दर्शयति । विविच्यते पृथक् क्रियत इत्यर्थः । तयोर्भवनार्थत्वं न घटते तत्र दोषाणामुक्तत्वात् , अत्र च घटात्मभवने न कोऽपि दोष इति भावः । स च विवेको न विवेक एवेति विधिविधिनय आह-किमेवमिति। हेतुमाह-कोह वेति, अशक्यप्रायफलस्व25 योरुक्तरित्यर्थः, अत एव चैष विधिर्विधिरेव न भवति, अविविच्यमानस्यार्थस्य विधानात्, को ह वेतद्वेदेत्यनेनार्थस्य विवेच नायोग्यत्वोक्तेः, तथापि कृते विवेचने तेनैव पचनेन विरोधः प्रसज्येत । तथापि यदि विवेकः क्रियते सोऽप्यंशेनैव, विधिमतवादिविहितविचारानुसारेणैव विवेचनात्. तच्च विवेचनम विवेचनमेवेत्याशयेनाह-स एष विधिरित्यादिना। अविवेचनत्वे हेतुमाह-अत्रापीति । परमतप्रतिषेधात् खमतसाधनाच नायं विधिः सदसद्रूपत्वात् , सदसदंशात्मनो वस्तुनो योऽयं सदंशो भावरूपस्तस्यैव विधित्वेने भावरूपस्तस्यैव विधित्वेनोत्सर्गतो लोके प्रसिद्धरिति भावः । त्वया तु लोकवद्विधीयत इत्युच्यते परन्तु 30 तवायं विधिरुत्सर्गतो विधिरेव न भवति, किं न एतेन, यदि कारणं कार्यमपि भवेत् को दोषः, उभयथापि दर्शनात् , अत एव च कारणं कारणमेव न कार्यमित्यादिप्रति ज्ञापि न कार्येत्येवमविचार्य विधानादित्याह-लोकवदिति । कथं तहि विधिर्भवतीति विधिनयेन पृष्टो विधिविधिनयः प्राह-यत्पृष्टतयेति । सर्वात्मकतया भवनमेवोत्सर्गतो विधिरिति लोक Jain Education International 2010_04 For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354