Book Title: Dvadasharnaychakram Part 1
Author(s): Mallavadi Kshamashraman, Labdhisuri
Publisher: Chandulal Jamnadas Shah
View full book text
________________
16
शशेषत्वम् ] न्यायागमानुसारिणीव्याख्यासमैतम्
२०९ अथ पुरुषवादः कोऽसौ निदर्यतामिति चेत् ? उच्यते तद्यथा
पुरुषो हि ज्ञाता ज्ञानमयस्तन्मयञ्चेदं सर्व जगत्, तदेकत्वात्, स एव भवतीति भावः, सामान्यम् , को भवति ? यः कर्ता, कः कतो ? यः स्वतंत्रः, कः स्वतंत्रः? यो ज्ञः, काष्ठादिविप्रकीर्णपचननिवर्त्तनवत् ।
पुरुषो हीत्यादि, उक्तनिरुक्तः पुरुषशब्दः, हिशब्दो यस्मादर्थे, यस्मादसौ ज्ञाता ज्ञानशीलो सानधर्मा साधुज्ञायी वा पुरुष एव, ज्ञातृत्वञ्च ज्ञानमयत्वात् , ज्ञानावयवो ज्ञानविकारो वा ज्ञानमयः सा, उपयोगलक्षणत्वात् , ततः किमिति चेत् ? तन्मयश्चेदं सर्व-देवमनुजतिर्यङ्नारकपृथिव्यादिघटादिभेदभिन्नं जगत् , तदेकत्वात्-तस्य पुरुषस्यैकत्वात् , वस्तुत्वात्तदेकत्ववत् सबैकत्वं सर्वैकत्वाच्चैकं स च जगच सर्व भवतीति भावा, ननु घटपटादि भेदेन भवति ज्ञानमयपुरुषात्मकत्वात् , येन 10 भूयते स एव भवतीति भावः, स आत्मैव सामान्यं समानो भवतीति । तन्निर्णयार्थं प्रभोत्तरक्रमेण प्रन्थः को भवतीत्यादिः गतार्थो यावत् कः स्वतंत्रो यो ज्ञ इति, अज्ञस्यास्वातंत्र्यादेव कर्तृत्वाभावात् । काष्टादिविप्रकीर्णपचननिर्वर्तनवत् , यथा काष्ठैः स्थाल्यामोदनं देवदत्तः पचतीत्यत्र देवदत्त एव पचनस्य निर्वतको ज्ञातृत्वान्न काष्ठादीति तथा पुरुष एव भवतीति भावः ।
इतर आह
ननु क्षीररसादि दध्यादेः कर्तृ, न च तत्क्षीरं रसो वा ज्ञ इति, न, तत्प्रवृत्तिशेषत्वात्, गोप्रवृत्तिशेषक्षीरदधित्ववत्, ज्ञशेषत्वाद्वा चक्रभ्रान्तिवत् ।
(नन्विति) ननु क्षीररसादि दध्यादेः कर्तृ, क्षीराइधि भवत्यज्ञाश्च कर्तृणो रसागुडः, न च तत क्षीरं रसो वा ज्ञ इति ज्ञकर्तृत्वमनैकान्तिकमित्येतच्च न, तत्प्रवृत्तिशेषत्वात् , तस्यैव ज्ञस्य प्रवर्त्तमानस्य प्रवृत्तेरपरिसमाप्तायाः शेषत्वात् , कालक्रमभेदकृतस्तु विशेषो न निवार्यते, यथोक्तम्-'शर्करासम-20 वीर्यस्तु दन्तनिष्पीडितो रसः। दन्तनिष्पीडितः श्रेष्ठो यांत्रिकस्तु विदाहकृत् ॥' इति, गोप्रवृत्तिशेषक्षीरदधित्ववत् , यथा गोर्धेनोः प्रवृत्तेरपरिसमाप्तायाः क्षीरदधिनवनीतघृतनिष्यन्दनविशेषस्तथा पुरुषप्रवृत्तिशेष एव जगदिति । ज्ञशेषत्वाद्वा चक्रभ्रान्तिवत्, का वा सा प्रवृत्तिः प्रवर्तमानपुरुषसिद्धमिति भावः । उक्तनिरुक्त इति, पू:शरीरं तत्र शयनाभिवसनात् पुरुषः, अथवा सर्वेषामपि वर्गमर्त्यपातालगतानां स्वर्गविमानवनशयनाऽऽसनयानवाहनदेहविभवादिभावानां भावेषु वा पूरणपालनभावात् पुरुष इति निरुक्तिः। 25 तस्मयश्चद समिति,कायोणां कारणात्मकत्वात् सद्रूपस्य कारणस्य सर्वत्रानुगमात् सद्रूपेणामेदः कायेस्य जगतः कारण जगतो ज्ञ एव, अज्ञस्य कृत्यसम्भवेन कर्तृत्वासम्भवात् , सोऽपि च कर्ता खतंत्र एवेत्याह-तनिर्णयार्थमिति, .. ज्ञानमय एव भवतीति निर्णयार्थमित्यर्थः, काष्ठैः स्थाल्यामोदनं देवदत्तः पचतीत्यादौ सर्वेषु साधनेषु सन्निहितेषु कतैव प्रधानस्वात् प्रवर्त्तयिता भवति, तदधीनप्रवृत्तित्वानिखिलकारकाणाम् , कर्तुश्चान्येभ्यः कारकेभ्यः प्राक् शक्तिलाभात्, आस्ते शेते इत्यादौ च केवलस्य कर्तुरेव दर्शनात् कर्तृरहितानां करणादीनामदर्शनाच्च कतैव स्वतंत्रः क्रियानिर्वर्तन इत्याह-काष्ठा- 30 दीति । नमु क्षीराद्यचेतनं खभावेनैव दध्यादौ कत्तृत्वेन प्रवर्तते, तस्मात् शस्यैव कतत्वमित्यनियम इत्य क्षीरेति, दध्यादावपि तस्यैव कर्तृत्वं चेतनात्मकधेनुप्रवृत्तेरपरिसमाप्तत्वाभ्युपगमात् , भ्रमिसाधनदण्डनिवृत्तावपि तज्जन्यभ्रमः आघटोत्पादं दर्शनादित्याशयेनोत्तरयति-तत्प्रवृत्तिशेषत्वादिति । ननु दध्यादि ज्ञकर्तृक गोप्रवृत्तिशेषत्वादित्यनुमानेन दध्यादौ ज्ञकर्तृत्वं प्रसाध्य जगतः पुरुषप्रवृत्तिशेषत्वमुक्तं तत्र प्रवृत्तिरपि पुरुषव्यतिरिकाया अभावानशेषत्वमेव हेतुरित्याह
द्वा० न०२७
Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354