Book Title: Dvadasharnaychakram Part 1
Author(s): Mallavadi Kshamashraman, Labdhisuri
Publisher: Chandulal Jamnadas Shah

View full book text
Previous | Next

Page 279
________________ २२९ पुरुषात्तु सर्वसिद्धिः] न्यायागमानुसारिणीव्याख्यासमेतम् (ज्ञानस्यापीति) रूपादयो न सन्तीति यदपलापबीजं निरूपणं तदपि नास्तीति रूपादि प्रतिषेधो न सिद्ध्यति, प्रत्यक्षतश्च स्वानुभवेन रूपस्य निरूपणमुपलभ्यते प्रतिस्वम् । आदिग्रहणादा. स्वादनघ्राणस्पर्शनश्रवणानुभवा उपलभ्यन्तेऽतः प्रत्यक्षविरोधः, तदनुस्मरणदर्शनादनुमानविरोधः आदिग्रहणात्, अनुस्मरणं हि स्वयमनुभूतस्यार्थस्य, नाननुभूतस्य । तस्मादवश्यमात्मा ज्ञानस्वभाव एकः सर्वभावव्यापी विपरिवर्त्तमानोऽवस्थितः कारणमिति सिद्धम् । अत एवोक्तवदित्यादि, एतस्मादेवात्मव्याप्तिविपरिवृत्तिव्यवस्थितत्वाद्धेतोरुक्तेन तुल्यमुक्तवत् , रूपादीनां तत्त्वात्-रूपणात्मकत्वात् ज्ञानस्वभावात्मावस्थाविशेषमात्रत्वात् । सर्वत्र-सर्वभावेषु एष विशेषः तस्यैव कारणपदार्थस्योपकारविशेषेभ्योऽपरो द्रष्टव्यः, सन्निपत्योपकारिणी बुद्धिरात्मनः साक्षाव्यवहिता भावानां स्वपरिवर्तविशेषाणामुपभोगे, भोक्ता तु स्वयमेव स्वपरयोरारादिन्द्रियाणि करणत्वात् , दूरात् प्रकाशादयोऽनुप्राहकाः इन्द्रियाणाम् , दवीयांसस्तु रूपादयः दविष्ठा घटादयः, औषधान्यञ्जनादीनीन्द्रियाणां पाटवजननादु-10 पकार्योपकारित्वेन तदुपोद्वलकराश्वाऽऽहाराः सर्वभावगतासु ज्ञानवृत्तिष्विति, अत आह-सर्वत्र सन्नि. पत्याराहरादुपकारित्वेभ्यो हेतुभ्य आत्मबुद्धीन्द्रियप्रकाशरूपघटौषधाहारादिषु ज्ञानवृत्तिर्भवतीति । अत्रआह च पुरुष एवेदमित्यादि। आह चेति ज्ञापकमेतस्मिन्नर्थे पूर्वोक्तमेव जैनैर्वक्ष्यमाणज्ञापकार्थमेकोऽहमनेकोऽप्यहमित्या-10 दिकम् , अतोऽपि लौकिकस्तदनुसारेणाह न स्वमहिम्नेति, पुरुष एवेदमित्यादि, एवेत्यवधारणे, भवितुरन्यस्याभावात् , उक्तवत्तस्यैव च भवनात् । इदमिति दृश्यस्पृश्यादीन्द्रियगोचरं लिङ्गगम्यं च निर्दि अथ न खलु बाह्यार्थस्याभावोऽध्यवसातुं शक्यते विज्ञानाभावे रूपादयो न सन्तीति निरूपणोपायाभावात् , न वा स्फुटतरे सर्वजनीन उपलम्भे सति तदभावो वक्तुं शक्यः, यथा हि कश्चिद्भुञ्जानो भुजिनिय॑तृप्तौ स्वयमनुभूयमानायां नाहं भुजे न : वा तृप्यामीति ब्रुवन्ननुपादेयवचनो भवति प्रत्यक्षविरुद्धत्वात् , तद्वदिन्द्रियसन्निकर्षेण खयमुपलभमान एव रूपाद्यर्थजातं नाह-20 मुपलभे न च सोऽस्तीति ब्रुवन् कथमुपादेयवचनः स्यादित्याशयेनाह-रूपादय इति । आदिग्रहणादिति, रूपादीत्यत्रादिग्रहणादित्यर्थः। प्रत्यक्षादीत्यत्रादिग्रहणादनुमानस्य ग्रहणमित्याह-तदनुस्मरणेति । रूपणरसनादिना चानुभवनीय यद् ज्ञानं तदपि न विभिन्नमनुस्मरणानुपपत्तेः, तच्च खयमनुभूतस्यैव, नान्येनानुभूतस्येति सर्वभावव्यापी ज्ञानलक्षणः स्वय म्प्रकाशश्चतनाचेतनतया विपरिवर्त्तमान एक आत्मा सर्वकारणं सिक्यतीति भावः । एतस्मादेवेति, सर्वभावव्याप्तत्वे सति विपरिवर्तमानत्वादेव हेतोरित्यर्थः, रूपादयो रूपणाद्यात्मकत्वे सति ज्ञानखभावात्मावस्थाविशेषा एव । चेतनस्यैकस्यैव 25 भोग्यभोक्तभोगभोगोपकरणादिना वर्तनमादर्शयति-सर्वत्रेति । सन्निपत्येति, चेतनस्य खपरिवर्त्तविशेषाणामुपभोगे सन्निपत्त्योपकारिणी भवति, आन्तरं साधनमिति भावः,भोक्ता चेतनस्साक्षदेव, इन्द्रियाणि करणत्वादारादुपकारकाणि प्रकाशादय इन्द्रियापेक्षया विप्रकर्षेणोपकारकाः, रूपादयश्च तदपेक्षयाऽपि विप्रकृष्टास्ततोऽपि घटादयः, औषधादीनि चेन्द्रियपाटवाधाय.. कानि आहारादयोऽपीन्द्रियाणामुपोद्वलकरा इति विशेष इति भावः । तत्र प्रमाणमाह-आह चेति-पुरुष एवेदं सर्व यद्भूतं यच्च भव्यम् , उतामृतत्वस्येशानो यदन्नेनातिरोहति इति (ऋग्वेदे० पुरुषसू०) पूर्णा ऋक् ज्ञापकमिदं पुरुषवादिनः, आई-30 तमतानुसारेण ज्ञापकं सूचयति-जैनैरिति, हे सोमिल! एकोऽप्यहं द्वावप्यहमक्षयोऽप्यहमव्ययोऽप्यहमवस्थितोऽप्यहमनेक भूतभावभावकोऽप्यहमिति विधिविध्यरान्ते वक्ष्यमाणं ज्ञापकमत्र बोध्यम् । पुरुष एवेदमिति ऋचं व्याचष्टे-पुरुष एवेदमित्यादीति, भवितुरिति, पुरुषातिरिक्तस्य प्रपञ्चस्य प्रतिषेधात् पुरुषोपादानमेव जगदित्यवधार्यते तस्यैव प्रागुदितप्रकारेण चेतनाचेतनरूपेण भवनादिति भावः । इदंशब्देन व्याकृतं प्रत्यक्षानुमानगम्यं गृह्यत इत्याह-इदमितीति । निखिल Jain Education International 2010_04 For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354