Book Title: Dvadasharnaychakram Part 1
Author(s): Mallavadi Kshamashraman, Labdhisuri
Publisher: Chandulal Jamnadas Shah

View full book text
Previous | Next

Page 278
________________ २२८ द्वादशारनयचक्रम् [विधिविध्यरे घटो भवतीत्यादि युज्यते परतोऽपि कपालादिपांशुब्रीह्यादिभूतेः-घटभवनात् परतोपि घट एव कपालादिर्भवति, कपालादेरपि परतो यावच्छर्कराभवनात् , पांश्वादेरपि परतो व्रीह्यादेर्भवनात् , तस्माद्धटादिसर्वात्मकमेव भवति। न चेदेतदिष्यते-एवं प्रकारं भवनम् , तत एवं घटादिसर्वात्मकस्यैकस्य देशकालव्यापिनः सत्त्वस्याभावात् , त्वन्मतेनैव प्रत्येकं सत्त्वस्य इतरेतरासत्त्वात्मकत्वात् कुतो भवनं भवितुर्घटादेः? घटः पटात्मना नास्ति पटोऽपि घटात्मनेति देशतः, कालतश्च प्राक् पश्चाद्वा न स एवेति न पटोऽस्ति न वा घट इति प्रत्येकं भिन्नत्वे भावानामभावात् को घटः ? किं भवनम् ? । _ यथा तु यैः रूपादिभेदेन घटो देशभेदाद्यावन्निरुपाख्यशः कालभेदेन च परमनिरुद्धक्षणोत्पत्तिनिरुपाख्यशो भिद्यत इति सर्वभेदपर्यन्तं भेदं विधायापि विज्ञानमात्रमेवेति व्यवस्थाप्यते तैरस्मदुपवर्णनवदेवाभिहितं भवति, रूपादिपरस्परविविक्तत्वे तु तद्विज्ञानान्वयाभा10वादूपरसादिभेदपरिकल्पनाभावस्तदंशकल्पनाभावो निरुपाख्यत्वकल्पनाभाव इति विज्ञान मात्रता न भवति । - यथातुयैः रूपादीत्यादि यावदस्मदुपवर्णनवदेवाभिहितं भवति । यैश्च वर्ण्यते विज्ञानमात्रत्वं देशभेदाटो भिद्यमानो रूपादिभेदेन भिद्यते यावन्निरुपाख्यशः, कालभेदेन च भिद्यमानः परमनिरुद्धक्षणोत्पत्तिविनाशनिरुपाख्यशो भिद्यत इति, तैः सर्वभेदपर्यन्तं भेदं विधायापि विज्ञानमात्रमेव 15 नान्यत् किञ्चिदिति व्यवस्थाप्यते यथा तु तद्व्यवस्थाप्यते तथाऽस्मदुक्तवदुपवर्णितमभिन्नमेकं विज्ञानमित्युक्तं भवति, ततश्च रूपरसादिघटपटादिविश्वभेदात्मकत्वात्तस्य, रूपादेः परस्परविविक्तत्वे तु तद्विज्ञानान्वयाभावाद्रूपरसादिभेदपरिकल्पनाभावस्तदंशकल्पनाभावो निरुपाख्यत्वकल्पनाभाव इति विज्ञानमात्रता न भवति । .. अत्र कश्चिद् ब्रूयात्तदपि विज्ञानमसत् , सर्वभावशून्यत्वादित्येतच्चायुक्तम्20 ज्ञानस्यापि त्वभावाभ्युपगमे रूपाद्यपलापबीजनिरूपणादिनिर्मूलत्वात् प्रत्यक्षादिविरोधः, तस्मादवश्यमात्मा ज्ञानस्वभाव एकः सर्वभावव्यापी विपरिवर्त्तमानोऽवस्थितः कारणमिति सिद्धम् , अत एवोक्तवत् रूपादीनां तत्त्वात् ज्ञानस्वभावात्मावस्थाविशेषमात्रत्वात् सर्वत्र सन्निपत्यारादूरादुपकारित्वेभ्यो हेतुभ्यः आत्मबुद्धीन्द्रियप्रकाशरूपघटौषधाहारादिषु ज्ञानवृत्ति र्भवतीत्येष विशेषः। 25 क्षणच भिनं भिन्नमेव वस्त्वेषितव्यमिति नैकस्य नानादेशकालव्यापिनः सत्त्वमिति को वा घटस्तद्भवनं वेत्याह-त्वन्मतेनै वेति । विज्ञानमात्रवादिनो बौद्धा अपि मदुक्तविधयैव देशकालाभ्यां बाह्यं वस्तु प्रतिक्षिपन्तो विज्ञानमात्रतां व्यवस्थापयन्ती. त्याह-यथा त्विति । अस्मदुपवर्णनवदेवेति, रूपादयोऽमूर्तसूक्ष्मवृत्तिमत्यजन्त एव खप्रवृत्तिप्रभावावबद्धमूर्तत्वप्रकमान् परमाणूनध्यास्य तत उत्तरकालं नानाप्रभेदपृथिव्यादिभेदस्थूलरूपा जायन्ते ते च रूपादयो रूपणाद्रूपं रसनाद्रस इत्येवं रूपणादिकृतात्मलाभनिरुक्तत्वाज्ज्ञानमेवेत्यस्माभिरुपवर्णितप्रकार इव तझ्यवस्थाप्रकारः इवशब्देन सूचितो भेदश्च तैज्ञोनं 30 क्षणिकमित्युच्यते, अस्माभिश्च नित्यमेकमन्वयीत्युच्यत इति भावः। रूपादीनामत्यन्तं व्यावृत्तताङ्गीकारे च तेषु विज्ञानस म्बन्धाभावाद्रूपादेर्निरूपणमेव न स्यादिति रूपरसादिभेदकल्पनं न सिझ्यतीति तदभाव एव स्यादतो रूपादीनां विज्ञानस्याकारविशेषत्वाद्विज्ञानाशकल्पना निरुपाख्यत्वकल्पना वा न सम्भवति, ज्ञानेनैव हि सर्व निरूपणीयम् , न ह्यसम्बद्धेन तेन तन्निरूपयितुं शक्यमिति रूपाद्यभाव एव, ततश्च विज्ञानमात्रतापि न सिद्ध्येत् . रूपज्ञानं रसज्ञानमित्येवं रूपणरसनक्रियया निकाय विज्ञानं निरूपकाभावे कथं भवेदित्याह-रूपादे परस्परेति । विज्ञानमपि मा भूतु को दोष इत्यत्राह-ज्ञानस्यापीति। Jain Education International 2010_04 For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354