Book Title: Dvadasharnaychakram Part 1
Author(s): Mallavadi Kshamashraman, Labdhisuri
Publisher: Chandulal Jamnadas Shah

View full book text
Previous | Next

Page 271
________________ करणात्मवर्णनम् ] न्यायागमानुसारिणीव्याख्यासमेतम् २२१ णास्मा, सुप्तजाप्रदवस्थयोश्चान्तरावस्था सुप्तजागरिका, तत्र स्वप्नदर्शनं भवति, यथोक्तम् 'नो सुत्ते सुविणं पासइ नो जागरे सुविणं पासइ । सुत्तजागरे सुविणं पासइ।' (भग. १६ श. ६ उ. सू. ५७८) सा चापि जाग्रदवस्था करणात्माख्या चेतनात्मा-चेतना एवात्मा, तस्यैवार्थस्य जागरणात्मत्वात् । द्रव्यपुरुषवत्, द्रव्यपुरुषो भूतो भावी वा, यथा राजाऽऽसीद्भविष्यति वेति राजैवेत्युच्यते, करचरणगतचक्रपद्माद्याकृतिरेखादिलक्षणदर्शनात् , तदेव हि शरीरमनुभूतराज्यं भविष्यद्राज्यं वा राजा, तथा 5 करणात्मानः स्वपन्तो जाग्रतो वा चेतनात्मैव । अनुपयुक्तो वा द्रव्यपुरुषः, तस्मिन् ज्ञेयेऽनुपयुक्तत्वात्, यथाऽनुपयुक्तः पुरुषो नात्मत्वेन परिणमित आत्मस्वरूपज्ञानत्वेनापरिणमितो द्रव्यपुरुषो द्रव्यात्मैव तथा करणात्मा ज्ञानोपयोगरहितोऽपि चेतनात्मैवेति । एवं तर्हि परमात्मनः शुद्धचेतनात्मत्वात् सर्वात्मकत्वाच्च तस्य करणामावस्थानुपपत्तिरिति चेन्न चैतन्यस्य सर्वात्मकतायामपि सत्यां निद्राग्रहणात् , सुप्तोत्थितस्य सावशेषनिद्रस्येव 10 यज्ज्ञानं सा जागरावस्था करणात्मा, व्यपगतनिद्रस्येव सर्वज्ञावस्थेत्यनयोर्विशेषः, अर्थस्वरूपाग्रहणात् करणात्मावस्थायाः परमात्मना वैरूप्यमित्येतच्चायुक्तम् , अर्थस्य च तथातथातत्त्वात् ज्ञानमेव ह्यर्थः, करणमपि ज्ञानविवर्त्तत्वात् , यथा चेदं ज्ञानं तथा जाग्रदवस्था । शेषः सुप्तावस्था ज्ञानमेव, संशयादीषत्सुप्ततापि करणात्मा । (एवं तहीति) एवं तर्हि परमात्मनः शुद्धचेतनात्मत्वात् सर्वात्मकत्वाञ्च तस्य करणात्मावस्था- 15 नुपपत्तिरिति चेत् नेत्युच्यते चैतन्यस्य सर्वात्मकतायामपि सत्यां निद्राग्रहणात् सुप्तोत्थितस्य सावशेषनिद्रस्येव यज्ज्ञानं सा जागरावस्था करणात्मा व्यपगतनिद्रस्येव सर्वज्ञावस्थेत्यनयोः करणात्मपरमात्मावस्थयोर्विशेषः । स्यान्मतं अर्थस्वरूपाग्रहणात् करणात्मावस्थायाः परमात्मना वैरूप्यमित्येतच्चायु रकचन्द्रकसंस्थितम् , श्रोत्रेन्द्रियं कदम्बकपुष्पसंस्थितम् । निष्पादितस्यानुपघातानुग्रहाभ्यामुपकार्युपकरणेन्द्रियमुच्यते , भावेन्द्रियश्च लब्ध्युपयोगभेदाद्विविधम् , लब्धिः पूर्वमुक्तव क्षयोपशमजनितशक्तिविशेषरूपेति । स्पर्शरसगन्धवर्णशब्देषु ग्रहणरूपो 20 व्यापार उपयोगः स्पर्शनेन्द्रियादिनिमित्तः। तच्चोपयोगलक्षणं चैतन्यं प्रत्यक्षानुमानागमखरूपत्वाजाग्रदवस्थेत्युच्यत इति भावः। सुषुप्तजाग्रदवस्थयोर्मध्यावस्था सुप्तजागरिकेत्युच्यते या सैव खप्नावस्थेत्युच्यत इत्याह-सुप्तेति । द्रव्यपुरुषवदिति, अनुभूतपर्यायाधारं द्रव्यं यथाऽनुभूतघृताधारत्वपर्यायरिक्तघृतघटः, यद्भाविपर्याययोग्यं तदपि द्रव्यं राज्यपर्यायाहेकुमारवत्, तथाभूतभविष्यत्पर्यायश्च भूतभविष्यघृताधारत्वपर्यायरिक्तघृतघटवत् , तथा च यद्योग्यं भूतस्य भविष्यतो भूतभविष्यतोश्च वयोरिदानीमसत्त्वेऽपि तदेव द्रव्यमुच्यते। पूःशरीरं तत्र शयनाभिवसनात् पुरुषः, अथवा सर्वेषामपि खर्गमर्त्यपाता- 26 लगतानां वर्गविमानवनशयनासनयानवाहनदेह विभवादिभावानां नानाभवेषु पूरणपालनभाषावावरूपः पारमार्थिकः पुरुषः, एताशपर्यायानाधारो भविष्यत्पर्यायो द्रव्यपुरुषः । ननु पुरुषः शुद्धचैतन्यस्वरूपो जगद्विलक्षणः जगचाशुद्धमज्ञानस्वरूपम् आप्रत्स्वप्राद्यवस्थात्मकत्वात् तत्कथं करणात्मपुरुषावस्थात्मकमित्याशङ्कते-एवं तीति, तस्य पुरुषस्य करणात्मावस्थाजामदवस्था, तस्या अविद्यालक्षणनिद्राविशेषत्वादिति भावः। शुद्धबुद्धखरूपोऽपि अनाद्यविद्यालक्षणनिद्रावच्छिन्नत्वमित्याहचैतन्यस्येति । अविद्योपस्थापिततत्तबुख्यादिसंघातविशेषोपहितजीवाभिधानं दधानः आत्मा एकोऽपि भिन्न इव विशुद्धोऽप्य-30 विशुद्ध इव ततश्चैकबुद्ध्यादिसंघातापगमे तत्र मुक्त इतरत्र बद्ध इव यथा मणिकृपाणाधुपधानमेदादेकामपि मुखं नानेव दीर्घमिव वृत्तमिव श्याममिवावदातमिवान्यतमोपधानविगमे तत्र मुक्तमिवान्यत्रोपहितमिव भवति, तथा खनजागरितयोरपि । उपाध्यभिभवोद्भवाभ्यां श्रमः सुषुप्तौ च तदभाषः परं ब्रह्म प्रविश्य विमुक्तकार्यकारणसंघातत्वेनाकर्तृत्वात् , विद्याप्रीपेनाविद्याध्वान्तं विधूय तुरीयावस्थायां पुरुष एव केवलो निर्धत्तः सुखी भवति । अत एव तुरीयावस्थाव्यतिरिकावस्थासु सावशेषनिद्रस्येव Jain Education International 2010_04 For Private & Personal Use Only www.jainelibrary.org.

Loading...

Page Navigation
1 ... 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354