Book Title: Dvadasharnaychakram Part 1
Author(s): Mallavadi Kshamashraman, Labdhisuri
Publisher: Chandulal Jamnadas Shah

View full book text
Previous | Next

Page 254
________________ २०४ द्वादशारनयचक्रम् [विधिविध्यरे तस्मादसर्वत्वादेरसिद्धत्वात्तद्विकल्पाभावात् तदसमर्थविकल्पत्वासिद्धिस्ततः कारणात् कार्यमन्यदित्येतन्न सिद्ध्यतीति । तत्रासर्वत्वासिद्धौ प्रतिपादितायां व्यावृत्त्यादीनामसिद्धिरापादितैव भविष्यतीति । असर्वत्वाभावमेवापादयितुमाह-यदि हि घटोऽसर्वकार्यत्वाभिमतो मृत्पिण्डात् सत्त्वाभिमतादन्य इतीष्यते तद्वदेव-घदवदेव-कार्यवदेव दण्डादेरप्यसर्वत्वं विप्रकृष्टस्यापि, किमुत सन्निकृष्टस्य शिबकादेः, सर्वस्मादन्य5 त्वाद्धटवत् , तस्मादेकैकस्यासर्वत्ववत् सर्वस्याप्यसर्वत्वात् सर्वत्वाभाव इति सर्वत्वैकत्वभङ्गचतुष्टयाभावः, तदसमर्थविकल्पत्वमप्यत एव नास्ति । तथाऽनुवृत्त्याद्यभावश्च तत एव नास्ति यथैकस्य घटस्य मृद नुवृत्त्यभावस्तथा सर्वघटेषु शिबकादिष्वप्यभाव इति अनुवृत्त्यभावादनुवृत्तिव्यावृत्तिकृतविकल्पाभावश्च, एवं कारणोपादानबुद्धिसिद्धत्वसामान्यैः सप्रतिपक्षैर्विकल्पचतुष्टयासिद्धिस्तदसमर्थविकल्पासिद्धिश्चापादनीया । ततः कारणादन्यत् कार्यमित्येतन्न सिद्ध्यति । किश्चान्यत्-स्वोक्तविरोधादिवत्, स्ववचना10 भ्युपगमलोकव्यवहारप्रत्यक्षानुमानविरोधा आदिग्रहणात् प्रमाणग्रहणात्, विशेषस्वरूपविरोधौ च कण्ठतो वक्ष्यति । तत्र स्ववचनविरोधस्तावत्-यदि कार्य घटवत् क्रियते तत् कथमसत् खपुष्पवत् कार्यश्च ? मृदेव हि घटः क्रियते-घटतया व्यज्यते विद्यमान एव व्यक्तीभवति, स एव घटो दीपेनेव तथा च विशेषणविशेष्याप्रसिद्धिरपि कार्यमसदिति । 18 (तत्रेति) तत्र स्ववचनविरोधस्तावत्-यदि कार्य घटवत् क्रियते तत्कथमसत् खपुष्पवत् कार्यश्च ? खेन वचनेन स्वमेव वचनं विरुध्यते, अथासत् खपुष्पवत् कथं कार्य घटवदिति सैव स्ववचनविरोधभावना विपर्ययेण तयोरेव शब्दयोर्विरोधदर्शनार्था । यस्मान्मृदेव हि घटः क्रियते, हिशब्दो यस्मादर्थे । यस्मात् सर्पस्फटाटोपकुण्डलीभवनवन्मृद एव घटीभवनं तथा प्रकाशता व्यक्तिर्विमलता क्रियते करणं यथा पृष्ठं कुरु पादौ कुर्विति तद्दर्शयन्नाह-घटः क्रियते-घटतया व्यज्यते विद्यमान एव 90 व्यक्तीभवति, को दृष्टान्तः ? स एव घटो दीपेनेव, क्रियया व्यज्यते दण्डादिव्यापारणात्मिकया। तथा च विशेषणविशेष्याप्रसिद्धिरपि कार्यमसदिति व्याघातः प्रोक्तः, स्ववचनविरोधभावनात एव खपुष्पनिवृत्तघटयोरिव न कार्यमसता विशेष्यम् , नाप्यसत् कार्येणेति, न परस्परतो विशेषणं विशेप्यश्चेति विशेषणविशेष्याप्रसिद्धिः । नत्वादिहेतूनामसिद्धेने साम्यतेति भावः। घटादीनामसर्वत्वाङ्गीकारे कस्यापि सर्वत्वं न स्यात् , घटवत् सनिकृष्टस्य शिवकादेवि. 26 प्रकृष्टस्य दण्डादेरपि सर्वस्मादन्यत्वात् , तथा च सर्वत्वैकत्वाश्रयभङ्गचतुष्टयो न भवेदिति कथमसमर्थविकल्पत्वं कार्यस्येत्याह यदि हीति । दण्डादयोऽसर्वात्मकाः, सर्वात्मकादन्यत्वात् , घटवत्, एवमेव पटादावपि, तथा सर्वत्वाभिमतमप्यसर्व सर्वेभ्यो घटपटादिभ्योऽन्यत्वात् शिवकादिवदिति पृथगेकैकस्यासर्वत्वं प्रसाध्य सर्वात्मकस्यापि कारणस्यासर्वत्वं साधनीयमित्याह-तस्मादेकैकस्येति । एवं घटादीनामनुवृत्त्यात्मकमृत्पिण्डात् सत्त्वाभिमतादन्यत्वे तद्वदेव दण्डादीनां कपालादीनाञ्च विप्रकृष्टसन्निकृष्टानां सर्वेषामननुवृत्त्यात्मकत्वं, अनुवृत्त्यात्मकाद्भिन्नत्वात् घटवदित्येकैकस्याननुवृत्यात्मकत्वसिद्धौ कारणस्यापि तत्सिद्धेरनुवृत्त्यभावा30 दनुवृत्तिव्यावृत्त्याश्रितभचतुष्टयाभावेनासमर्थविकल्पत्वं न घटादेरित्याह-तथानवत्यादीति । यदि कार्य कृतिविषयो न तर्धसत् , असतः कृति विषयत्वानुपपत्तेरित्याशयेनाह-यदि कार्यमिति, कार्य क्रियतेऽसच्चेति खवचनेन खवचन विरुङ्यत इति भावः । कार्यस्य कृतिविषयत्वे घट इव सदेव स्यात् , ततश्चासत् कार्यमिति विरुद्धं, कार्यस्यासत्त्वे तत्कथं घट इव कृतिविषयोऽसत्त्वादित्युभयथापि विरोध इत्याह-अथासदिति । सर्वस्यैव स्फटाटोपकुण्डलीभवनवन्मृद एव घटीभवनं, नापूर्व सिविपति, विद्यमानस्यैव पृष्ठपादादीनां प्रकाशकरणवत् प्रकाशनमेव घटादीनामिति दर्शयति-मृदेव हीति । यथा पृष्ठ Jain Education International 2010_04 For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354