Book Title: Dvadasharnaychakram Part 1
Author(s): Mallavadi Kshamashraman, Labdhisuri
Publisher: Chandulal Jamnadas Shah

View full book text
Previous | Next

Page 252
________________ २०२ द्वादशारनयचक्रम् [विधिविध्यरे मन्यतरसत्त्वञ्च स्यात् । तत्र यदि तावदुभयसत्त्वं ततः सत्त्वाविशेषादेवाविशेषे सर्वत्वैकत्वभेदो न स्यात् । एवन्तु कार्यैकत्ववत् कारणैकत्वमपि स्यात् । अथ न कार्यैकत्ववत् कारणैकत्वं सच्च कार्यमिति निश्चितं तद्वैलक्षण्यान्न तर्हि सत्कारणं सद्विलक्षणत्वादुदुम्बरपुष्पवत्, इतरो निवृत्तघटवत् । ननु घटसत्त्वं पटसत्त्वविलक्षणम्, न, असतो वैलक्षण्यात् , इतरेतरासत्त्वात् । अथैवमपि वैलक्षण्ये कारणे कार्यसत्त्वनिश्चयो न निवर्त्तते, अनेकात्मकञ्च तत्, न तर्येकात्मकत्वात् कार्य सत् , कारणवदिति प्रथमचक्रकम् । शेषं पूर्ववद्विपर्ययेणेत्यादि यदुक्तं तदपि, अथ न कारणसर्वत्ववत् कार्यसर्वत्वं सच्च कारणमिति निश्चितं तद्वैलक्षण्यान्न तर्हि सत्कार्य सद्विलक्षणत्वादुदुम्बरपुष्पवदितरो घटवत् , ननु घटसत्त्वं पटसत्त्वविलक्षणं, न, असतो वैलक्षण्यादितरेतरासत्त्वात्, एतद् द्वितीयं चक्रकम् । अतः सर्वात्मक10 त्वसतः कारणादन्यत् कार्यमेकात्मकत्वात् कुम्भादिवैकक्षणः । एकात्मकत्वासतश्च कार्यादन्यत् कारणं सर्वात्मकत्वात् क्षणादिव कुम्भ इति । तथाऽनुवृत्तिव्यावृत्त्यादि । एवं तहीत्यादि यावत्तथा, उपसंहारमेवेतर आह-( त्वदुक्तेत्यादि ) त्वदुक्तसाधनप्रपञ्चस्य कार्यसत्त्वेऽपि तुल्यत्वान्मयापि शक्यं वक्तुं कार्यसत्त्वस्य कारणे त्वन्मतस्य निवारणे कृते कार्यासत्त्वं भवितुमर्हति, तत्साधनं श्रूयताम् , यदेतत-(समानकरणमिति) (अत्रापीति) अत्रापि कारणं सत् कार्य 15 सत् , कारणं सत् कार्यमसत् , कारणमसत् कार्य सत् , कारणमसत् कार्यमसदिति चतुर्पु विकल्पेषु द्वयोः पूर्ववत् प्रतिपक्षवादापत्तेः त्यागादुभयसत्त्वमन्यतरसत्त्वञ्च स्यात् , तत्रोभयसत्त्वे तावत्तद्यदि तावदुभयसत्त्वम् , (न स्यादिति ) मृदेव सर्व पिण्डशिवकादि घटपिठरकपालादि कार्य त्वेकमेव, पिण्ड इति वा शिबक इति वाऽनन्यत्-एकम् । (अनेकात्मकश्च तदिति ) सर्वात्मकमित्यर्थः। (कार्य सदिति) सत्त्वे वैकात्मकं न भवेत् सत्त्वात् कारणवत् । एतत् प्रथम चक्रकम् । तथाऽनुवृत्तिव्यावृत्ती, अनुवृत्तिः 20 मृन्मृदिति पिण्डशिबकादिषु, व्यावृत्तिः-घटः पिठर इति, तद्यदि तावदुभयसत्त्वं सत्त्वाविशेषादेवावि शेषे कार्यव्यावृत्तिवत् कारणव्यावृत्तिरपि स्यात्सत्त्वाद् घटवत्, अथ न कार्यव्यावृत्तिवत् कारणव्यावृत्तिः सञ्च कार्यमिति निश्चितम् , तद्वैलक्षण्यान्न तर्हि सत्कारणम् , सद्विलक्षणत्वादुदुम्बरपुष्पवत्, इतरो निर्वृत्तघटवत् , ननु घटसत्त्वं पटसत्त्वविलक्षणं न, असतो वैलक्षण्यात् , अथैवमपि वैलक्षण्ये यितुमाह-स्वदुक्तसाधनेति । मत्पक्षे त्वयोद्भावितस्य साधनप्रपञ्चस्य त्वत्पक्षेऽपि समानत्वात्तेन त्वन्मते निराकृतेऽर्थतो 25 मदिष्टं कार्यासत्त्वं सेत्स्यतीत्यर्थः । द्वयोरिति, कारणं सत् कार्यमसत् , कारणमसत् कार्यमसदिति विकल्पयोरभ्युपगमे सत्कार्यवादप्रतिपक्षवादाभ्युपगमप्रसङ्गतो वादाभाव एव स्यादिति तत्त्यागादपरविकल्पद्वयमेवाश्रयणीयमिति भावः । उभयसत्त्वमिति, कार्यकारणयोः सत्त्वमित्यर्थः, एवञ्च तयोः सत्त्वाविशेषादेव कारणं सर्वात्मकं कार्यन्त्वेकरूपमेवेति विशेषो न स्यादतःकारणस्याप्येकत्वं प्रसज्येतेति भावः । तथापि वैलक्षण्यात् कारणस्यैकत्वानङ्गीकारे कारणं न सत्, सद्विलक्षणत्वादुदुम्बरपुष्पवत् इतरो निर्वृत्तघटवदित्यनुमानेनासत्त्वापत्तिरित्याह मूले-अथ नेति । हेतोरनैकान्तिकतामादर्शयति नन्विति. खखात्मना घटपटयोः सद्रूपत्वान्पादिना परस्सर विलक्षणत्वाच सद्विलक्षणत्वेऽपि नासत्त्वमिति व्यभिचार इति भावः । समाधत्ते-असतो वैलक्षण्यादिति घटपटादीनां परस्परं भिन्नत्वादेव वैलक्षण्यसम्भवादिदं वेलक्षण्यमसत एव, न तु सतः, "सत्वेन सर्वेषामविशेषेणावलक्षण्यादिति न घटादौ सतो वैलक्षण्यमतो नानैकान्तिकत्वमिति भावः । अथ कारणका र्ययोः सर्वत्वैकत्वलक्षणवैलक्षण्यसद्भावेऽपि कारणकार्ययोः कार्यमेकात्मकमेवेति निश्चयो न निवर्तते सद्वैलक्षण्येऽपि तर्हि 'कार्य न सतू एकात्मकत्वात, सत्वे वा नैकात्मकं भवेत, सत्वादेव कारणवदित्लाह-मथैवमपीति । तथा च कारणवत् Jain Education International 2010_04 For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354