Book Title: Dvadasharnaychakram Part 1
Author(s): Mallavadi Kshamashraman, Labdhisuri
Publisher: Chandulal Jamnadas Shah

View full book text
Previous | Next

Page 207
________________ वेदवाक्याप्रामाण्यम् ] न्यायागमानुसारिणीव्याख्यासमेतम् १५७ एव ते पुरुषत्वादविद्यायोगाच्च, दश दाडिमादिश्लोकवादिवत् । अविद्यायोगं दर्शयति यथज्ञानादिति । रागादियोगश्च दर्शयति-यदि द्वेषादेः । इतर आह- विफलोऽयं प्रयासस्ते, अनभ्युपगमात्, अथवा को वाऽऽह ज्ञवचनमेतदिति ज्ञस्य प्रमाणभूतस्याभावाच्छब्दस्यैव च निर्दोषत्वादिति तन्न, यदि संशयादियोगान्न ज्ञः प्रमाणं 6 तहदमज्ञोकत्वादुन्मत्तवाक्यवदिति क्रियोपदेशसाफल्यवादः क्व गच्छतीति चिन्त्यताम् । ( विफल इति ) विफलोऽयं प्रयासः अनिष्टापादनं तेऽनभ्युपगमात्, को वाऽऽह ज्ञवचनमेतदिति, ननु प्रागुक्तं संशय विपर्ययानध्यवसायसम्पृक्तत्वान्निर्णयस्याप्यज्ञानत्वमेवेति । अथवा को वाऽऽह ज्ञवचनमेतदिति, ज्ञस्य पुरुषस्य सर्वत्र प्रमाणभूतस्याभावात् किं तर्हि ? शब्दस्यैव च निर्दोषत्वादिति । अत्राचार्य आह- यदि संशयादियोगान्न ज्ञः प्रमाणं तर्हदमज्ञोक्तत्वादुन्मत्तवाक्यवदिति 10 क्रियोपदेशसाफल्यवादः क्व गच्छतीति चिन्त्यताम् । एवं तावदबुद्धिपूर्वकमकारादिवर्णानुपूर्व्या शब्दोचारणं चेतनोदीरितं काकभाषितं पुरुषभाषितं वा तुल्यम् । अथाऽऽचक्षीथाः काष्ठशब्दवत्सर्वमचेतनं तथाप्यचेतनत्वात् कुतोऽस्य प्रामाण्यमाकाशवत् कुतोऽस्य वचनम् ? यच्छन्द आह तन्नः प्रमाणमितीष्टं भवताम्, अज्ञोदीरितत्वादेव च वचनत्वमस्य नास्ति, वाच्यार्थप्रतिपादनाभिसन्धिपूर्वकं हि तत् । काष्ठशब्दवदित्थं न घटते 15 वेदवाक्यप्रामाण्यम् । (अथेति) (काष्ठशब्दवदिति ) काष्ठपाषाणादिसंघट्टजनिताचेतनशब्दवत्, (आकाशवदिति ) एवञ्च कृत्वाऽचेतनत्वात् कुतोऽस्य वचनम् । ( भवतामिति) भाषणं वचनमुक्तिः शब्दोच्चारणं भावसाधनत्वाद्वचनशब्दस्य, अचेतनत्वाद्वकृत्वमस्य नास्तीत्यर्थः । कथं ? अज्ञोदीरितत्वादेव च वचनत्वमस्य यद्यज्ञानादिति, अत्र मूलं न सम्यग्विदितं गमकाभावादतो नोद्धृतम् । अग्निहोत्रादिवचने दोषापादनार्थं तव प्रयासो व्यर्थ 20 एव बुद्धिपूर्वकं वचनमिदमित्यनभ्युपगमात् प्रमाणभूतपुरुषाभावादित्याशङ्कते - विफलोऽयमिति । सर्वमिदमज्ञानप्रतिबद्धं जगत् नास्ति कश्चिज्ज्ञानाज्ञानयोर्विशेषः सर्वेषां संशय विपर्ययानध्यवसायनिर्णयानामवबोधार्थत्वेनाविशिष्टत्वादित्याह-ननु प्रागुक्तमिति, विध्यरे प्रान्तभागे उक्तमित्यर्थः । प्रकारान्तरेण व्याचष्टे प्रकरणानुरोधात् - अथवेति, अग्निहोत्रादिवचन न ज्ञातुः सर्वत्र प्रमाणभूतपुरुषाभावात् सर्वेषां दोषवत्त्वात् किन्तु नित्यत्वेन निर्दोषत्वाच्छब्द एव खतः प्रमाणमिति पूर्वपक्षाभिप्रायः । ननु यद्यग्निहोत्रादिवाक्यं न ज्ञस्य वचनं तर्ह्यज्ञोक्तं स्यात् तथा चोन्मत्तवाक्यवद्यादृच्छिकत्वात् क्रियाया एवोप- 26 देशः श्रेयान् शक्यप्राप्तेः सफलत्वाच्चेत्यभ्युपगमो भज्येतेत्याह-यदि संशयादीति । वर्णानुपूर्व्याऽबुद्धिपूर्वकं चेतनेनोचरितं शब्दोच्चारणमविशेषेण काकादिभाषितवत्स्यात् न यस्ति काको कपुरुषोक्तयोः शब्दोच्चारणयोर्विशेषः कश्चिदित्याह - एवं तावदिति । ननु काष्ठादिजन्यशब्दवत् सर्वमपि शब्दजालमचेतनं न तु चेतनोश्चरितमतो नोक्तदोष इत्याशङ्कते - अथाचक्षीथा इति । एवं तर्हि वेदवचनस्याकाशादिवदचेतनत्वादेव प्रामाण्यं शब्दस्य च वचनत्वं न स्यात्, इष्टञ्च भवतां प्रामाण्यं शब्दस्य वक्तृत्वश्च यच्छन्द आह तन्नः प्रमाणमित्युक्त्या शब्दस्य प्रमाणत्व वक्तृत्वयोरङ्गीकृतत्वादित्युत्तरयति - तथापीति 30 उच्यत इति वचनमिति कर्मणि ल्युटि सति वचनं शब्दपर्यायः स्यात् तथा चास्य वचनमित्य सङ्गतार्थ कम्, इदं शब्देनापि शब्दस्य विवक्षितत्वात्, अतो भावसाधनत्वमाह-भाषणमित्यादिना । शब्दोऽयममुमर्थं बोधयत्वित्यभिसन्धिपूर्वकं हि भाषणं भवति तदभावे तु भाषणमेव न स्यात् केवलं काष्टादिजनितशब्दवदेव स्यात्ततश्च वेदवाक्यं न प्रमाणं भवेदित्याह -- Jain Education International 2010_04 For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354