Book Title: Dvadasharnaychakram Part 1
Author(s): Mallavadi Kshamashraman, Labdhisuri
Publisher: Chandulal Jamnadas Shah

View full book text
Previous | Next

Page 230
________________ द्वादशारनयचक्रम् [विधिविध्यरे कथं न प्रसिद्धम्, अग्निहोत्रं जुहुयादित्यत्र हवनस्योक्तत्वादिहानुवदनं ननूपपन्नमिति चेन्न, तस्यैव सर्वप्रयोगपरीक्षायामर्थाभावात् । तत्र तावद्धवनापूर्वकरणार्थतायां प्रधानाग्निहोत्रश्रुतित्यागाद्यापत्तिा, अर्थाभावादित्ययमभिसम्बद्ध्यते, क्रमोल्लंघनेन विकल्पद्वयोपन्यासः तुल्योत्तरत्वात् , हवनं कुर्यात् , अमिहोत्राख्यमपूर्वं कुर्यादित्येतयोरर्थविकल्पयोः प्रधानस्याग्निहोत्रशब्दस्य तदर्थस्य च त्याग आपद्यते, 5 घृतेन जुहुयादित्यादिष्वनुवादसफलीकरणार्थमग्निहोत्रं जुहुयादित्यत्र जुहुयाच्छब्दस्य स्वप्रकृत्यर्थस्य सार्थकत्वेऽग्निहोत्रशब्दः पौनरुत्त्यान्निरर्थक आपद्यते । अथ प्रधानत्वादग्निहोत्रस्य मा भूदग्निहोत्रशब्दो निरर्थक इति सार्थकतोच्यते ततो जुहुयाच्छब्दनैरर्थक्यात् प्रयोगो नोपपद्यते, विहितार्थाभावेऽनुवादत्वाभावात , प्रधानत्वश्चास्याग्निहोत्रस्य साक्षात् स्वर्गादिकाम्यपुरुषार्थसाधनत्वेन विधानाजुहोतिप्राधान्ये च तदनुपपत्तिः । अत्र च न तु घटवदग्निहोत्रशब्दः काश्चिदपि कर्त्तव्यतां ब्रवीतीत्यादि सर्वो ग्रन्थः पूर्वो10 त्तरपक्षप्रसङ्गतो योज्यो यावन्नापि घटादिकर्त्तव्यतायामिव काचित्क्रिया प्रसिद्धा ययाऽग्निहोत्राख्यता हवनस्यातिदिश्येत हवनाख्यता वाऽग्निहोत्रस्येति हवनं कुर्यादित्ययमुक्तोत्तरार्थविकल्पः । अपूर्वार्थपक्षेऽप्यमिहोत्रशब्दस्य जुहुयाच्छब्दस्यैकार्थत्वात् प्रधानापूर्ववाच्याग्निहोत्रशब्दस्य त्यागस्तथैव, विशेषतस्तु अथाग्निहोत्रमित्यस्यापूर्वविशेषाभिधानार्थतैव कल्प्यते तथासत्यपूर्वाभिधानेन कोऽर्थ इत्यादि याव तदनुष्ठातव्यमिति ग्रन्थश्च योज्यः । आदिग्रहणात् पुरुषप्रमाणकताशब्दप्रामाण्यत्याग इत्यादिदोषः, ततः 15 प्रधानानिहोत्रश्रुतित्यागाद्यापत्तिरर्थाभावात् , केदमभिहितमित्यादि । . अग्निहोत्रोभयकरणार्थतयोरपि विकल्पयोस्तुल्योत्तरत्वात् । (अग्निहोत्रेति) अग्निहोत्रोभयकरणार्थतयोरपि जुहोतित्यागाद्यापत्तेरग्निहोत्रं कुर्यादग्निहोत्रहवनं कुर्यादित्येतयोरपि विकल्पयोस्तुल्योत्तरत्वादिति, उभयार्थविकल्पस्याग्निहोत्रं कुर्याद्धवनं कुर्यादित्येतयोः पक्षयोरक्तदोषदुष्टत्वात् समानोत्तरत्वादिति । अत्रापि अथ पुनरेवं न निर्वहतीत्यादिग्रंथो योज्या 10 कथं न प्रसिद्धमिति । अग्निहोत्रं जुहुयादित्यत्र सर्वप्रयोगपरीक्षायां क्रियमाणायां न कश्चिदर्थः सिद्धयतीति न तत्र हवनविधानं सम्भवतीत्युत्तरयति-तस्यैवेति, अग्निहोत्रं जुहयादिति वाक्यसम्बन्धिन एवेत्यर्थः ।धृतेन जुहयादित्यत्र हवनस्यानुवादत्वसम्पतयेऽग्निहोत्रवाक्ये हवनं कुर्यादिति हबनविधानाङ्गीकारेऽग्निहोत्रशब्दो व्यर्थः स्यादर्थाभावात् , अग्निहोत्रशब्दप्रतिपाद्यार्थस्य विधिप्रत्ययप्रकृतिभूतेन जुहोतिनैवोक्तत्वादन्यथा पुनरुक्तत्वापत्तरित्याह-हवनं कुर्यादिति, अत्राग्निहोत्रशब्दत्यागः, अग्निहोत्राख्यम पूर्व कुर्यादित्यत्रामिहोत्रशब्दार्थत्यागः, अपूर्वार्थताङ्गीकरणात्, अत्राग्निहोत्रशब्दनिरर्थकताच हवनेनैवापूर्वविशेषस्याभिव्यङ्ग्यत्वात् 9 जुहुयात् खर्गकाम इत्येतावता वाक्येनैव गतार्थत्वादिति । मीमांसका अपूर्वविधौ धात्वर्थस्य विधौ करणत्वेनाङ्गीकारादग्निहोत्रेण होमेन भावयेदित्यग्निहोत्रनामकहवनसामान्य विधानमनीकुर्वन्त्यन्यथा सामान्य विध्यभावे विशेषविधीनामसम्भवादिति बोध्यम् । नन्वग्निहोत्रशब्दः प्रधानं पुरुषप्रवृत्त्युद्देश्यखर्गसाधनीभूतार्थाभिधायकत्वादतो न निरर्थक इत्याशङ्कते-अथ प्रधानत्वादिति। अनुवादार्थ जुहुयाच्छब्द इत्यत्राह-विहितार्थेति । विधीयमानार्थाभावेऽनुवादत्वासम्भवादित्यर्थः, तथा च जुहुयाच्छब्दो व्यर्थः स्यादिति भावः। अपूर्वार्थपक्षेऽपीति, यः खर्ग कामयते स जुहुयात् इत्युक्तावेवापूर्व जुहुयात् खर्गकाम इति लब्धत्वान्न प्रयोजनं किंचिदग्निहोत्रशब्देनेति त्याग एवाग्निहोत्रशब्दस्य प्राप्तस्तदतिरिक्तज्ञानाजनकत्वात् , अपूर्ववाचकत्वेऽपि तस्य नापूर्वस्य निरूपणं हवनेन कत्तुं शक्यमप्रत्यक्षत्वादिति भावः । पूर्वोक्तग्रन्थार्थमत्राप्यतिदिशति-अथाग्निहोत्रमित्यादिना । अथाग्निहोत्रं कुर्यादग्निहोत्रहवनं कुर्यादिति विकल्पद्वयाश्रयेणाह-अग्निहोत्रोभयेति । जुहुयाच्छब्दः कुर्यादर्थे वर्तते हुधात्वर्थस्यामिहोत्रशब्दत एव लाभादतोऽग्निहोत्रं जुहुयादित्यनेनाग्निहोत्रं कुर्यादिति विवक्षित इति विकल्पोऽपि जुहोत्यर्थत्यागात् जुहुया Jain Education International 2010_04 For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354