Book Title: Dvadasharnaychakram Part 1
Author(s): Mallavadi Kshamashraman, Labdhisuri
Publisher: Chandulal Jamnadas Shah

View full book text
Previous | Next

Page 241
________________ असद्रिकल्पासङ्गतत्वम् ]. न्यायागमानुसारिणीव्याख्यासमेतम् चेत् ? अप्रमाणनियमागमोऽनुपदेशकश्च वेदः, अचेतनत्वादाकाशवत् , यथाऽऽकाशमचेतनत्वादप्रमाणम् , कूटस्थनित्यत्वाच्च न ज्ञानवद्वचनमेवं वेदोऽपीति प्रामाण्योपदेशाभावः। यदपि च प्रसह्य परमाक्रम्य कारणेषु घृतादिष्वेवंविधेषु स्वर्गादिफलस्य खपुष्पवदसत्त्वमुच्यते तदपि चान्याय्यमेव यदेतदसत्त्वं नाम त्वया कचिन्मन्यते, न्यायेन बाध्यत्वात्, ततोऽन्यत् कार्यम्, तदसमर्थविकल्पत्वात्, घटपटवत् । यद्यपि च प्रसोत्यादि, प्रसह्य-बलात्कारेण परं कश्चित् पुरुषमवगणयता एकवीरंमन्येनाऽऽक्रम्य परिभूयास्मन्मतं, यदपि चाग्निहोत्रं जुहुयादित्यत्र कारणेषु घृतादिष्वितिकर्तव्यतासु स्वर्गादिफलस्य खपुष्पवदसत्त्वमुच्यते, एवं विधेष्विति, सर्वेतिकर्तव्यतानामादिमध्यावसानेषु, तत्पुनरसत्त्वमेकान्तेन, न कथञ्चित् कार्यादिसत्त्वमपीत्येतत्पक्षनिरपेक्षं, सर्वथा नास्त्येवेति त्वयेष्टं तदपि चान्याय्यमेव, यतो यदेतदसत्त्वं नाम त्वया कचिन्मन्यते, नामेति मिथ्याकल्पितनाममात्रमेव तत् , 10 यत्त्वया कचित्सत्त्वनिरपेक्षमसदिति चिन्त्यते, कथं पुनरन्याय्यं तदसत्त्वमिति चेदुच्यते-न्यायेन बाध्यत्वात् , कतमो न्याय इति चेदेवं तर्हि ब्रूमः-ततोऽन्यत्कार्य-असतोऽन्यदित्यर्थः, कुतः ? तदसमर्थविकल्पत्वात् , असङ्गतार्थोऽसमर्थोऽसम्बद्धो विकल्पतः, तेन-असता सहासम्बद्धो विकल्पोऽस्येति तदसमर्थविकल्पं कार्यं तस्य कार्यस्यासमर्थविकल्पत्वात् ततोऽन्यत्वम्, किमिव ? घटपटवत्, यथा घटविकल्पाः पृथुबुनार्धग्रीवादयो मृदुचतुरस्रादिभिः पटविकल्पैरसङ्गताः पटविकल्पाश्च तैरित्यसङ्गतौ 15 घटपटौ परस्परतः, एवमसद्विकल्पैरसङ्गतं कार्य तस्मात्ततोऽन्यदिति । स्यान्मतम् असद्विकल्पासङ्गतत्वं कार्यस्यासिद्धम् , तन्न, प्रसिद्धमेव हि विकल्पासामर्थ्यमसत्कार्ययोरसतः कार्यस्य च, असत्कार्ययोर्विकल्पाश्चत्वारः खपुष्पमसत्कार्यमप्यसत्, खपुष्पं सत् कार्यमसत् , खपुष्पमसत् कार्य सत्, खपुष्पं सत् कार्यमपि सदित्येतेषु कार्यखपुष्पयोरुभयोर- 20 सत्त्वं कार्यासत्त्वमेवेत्येतद्विकल्पद्वयं स्यात् , उभयसत्त्वकार्यसत्त्वयोः प्रतिपक्षाभ्युपगम एव सत्कार्यवाद इति वादाभावात्। ततश्च तयोर्यदि तावदुभयासत्त्वं ततोऽसत्त्वाविशेषादेव कार्याविर्भाववत् खपुष्पाविर्भावोऽप्यायत्यां स्यात् , असत्कार्यवत् , न चैतदृष्टमिष्टं वा । इत्याशयेनाह-कूटस्थेति। अथेतिकर्तव्यतात्मसु कारणेषु धृतादिषु कार्यस्य स्वर्गादेरेकान्तेनासत्त्वं यत्त्वयाऽभ्युपगम्यते सोऽप्यभ्युपगमो न्यायविरुद्ध इत्याह-यदपि चेति । त्वयाङ्गीक्रियमाणमसत्त्वमप्यप्रसिद्धं न्यायबहिर्भूतत्वात् सत्त्वासमानाधिकरणा- 25 सत्त्वासिद्धरित्याह-यदेतदसत्त्वमिति । न्यायबाध्यत्वमाविष्करोति-एवं तर्हि इति। असतोऽन्यत् कार्यम् तद. समर्थविकल्पत्वात् , घटपटवदिति प्रयोगः, असत्सम्बन्धिभिर्वक्ष्यमाणविकल्पैरसम्बद्धत्वादिति हेत्वर्थः । दृष्टान्तं सङ्गमयतियथेति । हेत्वसिद्धिमाशय निराकरोति-असद्विकल्पेति असत्सम्बन्धिभिर्विकल्पैरसङ्गतत्वं तस्य कार्ये वाऽसिद्धत्वमिति शङ्कित्वा तस्य सिद्धत्वमेवाङ्गीकुर्वित्याह-प्रसिद्ध मेवेति । अयं भावः असत्कार्यमसत् खपुष्पमित्येको विकल्पः, सत् खपुष्पमसत्कार्यमिति द्वितीयः, असत् खपुष्पं सत्कार्यमिति तृतीयः, सत् खपुष्पं सत्कार्यमिति चतुर्थः, तत्र कार्यस्य सद्विषयावुभौ विकल्पो so सत्कार्यवाद एव सम्भवेताम् , कार्यस्यासद्विषयावुभौ तु सत्कार्यप्रतिपक्षभूतौ असत्कार्यवाद एव सम्भवेताम् तौ च विकल्पावसङ्गतायौँ, असत्कार्यवादप्रतिपक्षभूतविकल्पद्वयाश्रयणे च सत्कार्यवादाभ्युपगमप्रसङ्गेन वादस्य पर्यवसानमेव भवेत, अतो नासिद्धत्वं _Jain Education International 2010_04 For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354