Book Title: Dvadasharnaychakram Part 1
Author(s): Mallavadi Kshamashraman, Labdhisuri
Publisher: Chandulal Jamnadas Shah

View full book text
Previous | Next

Page 223
________________ व्यायातदोषः] न्यायागमानुसारिणीव्याल्यासमेतम् इतिकर्तव्यताकर्तव्यताभ्युपगमास्वित्यादि, इतिशब्दस्य प्रकारार्थवाचित्वादिस्थमिस्थश्च कर्तव्यं घृतेन जुहुयात् पयसा जुहुयादित्यादि कर्त्तव्यताप्रकारा इतिकर्तव्यताः कारणभूताः, सैव कर्तव्यता, ता एव प्रोक्षणादिक्रिया अमिहोत्रमित्यभ्युपगमात् । पूर्वोत्तरावस्थानुबन्धात् विच्छिन्नपूर्वोसरावस्खस्य कस्यचिदभावात् कारणमेव कार्यम्, सर्पस्फटाटोपमुकुलप्रसारणकुण्डलीकरणवत्, यज्ञोपवीससूत्रतन्तुपटत्ववद्वा, सूत्रमेव यथायज्ञोपवीताख्यां लभते तथा समवस्थानात्तथा वन्तव एव पटस्तद्वत् । संस्थानमात्रभिन्नस्य कारणस्यैव कार्यत्वमित्ययमभ्युपगम आपद्यते इतिशब्दो हेत्वर्थे, एतस्मात् संस्थानमात्रभित्रकारणकार्यत्वाभ्युपगमापत्तेर्हेतोः कार्यस्य त्यागः कुर्यादिति, अयं हि शब्दः कार्यार्थे सत्यर्थवान् भवति नान्यथा, पुनरितिशब्दो हेत्वर्थे, ततश्च कुर्यादर्थत्यागात् स्वशब्दार्थापत्तिविषयविपरीतार्थत्वाद्विवक्षाभेदव्याघातः, अग्निहोत्रं जुहुयादित्यनेन स्वशब्देनैवासत्कार्यवादोऽभ्युपगतस्तदनुबन्धादेतिकर्तव्यदैव कर्तव्यतेत्यर्थापत्त्या कारणात्मककार्यवादोऽभ्युपगतः, तयोरन्योऽन्यविपरीतार्थत्वात्-विरुद्धत्वाद्विव- 10 क्षाभेदो व्याघातश्च । विवक्षाभेदस्तावदसत्कार्यवाचिनः शब्दस्य कारणात्मककार्याभिधानाभ्युपगमात्, कारणात्मककार्यवाचिनश्चासत्कार्याभिधानाभ्युपगमात् , अत एव च परस्परतो विरोधाव्याघातोऽनयोरर्थयोः, अर्थद्वयस्य स्वशब्दार्थापत्तिविषयस्याभ्युपगमाद्विवक्षाभेदोऽयं पुरुषबुद्धिवशादप्रामाण्यमपौरुषेयत्वं व्याइन्तीति विवक्षाभेदव्याघातः, स च त्वया तत्त्वानपेक्षणदोषान्नेक्ष्यते । वस्तुतत्त्वविचारप्रवेषिणो वा कार्यकारणखरूपानपेक्षिणोऽपि बलादयं कारणकार्यतत्त्ववाद आपद्यतेऽनेकान्तरूपो वस्तुनस्तादा-15 म्यादनपेक्षमाणोऽपि स्वमतव्याघातीति । एवं कारणात्मकत्वेऽभ्युपगतेऽपि यदीतिकर्तव्यता जनयतीतीष्यते ततो न सा कर्त्तव्यता काचिदस्तीति सातजन्या न भवति, जनकत्वात् कारणत्वात् पूर्वत्वाद्विधायकत्वान्मातृवचनवत् । पूर्वोत्तरभावेन नियतक्रमवतामितिकर्तव्यतानामेवामिहोत्रकर्तव्यतात्वान्निरन्वयविनाशिपूर्वोत्तरावस्थस्य कस्यचिद्वस्तुनोऽभावात् 20 कारणभूतं वस्त्वेव सर्पस्फटाटोपादिवत् प्रवर्तत इति भावः । ता एवेति, कारणभूताः पूर्वोत्तरभावमापन्नाः घृतहवनपयोहवनप्रोक्षणादयोऽग्निहोत्रमित्युच्यन्त इति भावः। संस्थानमात्रेति विलक्षणावयवविन्यासविशिष्टकारणस्यैव कार्यत्वाभ्युपगमेन कार्य त्यकमेवेति भावः । अयमभ्युपगमो विचारात् सम्प्राप्तो न मीमांसकसिद्धान्तः, तैरितिकर्तव्यतानां कर्त्तव्यतानगीकारात्, प्रधानविध्यभिहितभावनायाः कथंभावाकांक्षायां नियतायां यत्सन्निधौ पठितमभूयमाणफलकश्च क्रियाजातं तदेवोपकार्याकांक्षयेतिकर्तव्यतात्वेनान्वयमनुभवतीति स्वीकारादिति ध्येयम् । अयं हि शब्द इति, कुर्यादिति शब्दः कार्यरूपे द्रव्ये 25 सत्येव सम्भवति कारणस्यैव च तथा तथा भावात् कार्याभावेन कुर्यात् पदार्थस्त्यक्त एवेति भावः । असत्कार्यवाद इति, कुर्याजुहुयादित्यादिवचनादितिकर्तव्यताभिर्हवनक्रियायाः कार्यत्वेन परिगृहीतत्वादसत्कार्यवादोऽभ्युपगत इति भावः । कारणा त्मककार्यवाद इति, परस्पराकांक्षधृतहवनपयोहवनादीतिकर्तव्यता एव कर्तव्यतेत्यभ्युपगमेन कारणात्मककार्यवादोऽभ्युपगत इति भावः । एवमभ्युपगमयोर्दोषमादर्शयति-तयोरिति । स्वशब्देति, जुहुयात् कुर्याच्छब्देनासत्कार्यवादस्य इतिकर्तव्यतैव कर्त्तव्यतेत्त्युक्त्याऽर्थापत्त्या कारणात्मककार्यवादस्य प्राप्तेः खीयबुद्धिबलसम्पन्नोऽयं विवक्षामेदो वेदस्य प्रामा- 30 ण्यवादमपौरुषेयत्ववादश्च व्याहन्तीति न पश्यसि, वस्तुतत्त्वविचारणस्योपेक्षणात्, तत्र वा द्वेषात् , तथापि त्वां बलादयं वादः प्रामोत्येवेति भावः । अथ कार्यस्य कारणात्मकत्वे दोषमाह-एवमिति । यत्कारणं न तज्जायते कारणत्वात् पूर्वत्वात् विधायकत्वात् मातृवद्वचनवद्वा, न हि यदेव कारणं तदेव कार्यम् , एकस्यैव कार्यत्वकारणत्वयोरसम्भवात्, न वा यदेव पूर्वमेवास्ति कारकव्यापारात् तदेव पश्चाद्भवति, नापि यदेव विधायकं तदेव विधेयमसम्भवादेवेति भावः । Jain Education International 2010_04 For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354