Book Title: Dvadasharnaychakram Part 1
Author(s): Mallavadi Kshamashraman, Labdhisuri
Publisher: Chandulal Jamnadas Shah

View full book text
Previous | Next

Page 177
________________ सांख्यमते दोषाः] न्यायागमानुसारिणीव्याख्यासमेतम् १२७ . सम्भाव्यमानेऽपि च तस्मिन्नव्यक्तेऽतीन्द्रियत्वादालम्बनत्वानुपपत्तेश्चक्षुरादिविज्ञानानां रूपादिसंघात आलम्बनमिति तेषां प्रत्येकं परमार्थसत्त्वाभावान्न विषयता, तस्माद्योनिबीजप्रकृतिबहुधानक प्रधानाव्यक्तादिपर्यायाख्यं यद्वस्तु तदतीन्द्रियत्वादप्रत्यक्षम् , यदिन्द्रियविषयं रूपादि न तत्परमार्थसदित्याद्यशेषं विशेषकान्तवादिमते यथाभागं तद्विपर्ययेणात्र यद्यत्र घटते तत्तथाऽनुसृत्य योज्यं भेदाभेदसंवृतिपरमार्थस्थानव्यवस्थापनया । _(सम्भाव्यमानेऽपीति) सम्भाव्यमानेऽपि च तस्मिन्नव्यक्ते तस्याव्यक्तस्यातीन्द्रियत्वा. दालम्बनत्वानुपपत्तेश्चक्षुरादिविज्ञानानां रूपादिसंघात आलम्बनमिति प्राप्तम् , ते च रूपादयः प्रत्येक परमार्थतोऽसन्तः। इतिशब्दो हेत्वर्थे, इत्यतःकारणाद्रूपसङ्घातालम्बनत्वात्तेषां प्रत्येकं परमार्थसत्त्वाभावान विषयता, रूपादयो न चक्षुरादिविषयाः परमार्थतोऽसत्त्वाद्वन्ध्यासुतवत्, रूपादिविषयं वा . न प्रत्यक्षं परमार्थतोऽसद्विषयत्वाद्वन्ध्यासुतज्ञानवत् । तस्माद्योनिबीजप्रकृतिबहुधानकप्रधानाव्यक्तादि- 10 पर्यायाख्यं यवस्तु तदतीन्द्रियत्वादप्रत्यक्षम् , यदिन्द्रियविषयं तत्परिणामभेदे सङ्घाते रूपादि न तत् परमार्थसदित्याद्यशेषं विशेषैकान्तवादिमते यथाभाग-यो यो भागो यथाभागं तद्विपर्ययेणाविशेषैकान्तवादेऽत्र यद्यत्र घटते तत्तथानुसृत्य योज्यमित्यतीतं ग्रन्थार्थ स्मारयति । तद्योजनोपायदिङमात्रप्रदर्शनार्थमप्याह-भेदाभेदसंवृतिपरमार्थस्थानव्यवस्थापनयेति, ये तत्र भेदरूपाः परमाणवः परमार्थसन्ततेऽत्र संवृतिसंतः सर्वसर्वात्मकपरमार्थवादे, यस्तत्राभेदः परमाणुसमुदायः संवृतिसन् सोऽत्र परमार्थ- 15 सन्नित्यनया व्यवस्थापनया योज्यम् । पुनरुत्तरोऽपि ग्रन्थो योज्यस्तद्यथा-सर्वसर्वात्मकैकरूपान्तराविविक्तखतत्त्वे रूपादिसत्त्वादिसंघात इन्द्रियसन्निकृष्ट आलम्बनविपरीतैकरूपेयं प्रतिपत्तिः, व्यपदेश्यानेकात्मकनीलरूपविषया न च हेत्वपदेशव्यपदेश्यैषा यतः सर्वात्मकग्रहणापदेशेन धूमेनैवाग्निसामान्यवद्गृह्यते नानिर्देश्यरूपम् , किं कारणं ? ततोऽन्यत् कल्पितमेकं रूपम् । ननु सर्वस्य कारकहेतुत्वेनापदेशः प्रत्यक्षप्रतिपत्तेर्न धूमवत् , ज्ञापकहेत्वपदेशतयाऽग्नेरिवार्थान्तरस्यानेकरूपत्वस्य । नन्विद- 20 मस्यैवार्थस्य प्रदर्शनार्थ प्रस्तुतमस्माभिर्यदिदं प्रत्यक्षं स्यात् कारकादेव, स्वार्थादालम्बनाद्धेतोर्जायेत, दाहानुभववत् प्रत्यक्षत्वादव्यवहितप्रतिपत्त्यात्मकत्वात् प्रत्यक्षस्य स्खलक्षणविषयत्वादनध्यारोपात्मकसाम्यावस्थानत्वेन सम्भाव्यमानत्वेऽपि रूपादेरव्यक्तत्वादतीन्द्रियत्वादनालम्बनत्वमिति रूपादिसंघातस्यैवाऽऽलम्बनता वाच्या तत्र च प्रत्येकं रूपादेः संवृतिसत्त्वेनाभावादविषयत्वमिति भावः । कथं योज्यमित्यत्राह-मेदामेदेति, तत्र-विशेषैकान्तवादे, अत्र-अविशेषैकान्तवादे । उत्तरोऽपि ग्रन्थ:-अग्रिमग्रन्थ इत्यर्थः, तत्र प्रतिविविक्तरूपान्तराविविक्तखतत्त्वे इत्युक्तमत्रत्वे. 25 करूपाविविक्तखतत्त्वे इति बोध्यम्, तत्र प्रतिविविक्तरूपान्तराविविक्तखतस्वरूपसंघातः संवृतिसन् तत्र या प्रतिपत्तिः साऽऽलम्बनविपरीता भवति, परमाणूनामालम्बनत्वात् , तस्य संघातेऽभावात् सा च प्रतिपत्तिरव्यपदेश्यैकात्मकनीलरूपविषया भवति. अत्र तु वैपरीत्यमिति दर्शयति तद्यथेति । इन्द्रियसनिकृष्ट इति, खविषयाभिमुख्येनोपस्थित इत्यर्थः । व्यपदेश्येति, पूर्वमन्यपदेश्यैकात्मकनीलरूपविषयप्रतिपत्तिरुक्ता, व्यपदेश्यानेकपरमाण्वालम्बनेभ्योऽन्यस्याव्यपदेश्यैकात्मनीलरूपस्य विषयीकरणात् , तथा बौद्धमते ननु हेत्वपदेशव्यपदेश्यैव सा, यतः सञ्चयग्रहणापदेशेन धूमेनामिरिव व्यपदेश्यं तत् ततोऽन्यत् 30 कल्पितमेकं सामान्य व्यवहितमेवार्थान्तराद्यते। ननु च सञ्चयस्य कारकहेतुत्वेनापदेशः । प्रत्यक्षप्रतिपत्तेः न धूमवज्ज्ञापकहेत्वपदेशताऽमेरिवार्थान्तरस्यैकरूपत्वस्य । नन्विदमस्यैवार्थस्य प्रदर्शनार्थ प्रस्तुतमस्माभिः यदिदं प्रत्यक्षं स्यात् कारकादेव, खार्थादालम्बनाद्धेतोऑयेत नतु भवति, वैधम्र्येण दाहानुभवनवत् प्रत्यक्षत्वात् । अव्यवहितप्रतिपत्त्यात्मकत्वात् प्रत्यक्षस्य, तथा तस्य खलक्षणविषयत्वादनध्यारोपत्वाविति यावदित्यायुक्तं, अत्र तु सञ्चयस्थाने सर्वपदमनेकस्थाने एकपदं निवेश्य Jain Education International 2010_04 For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354