Book Title: Dvadasharnaychakram Part 1
Author(s): Mallavadi Kshamashraman, Labdhisuri
Publisher: Chandulal Jamnadas Shah

View full book text
Previous | Next

Page 202
________________ 5 १५२ द्वादशारनयचक्रम् [ विधिविध्यरे च - प्रतिज्ञात्यागप्रतिज्ञान्तराश्रयणदोषः, इतरत्राप्यर्थव्याख्याने - हवनं कुर्यादित्येतस्मिन् भवति, कस्मात् ? स्वप्रत्युपेक्षानुमानेन च तत्त्यागात् कर्त्राद्यर्थनियतप्रतिपत्तिवशेन शब्दार्थस्थापनात्, एवमेव स प्रकृतिश्रत्यय एवमग्निहोत्रशब्दो वा बोध्यत इति शब्दप्रामाण्यत्यागेन स्वमतिप्रामाण्यावलम्बनात् । आह-न शब्दार्थं त्यजाम्युक्तदोषभयात्, किं तर्हि ? ---- एवं तर्हि यथाश्रुत्यग्निहोत्रवद्धवनमपि ग्रहीष्यते, अत्रोच्यते नन्वर्थद्वयविधानमशक्यवाक्येनाग्निसम्प्रदानकस्य कर्मभूतस्य हवनस्य तद्विशिष्टस्य च कर्तृकत्वस्य । ( एव तहींति) यथा वा श्रुतिर्यथाश्रुति यथाऽग्निहोत्रशब्दश्रवणात्तदर्थों गृह्यते तथा हवनमपि जुहुयाच्छन्दश्रवणाग्रहीष्यते ततो न दोषोऽस्तीति, तदेकत्र हवनमभिसम्प्रदानविशिष्टकर्मकारकतयोच्यतेऽन्यत्र स्वविशिष्ट कर्त्तृकतयेति । अत्रोच्यते नन्वर्थद्वयविधानमशक्यमेकेन वाक्येनाग्निसम्प्रदान10 कस्य कर्मभूतस्य हवनस्य तद्विशिष्टस्य च कर्त्तृकत्वस्य, यथा ब्राह्मणसम्प्रदानकहविर्दानवाक्येन शुगवानयनमपि । इतर आह- नैव हवनं विधीयते किन्त्वग्निहोत्रशब्देन विहितं हवनमनूद्यते विध्यनुवादयोर्भिन्नलक्षणत्वात् प्राप्तमनूद्यते वाक्यान्तरेण, अप्राप्तञ्च विधीयत इत्यत्रोच्यते, नानुवादो हवनस्य 16 युज्यते न हि प्राप्तिरस्ति हवनस्याविहितत्वात् । अस्ति प्राप्तिर्हवनस्य, अग्निहोत्रस्य हवनत्वात्, यदग्निहोत्रं हवनमेतदिति, पुनरुक्तं तवम्, एतच्च नानुवाद उन्मत्तवाक्यवत् । नैव हवनं विधीयत इत्यादि, जुहुयाच्छब्देन नैव हवनं विधीयते, किं तर्हि ? अग्निहोत्रशब्देन विहितं हवनमनूद्यते, विध्यनुवादयोर्भिन्नलक्षणत्वात्, किं तयोर्लक्षणमिति चेदुच्यते प्राप्तमनूद्यते वाक्यान्तरेण, यथा पण्डितस्तिष्ठतीति शास्त्रज्ञः पण्डित इति वाक्यान्तरविहितपाण्डित्यस्य स्थानानुबा20 दात्, अप्राप्तञ्च विधीयते, - यद्वाक्यान्तराप्राप्तिमदविज्ञातं प्रमाणान्तरेण तद्विधीयते, यथा स्वर्गकामो जुहुयादिति, अत्रोच्यते यद्येतद्विध्यनुवादयोर्लक्षणं नानुवादो हवनस्य युज्यते, यस्मान्न च प्राप्तिरस्ति हवनस्याविहितत्वात् । इतर आह-अस्ति प्राप्तिर्हषनस्य, अग्निहोत्रस्य हवनत्वात् तस्य तु विहितत्वा यत्वप्रतिज्ञान्तरगमनात् । अन्यत्राप्येवमेव दोषो बोध्य इत्याह-एष चेति । यथा वेति, श्रुतिमनतिक्रम्येत्यर्थः । तदेकत्रेति, अमये होत्रमग्निहोत्रं तदग्निहोत्रमभिसम्प्रदानकं कर्मभूतं हवनमित्यर्थः । अन्यत्र - जुहुयादित्यत्र हवनविशिष्ट कर्तृकरव26 मर्थः, होत्रमित्यत्र त्रल्प्रत्यय कर्तृकत्वार्थकतयाऽर्थद्वय विधानमिति बोध्यम्, तच्च न तस्य संभवति वाक्यस्यैकत्वात् । ब्राह्मणेति ब्राह्मणाय हविर्दद्यादिति वाक्येन । जुहुयादित्यत्र हवनं न विधीयते किन्त्वनूद्यते, अग्निहोत्रशब्देन हवनस्य विहितत्वादिति खयमा शङ्कते - नैव हवनमिति, वाक्यान्तरेण हवनस्याप्राप्तेर्नानुवादः सङ्गच्छत इत्याह- नानुवाद इति । ननूक्तमेव अग्निहोत्रशब्देन हवनं प्राप्तमिति यद्यग्निहोत्रं तदेव हवनमितीत्याशङ्कते - अस्तीति । समाधत्ते - पुनरुक्तमिति, अग्निहोत्र हवनयोरभिन्नार्थतयाऽर्थपौनरुक्त्यं स्यादित्यर्थः । अर्थादापन्नस्य योऽभिधायकः शब्दान्तरेण स्वशब्देन वा तत्पुनरुक्तम्, अनुवादे त्वपुन30 रुक्तं शब्दाभ्यासादर्थ विशेषोपपत्तेः, यथा हेत्वपदेशात् प्रतिज्ञायाः पुनर्वचनं निगमनमित्यादौ । अनुवादलक्षणसमन्वयं दृष्टान्ते करोति - यथेति पण्डितस्तिष्ठतीत्यनुवादवाक्यम् । पाण्डित्यस्य शास्त्रज्ञः पण्डित इति वाक्यान्तरेणावगतेरिति । यत्तु वाक्याश्तरेण न प्राप्तं प्रमाणान्तरेण न विज्ञातं तदेव विधीयत इत्याह- यद्वाक्यान्तरेति । पौनरुक्यमिदं न शब्दतः किन्त्वर्थत एव । Jain Education International 2010_04 For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354