Book Title: Dvadasharnaychakram Part 1
Author(s): Mallavadi Kshamashraman, Labdhisuri
Publisher: Chandulal Jamnadas Shah

View full book text
Previous | Next

Page 169
________________ समुदायासम्भवः ] न्यायागमानुसारिणीव्याख्यासमेतम् कतायाच्चावस्थेयमित्यनेकान्तसाधर्म्य दर्शयति, चशब्दः समुच्चये, किं समुश्चिनोति ? समुदायमुपरितनम् प्रत्येकतायाञ्च समुदाये चावस्थातव्यमिति । ११९ प्रत्येक शक्यतो हि समुदाय इत्युभयथा स्याद्वादिनो यद्वदन्ति तदेव तवाप्यापनम्, साक्षात्तदुक्ततत्त्वत्वात्, अनेकैकत्व भृशगत्यर्थ समुदायपरिग्रहाच्च । (प्रत्येकेति ) अम्यम्भसोश्च तदशक्यशक्ते समुदाये - अमे: शक्यं दहनादि हाइनस्नेहनाद्यश- 6 क्यम्, अम्भसस्तु स्नेहनह्लादनादि शक्यमशक्यं दहनादि, तदशक्ये शक्तस्तदशक्याशक्तः प्रत्येक शक्ये शक्तः समुदायः । वाक्यार्थस्तु लोकव्यापिनोऽपि परमाणवः संघातभेदपरिणामापेक्षा एव चाक्षुषत्वादिभाजो भवन्ति नान्यथेत्युभयथा स्याद्वादिनो जैना यद्वदन्ति तदेव तवाप्यापन्नम्, कुतः ? साक्षातदुक्ततत्त्वत्वात् तथैव साक्षादुक्तं तत्त्वमेतत् परमाणूनां प्रत्येकं चक्षुर्विज्ञानोत्पादने न शक्ताः समुदिताः शक्ता इत्येवं तावत् साक्षादनेकान्ताभ्युपगमः । अर्थापत्त्या वाऽभ्युपगत एव, - अनेकैकत्वभू - 10 शगत्यर्थ समुदाय परिग्रहाच्च, समित्येकी भावे, स चैकी भावोऽनेकस्य, इण् गतौ, अयनं गमनं गतिराय इति पर्यायाः, उत्कृष्ट आय उदायः, संगतो भृशमायः, समुदायशब्दस्य तत्परिग्रहात्, प्रत्येकं ते समुदिता अनेकैकी भूतभृशगतयः कृताः, तस्माच्चानेकान्तवादाभ्युपगमः । किञ्चान्यत्— " इतरथापि वैषां समुदाय एव न स्यात्, प्रत्येकमभूतत्वाद्वन्ध्यापुत्रवत् । (इतरथापीति) न्यायतोऽपीत्यर्थः, एतत्प्रतिज्ञातः समुदाय एव न स्यात्, प्रत्येकमभूतत्वात्, वन्ध्यापुत्रवदित्येष न्यायः, यथा प्रत्येकमभूतानां वन्ध्यापुत्राणां समुदायो नास्ति तथा परमाणूनामिति । नन्वयमन्यायः प्रत्येकमभूतत्वासिद्धेः परमाणूनामिति चेनेत्युच्यते बौद्धैरेवोक्ता त्रयातिरिक्तसंस्कृतक्षणिकानित्यत्वाभ्युपगमेन सहासङ्गतिरस्य, यदुक्तं वः सिद्धान्ते 'बुद्धिबोध्यं त्र्यादन्यत् संस्कृतं क्षणिकञ्च तत्' इति प्रत्येकत्वप्राप्तानन्तरमेव 20 विनष्टत्वात् कः प्रत्येकं समुदायः को वा देशतोऽत्यन्तं रूपादिभेदेन यावदनभिलाप्यतया - वस्थानं भिद्यमानानां प्रत्येकं भावः ? । (बौद्धैरेवेति) आकाशप्रति संख्याऽप्रतिसंख्या निरोधाख्यत्रयादन्यत् प्रत्ययजनितत्वात् संस्कृतं संस्कृतत्वाच्च क्षणिकानित्यम्, क्षणोऽस्यास्तीति क्षणिकं क्षणमात्रमेवास्य कालो न परत इति क्षणिकानित्यमेव Jain Education International 2010_04 For Private & Personal Use Only 1 मनेकान्तसाम्यता विज्ञेया । एतदेव समर्थयति - प्रत्येकेति प्रत्येकेनाशक्यं समुदायेन शक्यते कर्त्तुं यथाऽमिनाऽसाध्यं यत् 25 स्नेहनादि, जलेनासाध्यं यद्दहनादि तदभिजल समुदायेन कर्तुं शक्यते तथा प्रत्येकपरमाणूनामसामर्थ्येऽपि संघातमेदपरिणामापेक्षाणां चाक्षुषत्वं सम्भवतीति जैनसिद्धान्त एव त्वयाप्याश्रयणीयः आश्रितश्च त्वयोभयथा साक्षादर्थापत्त्या च । तदेवाहउभयथेति । कथं साक्षादाश्रित इत्यत्राह - साक्षात्तदुक्तेति । कथमर्थापत्त्याऽऽश्रित इत्यत्राह - अनेकैकत्वेति । ननु वस्तुतः परमाणूनां समुदाय एव न सम्भवतीति न्यायप्रयोगमाह- इतरथापीति, अनुमानप्रयोगमाह-एतदिति बौद्धेत्यर्थः । परमाणूनामसत्त्वासिद्ध्या दुष्टोऽयं न्याय इत्याशङ्कते - नन्वयमिति । क्षणिकानित्यत्वेनाभ्युपगतेन सह प्रत्येकं ते समुदिता: 30 कारणमित्यभ्युपगमस्य परमाणूनामुत्पत्त्यनन्तरविनाशित्वेन प्रत्येकसमुदायभावासम्भवादभूतत्वसिद्धेरुक्त प्रयोगस्य नान्यायत्वमित्याह - बौद्धैरेवेति । आकाशेति, बौद्धमते त्यवबोधोपयोगिपदार्थस्वरूपो धर्मः सातवानात्रवभेदेन द्विविधः, तत्र सास्रवाः रूपादि पश्च स्कन्धाः द्वादश चक्षुरायायतनानि चक्षुराद्यष्टादश धातवः, एते एव संस्कृतपदप्रायाः, तत्र संस्कृता 15 www.jainelibrary.org

Loading...

Page Navigation
1 ... 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354