________________
भूगोल-खमोलविज्ञाननदीणैः श्रीमदभयसागरगणिभिरत्रा टिप्पण्या प्रतिस्थलं सङ्ख्यानिर्देशपुरस्सर सर्वविषसौविण्याय निम्नलिखिताः प्रक्रियाः स्वीकृताः. १ सम्बन्धसूचनम्, २ प्रसङ्गनिर्देशः, ३ उद्धरणप्रसङ्ग- विषयादिसूचनम् , ४ पर्यायशब्दाः, ५ पदनिष्पत्तयः, ६ अर्थानुसारिण्यन्वयसङ्गतिः. ७ अन्वयनिरूपणम्, ८ समस्तपदानां विग्रहाः, ९ अर्थविवक्षाविवेकः, १० विशिष्टाभिव्यक्तिः, ११ सर्वनामपदावबोधनम्, १२ सन्धिच्छेदाः, १३ पदसिद्धयः, १४ विशेषणनिर्देशाः, १५ विविधार्थविवेकाः, १६ स्वसम्प्रदायानुसारिणी व्याख्या, १७ सूचितोभावनम् १८ ऐतिह्यविमर्शः, १९ उद्धरणपूर्तयः, २० विविधपाठसूचनानि २१ भावार्थाः, २२ ध्वनितार्थाः, २३ मान्यतानिदर्शनमित्यादयः।
एवं सुवर्णे सौरभमिव टिप्पण्य इमा वैदुष्यपूर्वकेण विमर्शेणापूर्वगौरवं धारयन्तीति नाऽत्रशङ्कापहावकाशः। हार्दिकं निवेदनम् _ 'वाग्जन्म-वैफल्यमसनशल्यं गुणादभुते वस्तुनि मौनिता चेत्' इतिश्रीमतों महाकवेहर्षस्य हर्षावहा सदुक्तिः शाश्वती प्रेरणां वितरन्ती गुणगणलाधाम वाचंयमतां भिनत्ति । विश्वस्य विश्वास भाषासु मातृपदं भजन्त्यां भगवत्या निर्जरभारत्या विश्वस्य श्रद्धाय च स्वस्वधर्मभाषाभ्योऽप्यधिक साहित्य संस्कृत एव प्रगीतं सकलधर्माचार्यवयः, जैनसम्प्रदायाचा: संस्कृतसाहित्यस्य भूयसीनां धाराणां प्रवर्धनं स्वस्वसाहित्यद्वारा साधितम् ।
श्वेताम्बरसम्प्रदाये प्रवर्तमानानामाचार्याणां साहित्यं तत्रापि रङ्गत्तरङ्गर स्तुशतरं राषितं वियते प्राकाश्यमासादिवति साहित्य प्रस्तुतं प्रस्तावनासाहित्यं लहरीलीलायितविलासितं सत् सकलमपि संस्कृतज्ञसमाज रञ्जयदुत्तरोत्तरमवगाहनायोत्सुकयेत् , सङ्खयावन्तश्च मात्सर्यमुत्सार्य सारस्वतं पीयूषमिदं चिरं पेपीयन्तामिति विनिवेद्य विरमामीति शम् । दिल्ली ....
निवेदक : . रथयात्रा द्वितीया
विपश्चिचरणचंचरीकः . भाषाढ़ शुक्ला २
डॉ. रुद्रदेव त्रिपाठी सं. २०२८ कि.
वाचार्यः एम. ए. पी. एच. डी.