Book Title: Anand Ratnakar Anand Lahri Tippani Sahit
Author(s): Suryodaysagar Gani
Publisher: Agamoddharak Jain Granthmala
View full book text
________________
श्रीकर्मग्रन्थ० उपो० टिप्पणी !
७१. आहिता = विहिता या हितबुद्धिस्तस्या निधय इति ।
"
७२. जगतां जैत्राः = जयनशीला ये रागादयो द्विषन्तः शत्रवः, तेषां यः स्वाभिमानरूपसम्मोह : अथवा तैरुत्पाद्यमानः यः सम्मोहः तस्य जेतारः श्रीमज्जिनाः, तेषामुक्तयः = वचनानि, तदनुसारि यत् मतम्, = जिनशासनम् तस्य म्ला निकरणे या इति व्युत्पत्तिरत्रार्थानुसारिणी विज्ञेया ।
[ १११
७३. अनृतवादेन=असत्यभाषणेन कलङ्किता या जिवा तया कराल इति । ७४. भाषानिपुणा इत्यर्थः ।
७५. भासितः लोके अलोके च लीनो योऽर्थजातः, यस्यैतादृशज्ञानिनः तीर्थकृतः ज्ञानेन लब्धः बोधः जिनशासनस्य लाभः यैरिति व्युत्पत्तिः ।
७६. प्रोतश्वासौ प्रकाराणां अवान्तरमेदतः प्रकारः योऽसौ तम् एतद्धि संख्याताऽसंख्यातादिराशेः सम्बन्धि पदं ज्ञेयम् ।
७७. इदं हि पदं वक्रोक्तिमूलकं छेषपरकं विज्ञेयम् । तेन चापातत अर्थ एवं ज्ञायते यत् सन्न्यस्तः= संन्यासी - दण्डी, तस्य ये धर्माः आचाराः तत्रामणीः तस्येति । एतया व्युत्पत्त्या शङ्कराचार्यस्य संन्यासीनामप्रणयत्वं प्रदर्शितम् ।
किंतु लेषपरयया व्युत्पत्त्या तु कटाक्षपूर्णोऽर्थ एवमपि ज्ञायते यत्
सम्=समन्ततः न्यस्ताः = दूरीकरणरूपेण स्थापिताः धर्माः = सदाचार विशेषाः यैस्तैः एतादृशा ये दुर्विदग्धतमा दुर्भाग्यशेखराः तेषामप्रणीः तस्येति ।
दृष्टिरागपटलावृत विवेकेन तेन सम्यगनवबोधमूलकं हि जैनाभिमतानां कतिपयपदार्थानां खण्डनस्य दुस्साहसं कृतमस्ति ।
अत एतादृशकठोरोक्तिप्रयोगोऽत्र ' वक्रे हि काष्ठे वक्रं कर्त्तनमिति ' सूक्तिमूलो हि
ज्ञेयः ।
७८. कर्मणां पृथक् करणेन पृथक्करणाय वा प्राप्ता यथार्था बोधिः यैरेतादृशजैनानां यत् मतं तस्याऽनुमतमिति तात्पर्यानुसारिणी व्युत्पत्तिरत्राऽवबोध्या ?
७९. निर्-आङ्पूर्वकस्थाधातोरद्यत्तनीरूपं विज्ञेयम् ।
८०. श्वपचेन=चण्डालेन पराकृते अभिभूते ।
दन्तकथाssधारेण शङ्कराचार्यस्य गङ्गास्नानात् प्रत्यावृत्तस्य चण्डालेन प्रतिभावता वाचोयुक्त्या कृतस्य पराभवस्याऽत्र सूचनमस्ति ।

Page Navigation
1 ... 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188