Book Title: Anand Ratnakar Anand Lahri Tippani Sahit
Author(s): Suryodaysagar Gani
Publisher: Agamoddharak Jain Granthmala

View full book text
Previous | Next

Page 180
________________ श्रीषट्पुरुषचरितोपक्रमः ] [१५१ इति तत्त्वार्थभाष्ये सम्बन्धकारिकाभिस्तिसृभिः कारिकाभिराख्यातं पुरुषषट्कस्वरूपं यथायथम् । "परमार्षे श्रीमहानिशीथेऽपि अवितथमाख्यातं पुरुषषट्कं तदीयाऽऽचाराचा पुरस्सरं, तथापि न तावता " प्रथमकल्पिकानां " शब्दार्थप्राधान्यविवेकाव कलानां "केवलरसप्राधान्याऽनुजीविनामुपकृतिः समुद्भवति "भाविभव्यानामपि भव्यानामिति "रसमाधान्यबोधोत्पत्तये प्रारब्धोऽयं ग्रन्थः पूर्वकालीनगीतार्थगीताऽनवगीताऽर्थसार्थसंबोधबन्धुरैः क्षेमङ्करगणिभिः षड् विधपुरुपस्वरूपबोधकत्वाद्यथार्थाभिधानम् षट्पुरुषचरितमिति । तत्र प्रथमं षट्पुरुषाऽभिधानप्रस्तावदर्शनं तदनु क्रमेण षण्णामपि अधमाधम१ अधम २ विमध्यम ३ मध्यम ४ उत्तम ५ उत्तमोत्तमानां ६ स्वरूपं उपलक्षण-निश्चयाद्यर्थ नामभिर्देशः " तादृगाचार - तत्फलप्राप्तिप्रभृतिकं च यथाईं निजगदुः । दृष्टान्तास्तावदत्र परिपाट्या पुलिन्द १ मोहरति २ श्रीपति ३ जिनचन्द्र ४ महेन्द्र५ जिनेश्वरा ६ इति । भविष्यत्यवलोकनेनैतेषां कर्मविपाकबोधात् "प्रशस्ताऽदृष्टोपायेषु प्रवृत्तिर्भव्यानामिति फलेग्रहिरायासो नः, २४ श्रीमन्तः कदा कतमं भूमण्डलं मण्डयामासुरिति विचारणायां पूज्यैरेव प्रशस्तौ यत् स्वस्य श्रीदेवसुन्दरसूरिचरणाम्भोजषट्पदता प्रत्यपादि, तेन ज्ञायते श्रीमन्तः श्रादेवसुन्दरपादपद्मचञ्चरीकतामा भेजाना बभूवुः । “अथ सर्वशेखराद्दाः ख्याताः क्षेमङ्कराहाश्व । गच्छेशार्ककरा इव दिशि दिशि निघ्नन्ति मोहतमः || ४३३|| २० इति श्रीमुनिसुन्दर रिहृदयहिमवदुद्भत त्रिदशतरङ्गिणी तृतीयस्रोतसि गुर्वावली महाह्रदे विलोकनाज्ज्ञायतेतरामेतत् यदुत 99 " श्रीमन्तो न केवलं देवसुन्दरयुगप्रधानक्रमकजलीनाः, किन्तु गच्छगगनोद्योतविधानविज्ञा अपि ।" श्रीदेवसुन्दर सूरिपादाच “श्रीदेवसुन्दरगणप्रभवोऽधुनेमे " ४९३ । - इति गुर्वावल्याः वचनात् तस्याश्च

Loading...

Page Navigation
1 ... 178 179 180 181 182 183 184 185 186 187 188