Book Title: Anand Ratnakar Anand Lahri Tippani Sahit
Author(s): Suryodaysagar Gani
Publisher: Agamoddharak Jain Granthmala
View full book text
________________
१५२]
[श्रीषट्पुरुषचरितोपक्रमः "रसरसमनुमितवर्षे"-इतिवचनात् १४६६ वर्षेषु प्रणयनात् पञ्चदशतमे शतके तचरित्रविलोकनाद् गुर्जरायां च विजहरिति प्रतीतेग्रन्थकृतामपि तदैव तस्यामेव सत्तेति निःसंशयं प्रत्येयमाईतैः।
ग्रन्थस्याऽस्य प्राग्जातेऽपि मुद्रणे मूल्यवाहुल्यात् प्रसाराभावोऽशुद्धतापाचुर्य प्राकृतच्छायारहितत्वात्मस्तुतग्रन्थाधिकारिणां बालानामसुगमता चेति श्रेष्ठिदेवचन्द्रकोशनियुक्तैरारब्धमस्य मुद्रणं भवतु मुखाकरं सर्वभव्यानामिति समस्तसत्त्वमुखाकाङ्क्षी काडक्षत आनन्दसागरः।
श्रीमत्पत्तननगरे मार्गशीर्षकृष्णद्वादश्यां सोमवासरे लिखितम् ।
8 गुरुनिश्रयोहनीयं सम्यक्........!!! 8. ज्ञानावरणक्षयोपशमजबुद्धिपटुना - वाचोयुक्तिविस्तर -प्रवरोवदेशकफटा-8
टोपादिसम्प्राप्तावपि मोहनीयक्षयोपशमजान्तरदृष्टिवैशय विना जिनवरेन्द्राणां । शासने ज्ञानित्वं गीतार्थतोपनिबन्धनीभूतं न प्राप्यते.
न हि तद् विनाऽऽराधकपथि निष्प्रत्यवायं सञ्चरणं भावि,
अतः सम्यक् गुरुनिश्रया मोहक्षयोपयमार्थ समा प्रवृत्तिः परिकर्मणीयेति सुनिगूढं तत्त्वम् सम्यक् परिभावनीयं परिपुष्टान्तरविशुद्धविवेकच-8 क्षुष्कैः धीमइभिः स्वहितकामिभिः ।।

Page Navigation
1 ... 179 180 181 182 183 184 185 186 187 188