Book Title: Anand Ratnakar Anand Lahri Tippani Sahit
Author(s): Suryodaysagar Gani
Publisher: Agamoddharak Jain Granthmala

View full book text
Previous | Next

Page 183
________________ .१५४] [श्रीषद्पुरुषचारितोपक्रमा १४ इष्टाश्च अनिष्टाश्च प्रवृत्तयः तासां तानि तानि च फलानि, तेषां दर्शनम्, तेन च अभीप्सिते प्रियाणाम् अप्रियाणां साधनानामुपादानहाने येषां ते इति व्युत्पत्तिः । १५ ऋषिभिः तत्त्वदर्शिभिः, सर्वशैरिति यावत्, प्रणीतम् आर्षम्, परमं च तत् आषं च परमार्षम्, तस्मिन् । १६ प्रथमः भूमिकारूपः कल्पः सामर्थ्यानुरूपाचारः विद्यते येषाम्, तेषाम्, बालजीवानामित्यर्थः। १७ शब्दानामर्थः, तस्य प्राधान्यं यत्रैतादृशो यो विवेकस्तेन विकलास्तेषाम् । १८ केवल रसस्य प्राधान्यं यत्र, तेन अनुजीवन्ति ये ते, तेषाम् । १९ भावि भव्यं कल्याणं येषाम्-तेषाम् । २० रसस्य प्राधान्यं यत्र स चासौ बोधस्तदुत्पत्तिः, तस्मै । २१ पूर्वकालीना ये गीतार्थाः, तैः गीतः अनवगीतः भनिन्दितः स चासौ अर्थः, तस्य सार्थः समूहः, तस्य सम्बोधेन सम्यग्ज्ञानेन बन्धुराः मनोहराः तैरिति । २२ तादृक्-स्वस्य दशाऽनुरूपः, स चासौआचारः, तस्य यत् मलम्, तस्य प्राप्तिप्रभृतिकमिति । २३ प्रशस्ताः ये अदृष्टाश्च ते उपायाश्च, तेषु । २४ सफल इत्यर्थः। २५ श्रीमुनिसुन्दरसूरीणां हृदयं तदेव हिमवान्, तत उद्भूता या त्रिदशतरङ्गिणी, तस्याः तृतीये श्रोतसि इति ।

Loading...

Page Navigation
1 ... 181 182 183 184 185 186 187 188