SearchBrowseAboutContactDonate
Page Preview
Page 138
Loading...
Download File
Download File
Page Text
________________ श्रीकर्मग्रन्थ० उपो० टिप्पणी ! ७१. आहिता = विहिता या हितबुद्धिस्तस्या निधय इति । " ७२. जगतां जैत्राः = जयनशीला ये रागादयो द्विषन्तः शत्रवः, तेषां यः स्वाभिमानरूपसम्मोह : अथवा तैरुत्पाद्यमानः यः सम्मोहः तस्य जेतारः श्रीमज्जिनाः, तेषामुक्तयः = वचनानि, तदनुसारि यत् मतम्, = जिनशासनम् तस्य म्ला निकरणे या इति व्युत्पत्तिरत्रार्थानुसारिणी विज्ञेया । [ १११ ७३. अनृतवादेन=असत्यभाषणेन कलङ्किता या जिवा तया कराल इति । ७४. भाषानिपुणा इत्यर्थः । ७५. भासितः लोके अलोके च लीनो योऽर्थजातः, यस्यैतादृशज्ञानिनः तीर्थकृतः ज्ञानेन लब्धः बोधः जिनशासनस्य लाभः यैरिति व्युत्पत्तिः । ७६. प्रोतश्वासौ प्रकाराणां अवान्तरमेदतः प्रकारः योऽसौ तम् एतद्धि संख्याताऽसंख्यातादिराशेः सम्बन्धि पदं ज्ञेयम् । ७७. इदं हि पदं वक्रोक्तिमूलकं छेषपरकं विज्ञेयम् । तेन चापातत अर्थ एवं ज्ञायते यत् सन्न्यस्तः= संन्यासी - दण्डी, तस्य ये धर्माः आचाराः तत्रामणीः तस्येति । एतया व्युत्पत्त्या शङ्कराचार्यस्य संन्यासीनामप्रणयत्वं प्रदर्शितम् । किंतु लेषपरयया व्युत्पत्त्या तु कटाक्षपूर्णोऽर्थ एवमपि ज्ञायते यत् सम्=समन्ततः न्यस्ताः = दूरीकरणरूपेण स्थापिताः धर्माः = सदाचार विशेषाः यैस्तैः एतादृशा ये दुर्विदग्धतमा दुर्भाग्यशेखराः तेषामप्रणीः तस्येति । दृष्टिरागपटलावृत विवेकेन तेन सम्यगनवबोधमूलकं हि जैनाभिमतानां कतिपयपदार्थानां खण्डनस्य दुस्साहसं कृतमस्ति । अत एतादृशकठोरोक्तिप्रयोगोऽत्र ' वक्रे हि काष्ठे वक्रं कर्त्तनमिति ' सूक्तिमूलो हि ज्ञेयः । ७८. कर्मणां पृथक् करणेन पृथक्करणाय वा प्राप्ता यथार्था बोधिः यैरेतादृशजैनानां यत् मतं तस्याऽनुमतमिति तात्पर्यानुसारिणी व्युत्पत्तिरत्राऽवबोध्या ? ७९. निर्-आङ्पूर्वकस्थाधातोरद्यत्तनीरूपं विज्ञेयम् । ८०. श्वपचेन=चण्डालेन पराकृते अभिभूते । दन्तकथाssधारेण शङ्कराचार्यस्य गङ्गास्नानात् प्रत्यावृत्तस्य चण्डालेन प्रतिभावता वाचोयुक्त्या कृतस्य पराभवस्याऽत्र सूचनमस्ति ।
SR No.022268
Book TitleAnand Ratnakar Anand Lahri Tippani Sahit
Original Sutra AuthorN/A
AuthorSuryodaysagar Gani
PublisherAgamoddharak Jain Granthmala
Publication Year1972
Total Pages188
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy