SearchBrowseAboutContactDonate
Page Preview
Page 139
Loading...
Download File
Download File
Page Text
________________ ११२] [श्रीकर्मग्रन्थ. उपो० टिप्पणी ८१. भक्षितः दृष्टिरागरुपी हत्पूरः मदेन हृदयं पूरयति योऽसौ धत्त्रः इत्यर्थः, येनेति विग्रहः । ४२. निहवस्थानान्तर्गतप्रतिज्ञाऽपलापरुपस्य दोषस्याऽत्र सूचनमेतत्पदेन विहितं दृश्यते । ८३. इतिः गमनम् । ८४. अत्र ह्यन्वय एवमवबोध्यः “केषाञ्चित् मतेन नवमस्य तस्य (अनंतस्य) सर्वथैवाऽभावात्" इति । ८५. क्षिप्ताः इत्यस्य अग्रेतनेन केवलद्विकपर्यायाः इत्यन्तेन पदेनसहाऽन्वयोऽवबोध्यः । ४६. विवेचनेन अक्ताः इति पदच्छेदः, अक्ताः इति अङ्ग् धातोः रुपं विज्ञेयम्, तस्य य व्याप्ताः इतिरुपोऽर्थो ज्ञेयः । ८७. इतरथा गौणत्वेनेत्यर्थः । ८८. अत्र चैकवचनप्रयोगः अग्रेतनेन 'उपनिवबन्धु 'रित्येतेन सहासङ्गतः प्रतीयते । सामर्थ्य गमनञ्च सद्गुरूपनिश्रयोहनीयं धीधनैः । ८९. अप्राकृताः=संस्कारसम्पन्ना ये जनाः तैराकर्णनीयानि । ९०. चेतना=विशिष्टज्ञानशक्तिः, तद्वन्तः ये चतुराः तेषां चक्रं तेनेति । ९१. अवक्रे-सरले इत्यर्थः । ९२. अत्र ह्येवमन्वयोऽवबोध्यः यत् " गहनं अनल्पतरगूढं कर्मप्रकृति-पञ्चसङ्ग्रहादिग्रन्थकद म्बकं अवगाह्यम्" इति । ९३. वि=विशेषेण अवगाह्य-मर्मस्पर्शिधिया आलोड्य इति । ९४. अनल्पतरः अतिशयेन भूयान् गूढः अर्थः यस्येति । ९५. सूक्ष्मः=निपुणधीगम्यः ग्रन्थः=रचना यथा स्यात् तथा इति क्रियाविशेषणं हीदं ज्ञेयम् । ९६. अनेके दुर्गताः स्थूलधिया दुरवसेयाः ये विचाराः तत्वनिर्णयाः ते आरुढाः यत्र इति । ९७. मंडितं विभूषितं शासनरुपं अम्बरं-आकाशं यैरिति । ९८. अत्र षष्ठ्यन्तं हि पदं सङ्गतं न भवति, अर्थानुसन्धानेन तृतीयान्तं 'परिचर्यया' इति सङ्गच्छते । ९९. समस्तं सम्पूर्ण यत् अनस्तमित सदोदीयमानं यत् सुखं, तस्य यः सन्दोहः, तस्य साधनरुपः यः स्याद्वादः, तेन साधिता साधीयसी श्रेष्ठा या शूचिता पवित्रता, तया अञ्चितः य
SR No.022268
Book TitleAnand Ratnakar Anand Lahri Tippani Sahit
Original Sutra AuthorN/A
AuthorSuryodaysagar Gani
PublisherAgamoddharak Jain Granthmala
Publication Year1972
Total Pages188
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy