________________
१०]
[ श्रीकर्मग्रन्थ० उपो० टिप्पणी
५६. भवभृतः = संसारिजीवाः, तेषां यत् भयं = भवभ्रमणादिभवं, तस्य परिहारेच्छावतां भव्यजीवानामित्यर्थः ।
५७. अत्र चैवमन्वयः बोध्यः यत् " अण्वादिवत् सूक्ष्मत्वात् अदृश्यता न अनौचित्यश्चिता " इति ।
५८. तत् ' पदेनाsत्र चेतनाशक्तेः प्राधान्येन ज्ञान-दर्शनरूपत्वं विवक्षणीयम् ।
"
५९. यथार्थाश्च ते अर्थाश्च तेषां यत् दर्शनं = अवलोकनं तत्स्वरूपं यत् दर्शनं सम्यकूत्वं तेन जायमानं यत् श्रद्धानं तद्बलेन जायमानश्च य आचारः, तयोयै प्रतिबन्धकौ तयोः अध्यक्ष =प्रत्यक्षं य
अनुभवः तस्मात् ।
६०. उद्देश्यं = द्वयोरपि व्यामोहजनकत्वरुपलक्ष्यं, तस्य एकत्वेनेति भावः ।
६१. 'तत्' पदेनाऽत्र कषायाणां परामर्शः
1
६२. 'एतत् ' पदेनाऽत्र ' मोहनीय 'स्य अवबोध कार्य: ।
६३. अत्र ' आयाति ' पदेन विपाकरूपोऽर्थो विवक्षितः प्रतीयते ।
६४. सम्=सम्यक् प्रकारेण ख्यानं प्रकथनं येषां तेषां पदार्थानां अवच्छेदः -सम्पूर्णज्ञानं, तेन तत्र वारकैः = श्रेष्ठैरिति व्युत्पत्तिरत्रार्थानुसारिणी विज्ञेया ।
६५. सम् = सम्यक् प्रकारेण इति = गच्छन्ति, सङ्गच्छन्तीति यावत् ।
६६. कामसम्बन्धिनी या कथा तत्र निष्णता = कुशलत्वं, तस्या इप्सुः = अभिलाषुकः, तथा जगताम् शं=सुखं यो न करोति एतादृशः यः शंकर पदेन शंकराचार्य परामर्शोऽत्र तस्य श्वरितमिति यावत् ।
६०. संबाधैः स्वप्नप्रभावोपलब्धमिवेति सम्बन्धसंयोजना गम्या । -
तेन चायमर्थ:यः - यत् वातादिबाधान्वितानां यथा स्वप्नप्राप्तिर्भवति, तत्प्रभावेनोपलभ्यते हि यथा स्वप्ने आलजालरूपं तदिवेति तात्पर्यानुसारी अर्थसङ्गतिरत्र ज्ञेया ।
६८. जिनानां=तीर्थकृतां प्रतिनिधिरूपाः याः प्रतिमाः, तासां प्रतिपत्तेः दर्शनपूजाद्यायाः पराकरणम् = निरसनम् - खण्डनमिति यावत् ।
६९. सर्वेषां संसारिणाम् असुमतां प्राणिनां चिन्तनस्यावश्यकतया इति व्युत्पत्तिः ।
७०. दृष्टः अशेषानां समस्तानां दर्शनानां दर्शनस्य - वस्तुनिर्णयस्य परमार्थः यैरिति 1