________________
श्रीकर्मग्रन्थ० उपा० टिप्पणी 1
इदं च विशेषणं " प्राणिगणस्य " इत्यस्य विज्ञेयम् ।
४२. दुरवसेयात् दुर्बोधात् इत्यर्थ ।
४३. ' कुर्वता 'मित्यस्य प्राक्तनवाक्यगतेन " युक्त एव आरंभ" इत्यन्तेन सहान्वयो विज्ञेयः ।
४४. अपकारे सुष्ठु कृतिनः = कुशलाः निपुणा वा ये ते तेषामिति ।
४५. अस्य कर्मग्रंथस्य ।
t १०९
४६. आगमे = बालमतिभिः दुरवगाह्ये शास्त्रसमुद्रे तीर्थः जलावतरणपद्धति कर्मप्रन्थविरचनारुपां कुर्वन्ति तैरिति व्युत्पत्तिः तात्पर्यानुसारिणी ज्ञेयाऽत्र ।
४७. मिताः = प्रमाणयुक्ताः इत्यर्थः ।
४८. अनेकास सहस्रार्णा गाथानामभ्यासेन (अपि) दुरवसेयं = दुःखेन अवबोध्यं यत् तत्वं, तस्य अवसायिन्यः = ज्ञापिका इति भावः ।
अमन्दश्चासौ आनन्दश्च तस्य प्रदौ च तौ शब्दार्थो तन्मय इति व्युत्पत्तिः ।
५०. एष च शब्दः प्राचीनतराप्ताभिजन प्रयुक्तपरिभाषया रुढः नानाविधार्थसमूह सङ्क्षेपार्थे, ततश्च लघुनि शब्दकलेवरे महतोऽभिमहाविशालस्यार्थस्य सङ्ग्राहके षष्ठे हि कर्मप्रन्येऽल्पधी दुबे ध्याना मनेकेषां पदार्थानां सूचनं हि सद्ग्रहणी - पदेनाऽत्र विहितं प्रतीयते ।
५१. उष्णता - तेजः सन्निधानेनोद्भूतावस्थाविशेषः, तस्य प्रचयेन = समूहेन आविष्टा = व्याप्ता या अम्बुनः=जलस्य ततिः या बाष्परूपावस्था इति व्युत्पत्तिरत्रार्थानुसारमूह्या ।
५२. तथा= व्याख्यारूपेण विशदीकरणप्रकारेण तन्यमानं विधीयमानं तत् = सङग्रहणी कल्पत्वमिति तात्पर्यसङ्गामिकान्वयशैली अवबोध्याऽत्र ।
एवं चास्य वाक्यस्यैवं भावः प्रतीयते यत् - " यदि च कर्मग्रन्थपञ्चकरचनावत् यदि दृष्टिवाद-निस्यन्दभूतस्याऽर्थगभीरस्य षष्ठकर्मग्रन्थस्याऽपि विवेचनाप्राधान्येन प्राणयनं क्रियेत, तर्हि परोपकारिसत्तमैः पूर्वाचार्यैः यत् संक्षिप्तशैल्या नानापदार्थानां विशिष्टपद्धत्या सङ्कलनेन सूक्ष्मा सूक्ष्मधीमतां यद्धि हितं सम्पाद्यते तद्धि विशीर्येत ।
५३. ऐदंपर्येण = मार्मिक रहस्येन सहितमिति यावत् ।
५४. कर्मणां या प्रकृतयः तासां यः प्रकरः = समूहः तस्य व्याकरण - विवेचनमिति यावत् । ५५. परत्र = जिनशासनादम्येषु दर्शनेषु ।