Book Title: Anand Ratnakar Anand Lahri Tippani Sahit
Author(s): Suryodaysagar Gani
Publisher: Agamoddharak Jain Granthmala

View full book text
Previous | Next

Page 165
________________ १३८] [ श्रीकर्मप्रकृत्युपोद्घात टिप्पणी ५९. दीक्षिताः साधवः इतरे-गृहस्थाः, ते च ते जनाः तेभ्यः। ६०. अशेषाणि च तानि कर्माणि, तेषां कायः सङ्घातः तस्य कषणं विनाशनं, तस्य कल्पना ____ सम्पादनं, तत्र कोविदाः निपुणतमा तेभ्यः । ६१. कर्मण इत्यर्थः । ६२. गणं वाचनासम्बन्धसम्पृक्त साधुसमुदायं धारयन्ति रत्नत्रयाराधनादिप्रकारेण स्त्यवरुपेण इति गणधारिणः गणधरा इर्थः । सुरक्षादि ६३. उदीर्णा चासौ प्राग्भवे भव्यभावभूता श्रेष्ठाध्यवसायरूपा या श्रेयोभावना=निजसम्पर्क समा गमिनां सर्वथा कल्याणकरणरूपा, तया उद्भावितं यत् गणभृत्कर्म, तस्योदयेनाप्तयत् शक्रा. दयो ये अखिलाः नाकिनः=देवाः, नराश्च-मनुष्याः, तेषां निकायः समूहः, तस्मिन् यत् न साधारणं (येन केनचित् प्राप्यमिति यावत् ) गणस्य ईशिता श्रुतानुसारेण सारादिकर्ता गणधरः, तस्य भावः तत्त्वं येनेति विग्रहः । ६४. पुष्पाणि इत्यर्थः । ६५. सुष्टु मानससंयुक्ता इत्यर्थः । ६६. सुमनस्त्वं-देवत्वं, अपवर्गः मोक्षस्तद्यत्वं, तस्य साधनं सम्पादनं, तत्र समर्थो योऽर्थः=धर्म रूपः, तस्य ये अर्थिनः=जिज्ञासवः, तैः अर्थनीयाः काङ्क्षाविषयभूता इति । ६७. जगतां ईश्वरः=तीर्थकृत्, तस्य आस्यात् वदनात् निःसृताः उपदेशसमये इति । ६८. भव्यानां मोक्षेच्छूनां वारः समूहः, तस्य हिते श्रेयःसम्पादने एक निहितं अन्तःकरणं यैरिति । ६९. नियुक्ताः शब्दभञ्जनरूपनियुक्तिव्याख्याताः, निरवशेषाः समस्तनयगर्भिताः ये अर्थाः, तेपां समूहस्य सूचने समर्थः तेनेति । ७०. अनुयोगद्वारसूत्रप्रसिद्धगुणद्वात्रिंशत्या सूचनमत्र । ७१. परमा=निष्कारणत्वात्युपकाराऽवाञ्छदिगुणविशिष्टा चासौ कृपा , तया अनुगताः सहिताः, तथा हृदयं-सुजनानां चेतः गच्छन्ति ये ते, परमकृपानुगताश्च हृदयङ्गमाश्च इति द्वन्द्वः, तैः ।

Loading...

Page Navigation
1 ... 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188