Book Title: Anand Ratnakar Anand Lahri Tippani Sahit
Author(s): Suryodaysagar Gani
Publisher: Agamoddharak Jain Granthmala
View full book text
________________
[ श्रीकर्मप्रकृत्यु० टिप्पणी कर्मप्रकृत्यादेरुद्धृतत्वात् द्वितीयपूर्वस्य हस्तिद्वय प्रमितममषीलेख्यतासङ्गच्छते, कथश्चात्र " चतुर्णां " पद प्रयोगः ? इति स्थूलबुध्याऽतीव विचारणीयं भवति । तृतीयपूर्वस्य च हस्ति चतुष्कमितमषीलेख्यत्वं जाघटीति ? तथाऽप्यत्र कृत 'चतुणां' पदप्रयोगस्यार्हत्वं सद्गुरुसमुपासनयाऽधिगतनिर्मलघोषणाधवलेन सङ्गमनीयम् ।
૨૪૦ ]
८७. सदा = कालादिनिमित्तानपेक्षं अवस्थिताः पञ्चधनुश्शतमानप्रमिताः दिष्टाः - सर्ववेदिर्भिनिर्दिष्टाः ये नियतपरिमाणवन्तः ये विदेहे महाविदेह क्षेत्रे जाता ये सामना:- हस्तिनः तेषामिति ।
८८. अत्र चान्वय एवमवबोध्यः यत् “ विंशतिप्राभृतमानात् पञ्चमात् वस्तुनः कर्मप्रकृत्याख्यात् चतुर्थात् प्रभृतात् " इति ।
८९. " उद्धारनदीरयो (य) वाइम् आप " इति
पदच्छेदोऽन्वयश्च बोध्यः, अर्थात् कर्मप्रकृत्यादिकमिदं शास्त्रं द्वितीयपूर्वगतपञ्चमवस्तुनः चतुर्थात् प्राभृतात् उद्धृतम् ।
९०. एतत् पदस्यानेन " प्रस्तुत.... विज्ञप्तेः " इत्यनेन सहाऽन्वयो विज्ञेयः ।
९१. दृष्टिवादे द्वादशाङ्गरूपे नदीष्णाः, निपुणाः तेषाम् ।
९२. प्रस्तुतप्रकरणस्य ऊनतायाः पूरणं पूर्तिः, तस्याः तननस्य या विज्ञप्तिः, तस्याः ।
९३. एतत्रतनं हि टिप्पणं शुद्धिपत्रकतो विज्ञेयम् ।
९४. समाप्तमित्यर्थः ।
९५. कर्मप्रकृत्यादिज्ञानमित्यर्थः ।
९६. निःश्रेयसस्य = मोक्षस्य निदानानां हेतूनामिति ।
९७. सञ्ज्ञानं च चारित्रं चेति द्वन्द्वः, तयोः मूलं तस्येति विग्रहः ।
९८. एतत्पदस्याततेन " अवस्थानासंभवात् " इत्यनेन सहान्वयः ।
९९. तत्त्वानामर्थानां यत् श्रद्धानं, तदात्मकस्य सम्यग्दर्शनस्य स्वरुपविशेषणमेतत् ।

Page Navigation
1 ... 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188