Book Title: Anand Ratnakar Anand Lahri Tippani Sahit
Author(s): Suryodaysagar Gani
Publisher: Agamoddharak Jain Granthmala
View full book text
________________
श्रीआगमोद्धारकाऽऽलेखितपस्तावनासंग्रहस्वरूपे श्रीआनन्दरत्नाकरे
चतुर्दशमं रत्न
धर्मपरीक्षायाः प्रस्तावना ** **** ********* ****
॥ श्रीमद्गौतमगणधरेन्द्रोपासितपार्था विजयन्ते श्रीवीरपादाः॥ 'साधयन्तु सिद्धसाधननिबन्धनधृतिधौरेया धीमन्तः 'पारगतगदिताऽऽगमाऽम्बरविचरणावाप्तवैनतेयपतिविख्यातयः प्रस्तुते श्रीमत्सागरशाखाविधाविहितपबवन्ध्यमानपद्मसागरगण्युबोधिते धर्मपरीक्षापद्माकरे केलिमनघां 'खान्यासाधारणधर्मधारणाधैर्यपदा, वसतिरत्र क्षीरोदतनयाया इव पद्मे भवभ्रान्तिदारियदारणदृब्धारम्भाया विश्रम्भविधाननदीष्णाया "निष्णातखनिबन्धनाया "यथार्थविश्वाधीशव्याहृताऽव्याहतवाङ्मयज्ञप्त्याचरणमूलायास्तत्त्वार्थपारमार्थिकाऽध्यवसायनिश्चितिरूपायाः "श्रद्धानलक्ष्म्या "उज्झितगृहकुटुम्बदेहममत्वानां महात्मनामपि स्पृहणीयायाः, प्रवचनस्य च स्यादुतिः "श्रदायाश्चेत् तदाविर्भावकविषयभावुकभावान्वितं चोभूयेत "चेतश्चतुरचक्रस्य ।
स्वरूपं च परमेश्वरस्य" प्रत्यपीपदन् परमपूज्याः श्रीमद्धरिभद्राधा "लोकनिर्णयननिपुणलोकतत्त्वनिर्णयायेषु यथायथं युक्त्युद्भावनादिना, श्रीमद्भिः पूज्यपादैरपि प्रकृते तदेव निव्यूढं, न च चर्वितचर्वणता, पुराणादीनां पराभिमतानां यदभिमतं वृत्तान्तं "स्वाभियुक्तदृब्धानां, तस्य परमेश्वरस्वरूपस्यैवाऽत्र प्रतिपिपादिषितत्वात् , प्रतिपादनमपि नाऽत्र केवलं तदीयाऽऽगमतदर्थमात्रदेशनेन, किन्तु ! प्रथमं "तत्पतिनिधिमर्थ प्रतिपाघाऽनिष्ट"तमत्वमश्रद्धेयतयोररीकार्य पश्चात्तदभिमतत्वं प्रदर्य परमं "निग्रहस्थानमानीय "समीचीनाऽऽप्ताऽभ्युपगत्युपगमेन वादिना, ततश्चेदमतीवाख्यायकं "स्वरूपस्प “नाट्यमिवाऽनईदेवतानां “कर्मक्षमूलकषणकरीन्द्राणां श्रीमतां जिनेश्वराणामाप, आवश्यकमेव पुराणप्रचुरे काले "तदभिमतदेवताविशेषाणां "तदितरेषां च स्वरूपाख्यानं, ग्रन्थविधानविशेषफलमप्येतदेव ।
१९

Page Navigation
1 ... 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188