Book Title: Anand Ratnakar Anand Lahri Tippani Sahit
Author(s): Suryodaysagar Gani
Publisher: Agamoddharak Jain Granthmala
View full book text
________________
धर्मपरीक्षायाः टिप्पणी १२. तत्त्वभूता येऽर्थाः, तेषां पारमार्थिकः याथार्थ्याञ्चितः योऽध्यवसायः, तत्बलेन निश्चितिः टंक शाली निर्णयः, तदेव रूपं यस्याः ।
एतदपि "श्रद्धानलक्ष्म्याः " इत्यनेन पदेन सह संयोजनीयम् । १३. श्रद्धानम् हार्दिकान्तरप्रतीतिरूपेण सैव लक्ष्मीः आत्मशोभाविवर्द्धकत्वेन, तस्याः । १४. उग्झितं-परित्यक्तं गृहस्य कुटुम्बस्य देहस्य च ममत्त्वंरागमूलकप्रीतिः यैः, तेषाम् । १५. एतत्पदस्य प्राक्तनेन "प्रवचनस्य" इति पदेन सहाऽन्वयः । १६. तस्याः श्रद्धाया आविर्भावकाः-प्रकटीकारका ये विषयाः, तेषां ये भवुकाः=चित्तस्य
विशिष्टाऽवस्थाकारका भावाः अवस्थाविशेषाः, तैरन्वितम्, इति व्युत्पत्तिरत्राऽवसेया । १७. चतुराः-साराऽसारनिर्णायकधीसहिताः, तेषां चक्रम् समूहः, तस्य । १८. विशेषेण प्रतिपादितवन्त इत्यर्थः । १९. लोकस्य समस्तविश्वस्य निर्णयनं-स्वरूपस्य याथार्थ्यावगमः, तस्मिन् प्रत्यलाः समर्थाः ये
लोकतत्त्वनिर्णयाचाः एतत्संज्ञितग्रन्थमुख्या ये ग्रन्थाः, तेषु । २०. चर्वितस्य प्ररूपितस्य चर्वणम् पुनर्निरूपणम्, तस्य भावस्तत्ता । २१. स्वस्य सम्मता ये अभियुक्ताः मान्यतमाः पुरुषाः, तैः दृब्धाः रचितास्तेषाम् । २२. तदीयाश्च ते आगमाश्च सदीयाऽऽगमाः जैनेतरशास्त्राणि, तेषाम् अर्थमात्रस्य देशनम् निरू
पणम् , तेन । २३. तस्य तदीयाऽऽगमेषूपवर्णितस्य प्रतिनिधिम् तत्सदृशम् इत्यर्थः । २४. अनिष्टतमत्वम् प्रस्तुतविषयेण सहाऽसम्बद्धत्वेन सुतरामनिष्टम् इत्यर्थः । २५. निग्रहस्थानम् न्यायशास्त्रप्रसिद्धं वादिपराभवस्थानविशेषमित्यर्थः । २६. समीचीनानाम् आज्ञानां या अभ्युपगतिः तस्या अभ्युपगमेन । २७. एतद्धि पदमप्रेतनेन "जिनेश्वराणामि"त्यनेन सह सम्बद्धं वर्तते । २८. अन्यदेवानां देवत्वाऽननुगुणक्रियाजातं हि नटकर्मतुल्यं विवश्यैतत्पदप्रयोगोऽत्र विहित इति
प्रतीयते ।
___ ततश्च देवत्वस्याऽनर्हाणाम् योग्यतारहितानां देवानां नाट्यं हि यथा अत्र प्रस्तुतं
तथा जिनेश्वराणां स्वरूपमपि प्रतिपादितमस्तीत्यर्थः । २९. कर्मरूपी यो वृक्षस्तस्य मूलानां वृक्षाधाररूपाणां कन्दविशेषाणाम्, कषणे-उत्खनने
करीन्द्राः = मत्तगजेन्द्रतुल्याः, तेषाम् ।

Page Navigation
1 ... 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188