Book Title: Anand Ratnakar Anand Lahri Tippani Sahit
Author(s): Suryodaysagar Gani
Publisher: Agamoddharak Jain Granthmala
View full book text
________________
श्रीकर्मप्रकृत्यु० टिप्पणी ] ७२. सिद्धान्तानां यत् तत्त्वरूपं अमृतं, तस्य पानेन पीवराः-पुष्टाः, तैरिति । ७३. पीवरं प्रकृष्टपुण्योदयपुष्टं भागधेय शुभकर्मसङ्घातरूपं येषां तैरिति । ७४. अभियुक्ताः श्रेष्ठविचारनिर्णयबुद्धिसम्पन्नाः, तेषु उत्तमाः, तैः । ७५. गुणानां यो गणः, तस्य धुयायाः धरणे धौरेयाः, तैः । ७६. द्वादशमात् दृष्टिवादाख्यात् अङ्गात् आचारांजैकादशकस्य समुद्धाररूपेयं वार्ताऽतीव सूक्ष्म... बुद्धिसद्गुरूसमुपासना-सुविनीततरादिगुणसम्पदाबलपरिकर्मितप्रतिभयोहनीया । ७७. न अन्यं स्थानं मूलरुपेण येषां, तेषामिति । ७८. दृष्टिवादत इत्यर्थः । ७९. 'नह' धातोः बन्धनार्थत्वेऽपि धातूनामनेकार्थत्वादत्र जायते इत्यर्थोऽवबोण्यः । ८०. अत्र एतत्पदेन पूर्वगतोद्धरणं विज्ञेयं । ८१. कर्मप्रकृत्यादेरित्यर्थः । ८२. प्रेक्षा=विचारबुद्धिः, सैव चक्षुः येषां तेषाम् । ८३. न अन्यैः प्रणेतुं शक्याः, एतादृशा ये पदार्थाः, तेषां चः प्रपश्चः-विस्तारः, तस्य प्रपश्चनं करणं,
तस्मै पनि समर्थानि, यानि प्रकरणानि तेषां यः प्रचयः, तस्य या प्रवरसाधनता=समर्थहेतुता (कर्मस्वरुपसूक्ष्मज्ञानाधिगमस्येत्यध्याहार्यमत्र) तस्याः सिद्धिरिति विग्रहोऽत्र तात्पर्यानुसारी
अपगन्तव्यः। ८४. " स्पष्टं चैतत्” इति पदद्वयस्याऽप्रेतनेन "इति आगमीयगमाऽवगमानां " इत्यनेन
सह सम्बन्धो विज्ञेय । ८५. निर्धारणे इयं षष्ठी। ८६. अत्र हि पूज्यागममर्मज्ञ-टङ्कशालिश्रुतस्वामिभिरागमोद्धारकैः केनाऽपि प्रज्ञाविशेषवद्रुह्येन
"चतुर्णा" पद प्रयोगः कृतः, किंतु शास्त्रनिर्दिष्ट-पूर्वगतश्रुतलिखनोपयोगिमषीपुन-प्रमाणप्रमितहस्तिव्यावर्णन प्रसङ्गे पूर्वाणां यथोत्तरं द्विगुणता व्यावर्णिता, ततश्च द्वितीयस्मात् पूर्वात्

Page Navigation
1 ... 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188