Book Title: Anand Ratnakar Anand Lahri Tippani Sahit
Author(s): Suryodaysagar Gani
Publisher: Agamoddharak Jain Granthmala
View full book text
________________
भीकर्मप्रकृतिउपा० टिप्पणी ] १८. सर्व विदन्ति ये ते इति, सर्वज्ञा इत्यर्थः । १९. वार=समूहमिति । ५०. कर्मपरमाणुभिरिति सङ्गगमनीयमत्र । ५१. सद्गुणानां वृन्दमित्यन्वयः । ५२. भावरणकारकमित्यर्थः ।
वअ च समुच्चयश्च 'आत्मनां वारं, तद्गुणानां आवृतं वृन्दं आवारकं च ' इति पदत्रयस्य कार्यः, तं चावगम्येति ।
५३. अतत्वभूता अतत्त्वविषयिणी वा या श्रद्धा, पापानां च विरमणस्य-त्यागस्याऽभावः, क्रोधादीनाम्
अन्तरारातीनां वर्गः, स्वान्तं मनः तदादियोगानां व्यापाराः । एतेषां च समुच्चयद्वन्द्वः। ततश्च अतत्त्वश्रद्धा....स्वान्तादिव्यापाराणाम् ऊर्जितम्-सामर्थ्य इति तात्पर्यानुसारी विन- ..
होऽत्राववोध्यः। ५४. ऊर्जः विशिष्टा शक्तिः, तेन सहितमित्यर्थः । ५५. अनुकूला चासौ इतरा च-प्रतिकूला या सामग्री, तस्याः संयोजनेन समुद्भावितं, तथा आका
शादीनां अतीतमूर्तिकानां अमूर्ताणां, अरूपिणामितियावत्, पदार्थानां यः निवहः समूहः, स चासौ अतिक्रान्तः येनेति ततश्च "अनुकूले........समुद्भावितं आकाशाद्यतीत....निवहातिक्रान्त" रूपं यस्य तमिति ।
५६. रूपं परि-परितः समन्तात् ईतं गतं यस्मात् ।
सच्चेदं स्वरूपं यस्य तमिति
५७, यत्नेन सम्=मूलतोऽपि पायः कर्तुशक्य क्षमः यस्य तमिति ।
५८. एतत्पदस्य प्राक्तनेन “कर्मणामष्टकं” इति पदेन सहाऽन्वयो विज्ञेयः। ...

Page Navigation
1 ... 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188