Book Title: Anand Ratnakar Anand Lahri Tippani Sahit
Author(s): Suryodaysagar Gani
Publisher: Agamoddharak Jain Granthmala

View full book text
Previous | Next

Page 163
________________ । श्रीकर्म० असो टिप्राणी अत्र सन्दर्भसङ्गतिवशात् बलादक्षिप्तं फलप्राप्ति". पदमत्रार्थोहसङ्गतिवशाद सहप्रेक्षोज्जीवितं न्यस्तमस्ति । तस्य सारासारत्वं धीधर्मः प्रेक्षावद्भिः सदगुरुत्तंसचरणोपनिश्रया परिकर्मितबलेन सङ्गमनीयम् । ३५. पञ्चम्यन्तमिदं पदमर्थानुसन्धानबलतो ज्ञेयम् । ३६. शुभश्च अशुभञ्चेति शुभाशुभे, तद्रूपौ उभयौ भेदौ यस्य तत् इति विग्रहः । ३७. वस्तुपरिच्छेदनसमर्थहेतुव्रजस्योपक्षेपोऽत्र ज्ञेयः । ३८. क्विबम्त कीदृश् शब्दस्य प्रथमाबहुवचनान्तमिदं रूपम् । ३९. विविक्तः प्रज्ञया पृथकूकृतः सन् चासन् मार्गश्च यैरिति । ४०. 'भिदा' इति शब्दस्याकारान्तस्त्रीलिङ्गस्य प्रथमाद्विवचनान्तमिदंरूपम् । ४१. अत्र चान्वय एवं ज्ञेयः " यद्यपि अन्यः व्यवहारपथाश्रितां शुभाशुभतां कलय्य अस्य शुभा' शुभे भिदे कल्पिते" इति ? १२. अवापि अन्वय एवं ज्ञेयः-" भूघनगुण............सावधानाः भेदा अपि व्यवहारानुसारिण ४. एवं श्रिताः "। अत्र तैरिति सन्दर्भसङ्गत्या अध्याहार्यम् । ४३. व्यवहारं जनसाधारणा स्थूलधीविषयां आचरणपद्धतिम् अनुसरंति ये ते इति विग्रहः । ४४. भूधनं-शरीरम्, उपलक्षणत्वात् पुद्गलाः, तस्य ये गुणा, तेषां घातरूपो योऽवगुणः, तस्य यो वर्गः, तस्य विधाने सावधाना इति तात्पर्यानुसारी विग्रहः । ४५. आत्मा च तस्य च गुणाश्च, तेषां घातादौ प्रवणा इति । ४६. आत्मीयाः ये अभियुक्ताः मान्यतयाः सज्जनाः तेषां या ततिः, ताम् इति । ४७. लोकश्च अलोकश्च इति लोकालोको, तयोः अवलोकनं-अवबोधः तत्र लम्पटं यत् केवलवेदः केवलज्ञानं, तेन अवलोकिताः सूक्ष्माः दुराः दूरस्थाः अमूर्ताः वर्णादिरहिता अरूपिणः इत्यर्थः, व्यवहिता-कटकुड्यादिभिरावृताः एतादशाश्च इतरे ये पदार्थाः, तेषां सार्थः यरिति ।

Loading...

Page Navigation
1 ... 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188