Book Title: Anand Ratnakar Anand Lahri Tippani Sahit
Author(s): Suryodaysagar Gani
Publisher: Agamoddharak Jain Granthmala
View full book text
________________
[१३५
श्रीकर्मप्रकृत्युपो० टिपप्णी ] २०. व्यवहारस्य सकलजनप्रचलितस्य कार्यपद्धतेः एकं च तत् मूलमिति । २१. एतत्पदस्याग्रेतनेन " जीवास्तिता" इति पदेन सह सम्बन्धो विज्ञेयः।
एतेन च वेदान्तिनामभिमताया व्यावहारिकसत्तायाः जीवसम्बन्धिवाः निर्देशोऽत्र ।
२२. स्वरूपतोऽसतो वस्तुनः प्रतिपादनमात्ररूपव्यवहारिकसत्ता हि खल व्यावर्णनमात्रमेवेति
धन्यतेऽत्र " वर्ण्यमाने"-तिपदेन । २३. एतत्पदेनाऽपि स्वमन्तव्यदृढीकरणार्थमभिप्रेयते न हि याथार्थेन सङ्गगच्छते इति ध्वन्यते । २४. तत्कैः तत्सम्बन्धिभिरित्यर्थः, वेदान्तिभिरिति भावः । २५. न प्रयोजनमित्यर्थः । २६. वेदान्तिभिः इत्यर्थः । २७. एतत्पदस्य अप्रेतनेन " विप्रतिपन्नः" इति पदेन सह सम्बन्धः ।
२८. इष्ट-मोक्षसाधकत्वेन, इष्टस्य चाविरुद्धो यः परमार्थः, तस्य अभिधायिनि इत्यन्वयसङ्गतिः कार्या।
आपाततस्तु अत्र " दृष्टेष्टाविरुद्ध-परमार्थाभिधायिनि ” इति पाठः सुसङ्गतः प्रतीयते, परमत्र मुदितप्रतौ " कश्चिदिष्टेष्टाऽविरुद्धे " ति पाठः दृश्यते, मुद्रणदोषजन्यो ह्ययंपाठोऽनुमीयते
तत्त्वं तु सुजैः सुधीभिः मध्यस्थवृत्या परिज्ञेयम् । २९. वर्णने चणः = निपुणः तस्मिन् । ३०. कर्मणोऽसत्त्वे इत्यर्थः । ३१. तुल्यानि-स्थूलदृष्टया एकरूपाणि समानानीति यावत् येषां तेषामिति । ३२. अविषमानिसमानानि कारणानि यस्य, तस्य । ३३. गर्भे अवतारः, तस्य आयो यः समयः, तत्र यत् वैचित्र्यं, तस्य यत् निबन्धनं, तस्य । ३४. तस्य कर्मणः करणस्य यः कालः, फलस्य च सुखदुःखादिरुपस्य या प्राप्तिः, तदुभयस्य अभि
संधायकस्य वस्तुविशेषस्येति अर्थानुसारी अन्वयोऽत्र ज्ञेयः ।

Page Navigation
1 ... 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188